संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथाग्नौमहैकोद्दिष्टम्

और्ध्वदेहिकादिप्रकरणम् - अथाग्नौमहैकोद्दिष्टम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ अथद्विजाभावेअग्नौआध्यमासिकमहैकोद्दिष्टविधि: ॥ ग्रामाब्दहि:शुचौदेशेगोमये
नोपलिप्तेअध्येत्यादिअमुकगोत्रस्यामुकप्रेतस्यप्रेतत्वनिवृत्त्योत्तमलोकप्राप्तयेएकादशाहेअग्नौमहैकोद्दिष्टंकरिष्य इतिसंकल्प्य ॥
ॐ भूर्भुव:स्व:इतिलौकिकाग्निंप्रतिष्ठाप्यपरिसमुह्यपरिस्तीर्यपर्युक्ष्यगंधादिभिरभ्यर्च्य द्विजवदग्निसमीपेदेशकालौस्मृत्वाग्नौमहैकोद्दिष्टश्राध्दंकरिष्येइतिसंकल्प्यतिलोदकं०
दर्भबटौअमुकगोत्रामुकप्रेतमहैकोद्दिष्टश्राध्देक्षणउपतिष्ठतामित्यादिक्षणादिपूर्ववद्दध्यात्॥ अग्निसमीपेपूर्ववदर्घ्यं । अमुकगोत्रायेत्यादिप्रेतायस्वाहेत्यग्नावेकाहुतिहोम: । ततोऽग्नेर
ग्रतस्त्रिकोणमंडलोपरिपात्रंसंस्थाप्यपरिवेषणादिसंकल्पांदिसंकल्पांतंपूर्ववत् । उदीरतामित्य
ष्टभिर्मंत्रै:प्रणवाध्यै:स्वाहाकारांतैश्चतुर्वारावृत्त्याद्वात्रिंशदाहुतीर्ग्रासमिता:सोपस्करान्नस्यजुहुयान्नत्याग: । उदीरतामित्यष्टर्चस्यशंख:पितरस्त्रिष्टुप् । महैकोद्दिष्टान्नहोमेवि० ॥
ॐ उदीरतामवरउत्परासउन्मध्यमा:पितर:सोम्यास: । असंयुईयुरवृकाऋतज्ञास्तेनोवंतुपित
रोहवेषुस्वाहा ॥
इदंपितृभ्योनमोअस्त्वध्ययेपूर्वासोय उपरासईयु: । येपार्थिवेरजस्यानिषत्तायेवानूनंसुवृजना
सुविक्षु ॥
आहंपितृन्त्सुविदत्राँअवित्सिनपातंचविक्रमणंचविष्णो: । बर्हिषदोयेस्वधयासुतस्यभजंतपि
त्वस्तइहागमिष्ठा: ॥
बर्हिंषद:पितरऊत्य १ र्वागिमावोहव्याचकृमाजुषध्वं । तआगतावसाशंतमेनाथान:शंयोररपो
दधात ॥
उपहूता:पितर:सोम्यासोबर्हिष्येषुनिधिषुप्रियेषु । तआगमंतुतइहश्रुवंत्वधिब्रुवंतुतेवन्त्वस्मा
न् ॥
आच्याजानुदक्षिणतोनिषध्येमंयज्ञमभिगृणीतविश्वे । मार्हिंसिष्टपितर:केनचिन्नोयद्वआ
ग:पुरुषताकराम ॥
आसीनासोअरुणीनामुपस्थेरयिंधत्तदाशुषेमर्त्याय ॥ पुत्रेभ्य:पितरस्तस्यवस्व: प्रयच्छतत
इहोर्जदधात् ॥
येन:पूर्वेपितर:सोम्यासोनूहिरसोमपीथंवसिष्ठा: । तेभिर्यम:संरराणोहवींष्युशन्नुशभ्दि:प्रति
काममत्तु ॥
एवंचतुरावृत्तसूक्तेनद्वात्रिंशदाहुतीर्हुत्वोच्छिष्टपिंडोनदेय: । अग्निसमीपेएक:पिंड:पूर्ववद्दे
य: । पिंडार्थमेकंकुशंनिधायअभ्युक्ष्य अ० गो० पिंडार्थेदर्भासनं तस्योपरितिलोदकमुप०
अमुकप्रेतक्षुन्निवृत्त्यर्थंचरुपिंडउप० तस्योपरितिलोदकमुप० अंजनाभ्यंजनंपाध्यंअर्घ्यंआच
मनीयंस्नानंवस्त्रंगंधमाल्यभृगराजतुलसीपत्राणिसर्वोपचारार्थेतिला: धूपदीपौचरुनैवेध्य:तांबू
लंदक्षिणा प्रेतस्यवस्त्रशयनासनाभरणानिपादुकाछत्रोदकपात्रवाहनादीनियथाशक्तिदध्यात् ॥ अतसीपुष्प० ॥ अनादिनिधनोदेवइतिपठित्वाप्यायनंवाचयित्वापरिस्तरणानिविसृज्यप
रिसमुह्यपर्युक्ष्याभ्यर्च्यसांगतार्थंब्राह्मणेभ्योभूयसींदत्त्वाअभिरम्यतामितिविसर्जयेत् ॥
इत्यग्नौमहैकोद्दिष्टविधि: ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP