संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथप्रेतस्यपुन:संधानम्

और्ध्वदेहिकादिप्रकरणम् - अथप्रेतस्यपुन:संधानम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ मृतस्यगृह्याग्निविच्छेदे देशकालौनिर्दिश्यअमुकगोत्रस्याअमुकशर्मण:पित्रादे:गृह्या
ग्निविच्छेददिनादारभ्यएतावंतंकालंगृह्याग्निविच्छेदजनितप्रत्यवायपरिहारद्वाराश्रीपरमेश्वरप्रीत्यर्थं प्रत्यब्दंएककृच्छ्रप्रायश्चित्तंतत्प्रत्याम्नायगोनिष्क्रयीभूतयथाशक्तिरजतद्रव्यदा
नद्वारासूतकांतेऽहमाचरिष्ये ॥
गृह्याग्निविच्छेदेनलुप्तानांसायंप्रातर्होमानांतथादर्शपूर्णमासस्थालीपाकानांचव्रीह्यादिद्रव्यमाज्यंचतन्निष्क्रयंवासूतकांतेब्राह्मणेभ्योदातुमहमुत्सृज्ये ॥
आचम्यअमंत्रकंप्राणायामंकृत्वातिथ्यादिसंकीर्त्यप्राचीनावीतीअमुकगोत्रस्यामुकशर्मण:पित्रादे:अग्निविच्छेदनिमित्तकंदाहायाग्निसिद्ध्यर्थंप्रेतानंकरिष्ये ॥
चतुरस्त्रंस्थंडिलंकृत्वासंभारान्यथालाभंसंपाध्यतग्नोमयेनोपलिप्ययज्ञियकाष्ठेनोल्लिख्यलौ
किकाग्निंस्थंडिलस्याग्नेय्यांनिधाय जुष्टोदमूनाइत्यादिनाऽऽवाह्यव्याहृतिभिरग्निंप्रतिष्ठा
प्यसमिध्यचत्वारिशृंगेतिध्यात्वापरिसमुह्यपरिस्तीर्यपर्युक्ष्य अग्नेरुत्तरतोदर्भेषुप्रोक्षणीस्त्रुवौ
आज्यपात्रंसंमार्गदर्भानासाध्यप्रोक्षणीपात्रमुत्तानंकृत्वा तत्रानंतर्गर्भितसाग्रसमस्थूलप्रादेशमा
त्रेकुशद्वयरुपेपवित्रेनिधायशुध्दाभिरभ्दिस्तत्पात्रंपूरयित्वागंधादिक्षिप्त्वाहस्तयोरंगुष्ठोपकनिष्ठिकाभ्यामुदगग्रेपृथक्कपवित्रेधृत्वाऽपस्त्रिरुत्पूय पात्राण्युत्तानानिकृत्वासर्वाणित्रि:प्रोक्षेत् ॥ तेपवित्रेआज्यपात्रेनिधायआज्यपात्रंपुरत:संस्थाप्यतस्मिन्नाज्यमासिच्यअग्रेरुत्तरतोदर्भेषु
स्वस्थानेनिधायज्वलतादर्भोल्मुकेनावज्वल्य अंगुष्ठपर्वमात्रंप्रक्षालितंदर्भाग्रद्वयमाज्येप्रक्ष
प्य पुनर्ज्वलतातेनैवदर्भोल्मुकेन आज्यंत्रि:पर्यग्निकृत्वातदुल्मुकंनिरस्य अपउपस्पृश्यसवि
तुष्ट्वेतिउत्पूय अग्नौपवित्रंप्रहरेत् ॥
ततआत्मनोऽग्रतोभूमिंप्रोक्ष्यतत्रास्तीर्णदर्भेषुआज्यपात्रंनिधायस्त्रुवंसंमृज्यतूष्णीमग्निमभ्यर्च्य ॥ अयाश्चेतिविमदोअयाअग्नि:पंक्ति:प्रेताधानांगाज्यहोमेविनियोग: ॥
ॐ अयाश्चाग्नेस्यनभिशस्तीश्चसत्यमित्त्वमयाअसि ॥ अयासावय साकृतोयासन्हव्यमूहि
षेयानोधेहिभेषजंस्वाहा ॥
अयासेऽग्नयइदं० ॥ इत्याज्याहुतिंहुत्वा ॥ ॐ यस्याग्नयोजुह्व० तोमांसकामा:संकल्पयं
तोयजमानमांसं ॥
जानंतुतेहविषेसादितादितायस्वर्गंलोकमिमंप्रेतंनयंतुस्वाहा स्वरिदं० ॥ ॐ भू:स्वाहाअग्नय
इदं० ॥
ॐ भुव:स्वाहावायवइदं० ॥ ॐ स्व:स्वाहासूर्यायेदं० ॥ ॐ भूर्भव:स्व:स्वाहाप्रजापतयइदं० ॥ एवंहुत्वापरिस्तरणानिविसृज्यपुन:परिसमुह्यपर्युक्ष्याग्निंसंपूज्यविष्णुंस्मरेत् ॥
एवमौपासन:सिध्दोभवति ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP