संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथमृतयतिसंस्कार:

और्ध्वदेहिकादिप्रकरणम् - अथमृतयतिसंस्कार:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ पुत्र:शिष्योवास्त्रात्वापनंकृच्छ्रयंचाधिकारार्थंकुर्यात् ॥ पुत्रातिरिक्तस्यवपनंकृताकृतं ॥ देशकालौस्मृत्वाब्रह्मीभूतस्ययते:शौनकोक्तविधिनासंस्कारंकरिष्ये । नवंकलशंतीर्थेनापू
र्य गंगेचयमुने० नारायण:परंब्रह्म० यच्चकिंचिज्जगत्सर्वं० इतिमंत्रैरभिमंत्र्यरुद्रसूक्तवि
ष्णुसूक्तापोहिष्ठादिभिर्यते:स्नानंविधाय चंदनादिभि:कलेवरंसंपूज्यमाल्यादिभिरलंकृत्यवा
ध्यघोषादिभि:शुध्ददेशंनयेत् जलेस्थलेवासमाहितंकुर्यात् ॥
स्थलपक्षेगर्तंव्याहृतिप्रोक्षितभुविदंडप्रमाणंकृत्वामध्येसूक्ष्मगर्तंसार्धहस्तंकृत्वासप्तव्याहृतिभि:पंचगव्येनत्रि:प्रोक्ष्य जलपक्षेनध्यांपंचगव्यंप्रक्षिप्यकुशानास्तीर्यसावित्र्यादेहंप्रोक्ष्यशंखो
दकेनपुरुषसूक्तेनाष्टोत्तरशतावृत्तप्रणवैश्चसंस्त्राप्याष्टाक्षरेणंषोडशोपचारै:संपूज्यतुलसीमाला
ध्यैरलंकृत्यविष्णोहव्यंरक्षस्वेतिदेहंगर्तेनध्यांवाक्षिपेत् ।
इदंविष्णुरितिदंडंत्रेधाभग्नंदक्षिणहस्तेस्थापयेत् । हंस:शुचिषदिति परेणनाकंनिहितंगुहायां
विभ्राजदेतध्यतयोविशंति । वेदांतविज्ञानसुनिश्चितार्था:संन्यासयोगाध्यतय:शुध्दसत्त्वा: इतिहृदयेजपेत् पुरुषसूक्तंभ्रुवोर्मध्येजपेत् ब्रह्मजज्ञामितिमूर्धनि मूर्धानंभूर्भुव:स्वश्चेत्यु
क्त्वाशंखेनभेदयेत् । अथवाभूमिर्भूमिमगान्मातामातरमप्यगात् ।
भूयास्मपुत्रै:पशुभिर्योनोव्देष्टिसभिध्यतामितिमंत्रेणपरश्वादिनाभेदयेत् । शिरोभेत्तुमशक्त:
शिरस्थापितंगुडपिंडादिकंभिध्यात् । गर्तंपुरुषसूक्तेनलवणेनप्रपूरयेत् । सृगालश्वादिरक्षार्थं
सिकतादिभि:प्रपूरयेत् ।
नध्यादौशिरोभेदनोत्तरंदर्भैराच्छाध्यव्याहृतिभिरभिमंत्र्यपाषाणंबध्वा ॐस्वाहेतिहृदेन्यसेत्॥
ततो ॐ अग्निनाग्नि:स:० ॐ त्वंह्यग्नेअग्निना० ॐ तंमर्जयंतसुक्रतुं० ॐ यज्ञेनयज्ञं०
इत्यृक् चतुष्टयेनचित्ति:स्त्रुगित्यादिभिर्दशहोत्रादिसंज्ञकयजुर्मंत्रैश्चाभिमंत्रयेत् ॥
अतोदेवाइतिजप्तिवापापैर्मुक्ताअश्वमेधादिफलभागिनोवयमितिभावयंतोऽवभृथबुध्ध्यासर्वेनुगामिन: स्त्रात्वागंधादिधृत्वासोत्सवागृहंगच्छेयु: । अत्रपरमहंसस्यस्थलेसमाधिर्मुख्य:
जलेमध्यम: । कुटीचकंतुप्रदेहत्पूरयेच्चबहूदकं । हंसोजलेतुनिक्षेप्य:परमहंसंप्रपूरयेदितिव
चनात् । अत्रपरमहंसंप्रकीरयेदितिक्कचित्पाठ: । एकोद्दिष्टंजलंपिंडमाशौचंप्रेतसत्क्रियां । नकुर्याव्दार्षिकादन्यद्ब्रह्मीभूतायभिक्षवे । कुटीचकातिरेकेनदहेध्यतिनंक्वचित् ॥
तत:कर्तास्नात्वाचम्यसिध्दिंगतस्यब्रह्मीभूतभिक्षोस्तृप्त्यर्थंतर्पनंकरिष्येइतिसंकल्प्य सव्ये
नदेवतीर्थेनैवात्मानमंतरात्मानंपरमात्मानमितिचतुश्चतुस्तार्पयित्वा शुक्लपक्षेमृतस्यकेश
वादिव्दादशनामभि: कृष्णपक्षेमृतस्यसंकर्षणादिव्दादशनामभि:केशवंतर्पयामीत्येवंव्दितीयां
तै:कुर्यात् ॥ इदंक्षीरेणेतिकेचित् ॥
तत:सिध्दिंगतस्यभिक्षोस्तृप्त्यर्थंनारायणपूजनंबलिदानंघृतदीपदानंचकरिष्येइतिसंकल्प्यदे
वयजनोपरितीरेवामृन्मयलिंगंकृत्वापुरुषसूक्तेनाष्टाक्षरेणचषोडशोपचारपूजांकृत्वाघृतमिश्र
पायबलिंदत्त्वाघृतदीपंचसमर्प्यपायसबलिंजलेक्षिपेत् ॥
तत: ॐ नमोब्रह्मणेनमइतिशंखेनाष्टार्घ्यान्दत्त्वागृहंव्रजेदितिप्रथमदिनकृत्यं ॥
एवंदशदिनांतंप्रत्यहंतर्पणंलिंगपूजनंपायसबलिदीपदानानिकुर्यात् ॥
इतिमृतयतिसंस्कार: ॥

N/A

References : N/A
Last Updated : August 25, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP