संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथसपिंडीकरणम्

और्ध्वदेहिकादिप्रकरणम् - अथसपिंडीकरणम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तत्रदेवार्थंविप्रद्वयंप्रेतार्थमेक:पार्वणार्थंत्रयइतिषट्‍अशक्तौदेवार्थंप्रेतार्थंप्रत्येकमेकैकइ
तित्रयंवानिमंत्र्य आचम्यपवित्रंतेइतिपवित्रादिधृत्वाप्राणानायम्यदेशकालौसंकीर्त्य ॥
अमुकगोत्रस्यअमुकशर्मण:प्रेतस्यप्रेतत्वनिवृत्त्यापितृलोकप्राप्त्यर्थंभारद्वाजगोत्रै:कृष्णविष्णु
महादेवशर्मभि:वसुरुद्रादित्यस्वरुपै:प्रेतपितृपितामहप्रपितामहै:सहसपिंडीकरणंमृताहाद्वादशे
ह्निपार्वणैकोद्दिष्टेनविधिनाकरिष्येइतिसंकल्प्य (मातरितुअमुकगोत्रायाअमुकदाया:भार
द्वाजगोत्राभि:अस्मत्पितामहीप्रपितामहीवृध्दप्रपितामहीभिर्वसुरुद्रादित्यस्वरुपाभि:सह०
इति ॥ एवंभ्रात्रादिसपिंडनेप्यूह्यं)
तदंगयवतिलोदकवैश्वदेवसूक्तजपमार्जनब्रह्मदंडादि । श्राध्दभूमौ० क्षणादिकरिष्ये ।
अपोदत्त्वाकामकालसंज्ञकविश्वेदेवार्थंत्वयाक्षण:करणीय: । एवंद्वितीये । अपसव्यंते ।
अपसव्यंप्रेतार्थंक्षणउपतिष्ठतां ।
प्रेतस्यपित्रर्थंत्वयाक्षण:करणीय:एवंपितामहार्थंप्रपितामहार्थंच । स्मृत्युक्तकरणपक्षेतुसर्वेषां
पादप्रक्षालनं ।
मंडलानिकृत्वादेवमंडलाद्दक्षिणोत्रिकोणंमंडलंज्ञेयं । अमुकगोत्रअमुकशर्मन्प्रेतइदंतेपाध्यमु
पतिष्ठतां । प्रेतपित्रादौपार्वणवत् । तत:कर्ताब्राह्मणानाचमय्यस्वयंद्विराचम्यदेवानुपवेश
यित्वा सव्यं सर्वेषांस्वागतं ॥
देवा:समाध्वं । प्राचीना० पित्रादय: समाध्वं । उपक्रांतंसपिंडीकरणश्राध्दंकरिष्ये । शंनोदेवी० यवोसियवया० प्रेतस्थानेतूष्णींपार्वणस्थाने शंनोदेवी० उदीरता० तिलारक्षत्वं०
रक्षोहणं० अष्टौवसव । पाकप्रोक्षणं ॥ आगच्छंतुमहाभागा० श्राध्दभूमौ ॥
स्वयंकामकालसं० देवानांब्रह्मणेइदमासनंइत्यादिमंत्रवदर्घ्यासादनावाहनार्घ्यदानगंधपुष्पधू
पदीपाच्छादनांतार्चनंप्रकृतिवत् ॥ अपसव्यं ततोऽमुकगोत्रस्यामुकप्रेतस्येदमासनं ॥
तत:पार्वणस्थत्रयेअपोदत्त्वाअमुकगोत्राणामित्यादिषष्ठ्यासनंदत्त्वापुरत:प्रेतार्थमेकमर्घ्यपात्र
मासाध्यतत्पूर्ववत:पार्वणार्थंपात्रत्रयमाग्नेयीसंस्थंचासाध्यप्रेतपात्रेदर्भचतुष्टयंनिधाय पार्वण
पात्रेषुप्रत्येकंकुशत्रयंनिधायपात्रचतुष्टयेप्यपआसिच्य शंनोदेवीरितिसकृदनुमंत्र्यप्रेतपात्रेति
लोसिसो० प्रत्नवभ्दि:प्रत्त:प्रेतेमांल्लोकान्प्रीणयाहिन:इतितूष्णींवातिलान्प्रक्षिप्य पार्वणपात्रे
षुप्रकृतिवत्प्रक्षिप्यसर्वत्रगंधादिक्षिप्त्वा प्रेतपात्रंतूष्णींनिवेध्यपित्रादिपात्रत्रयंस्वधाअर्घ्या:इति
प्रत्येकंनिवेदयेत् ।
तत:प्रेतपात्रस्थमेकंकुशंप्रेतब्राह्मणहस्तेदत्त्वा प्रेतपात्रस्थजलैकदेशमादाय अमुकगोत्रामुकश
र्मन्प्रेतइदंतेर्घ्यमुपतिष्ठतांइत्यर्घ्यंदत्त्वाअमुकगोत्रामुकप्रेतपात्रोदकंभारद्वाजगोत्राणांकृष्णवि
ष्णुमहादेवशर्मणांवसुरुद्रादित्यस्वरुपाणां प्रेतपितृपितामहप्रपितामहानामर्घ्यपात्रोदकै:संयोज
यिष्ये संयोजयेत्युक्ते प्रेतपात्रस्थंकुशत्रयंपित्रादिपात्रत्रयेदत्त्वाप्रेतार्घ्यपात्रस्थजलंवक्ष्यमाणमं
त्रै:किंचित्किंचित्संयोजयेत् ॥ प्रतिसंयोजनंमंत्रावृत्ति: ॥
तत्प्रकारस्तुप्रेतपात्रस्थोदकैदेशंपात्रांतरेणादाय । येसमाना:समनस:पितरोयमराज्ये ॥
तेषांलोक:स्वधानमोयज्ञोयज्ञेषुकल्पतां ॥
येसजाता:समनसोजीवाजीवेषुमामका: ॥ तेषांश्रीर्मयिकल्पतामस्मिंल्लोकेशतंसमा: ॥
संगच्छध्वंसंवदध्वंसंवोमनंसिजानतां ॥
देवाभागंयथापूर्वेसंजानानाउपासते ॥ समानोमंत्र:समिति:समानीसमानंन:सहचित्तमेषां ॥
समानंमंत्रमभिमंत्रयेव:समानेनवोहविषाजुहोमि ॥
समानीवआकूति:समानाहृदयानिव: ॥ समानमस्तुवोमनोयथाव:सुसहासति ॥
एतान्मंत्रानुक्त्वाभारद्वाजगोत्रशिवशर्मन्प्रेत भारद्वाजगोत्रेणकृष्णशर्मणावसुरुपेणस्वपित्रा
सहसायुज्यंगच्छेत्युक्त्वाहस्तेगृहीतजलंप्रेतपितृपात्रस्थोदकेसंयोजयेत् ।
पुन:प्रेतार्घ्यपात्रस्थमुदकंकिंचिग्दृहीत्वायेसमानइत्यादिमंत्रान्पठित्वाभारद्वाजगोत्रशिवशर्मन्प्रेतभारद्वाजगोत्रेणविष्णुशर्मणारुद्ररुपेणस्वपितामहेनसहसायुज्यंगचछेत्युक्त्वातज्जंप्रेतपितामहपात्रेसंयोज्य ।
तत:प्रेतपात्रस्थोदकंसर्वंगृहीत्वायेसमान इत्यादिमंत्रानुच्चार्यभारद्वाजगोत्रशिवशर्मन्प्रेत
भारद्वाजगोत्रेणमहादेवशर्मणाआदित्यरुपेणस्वप्रपितामहेनसहसायुज्यंगच्छेत्युक्त्वाहस्तस्थजलंप्रेतप्रपितामहपात्रएसंयोजयेत् ॥
(मातरितुभारद्वाजगोत्रगंगाप्रेतपात्रोदकंभारद्वाजगोत्राणांकृष्णावेणीनर्मदादानांप्रेतभर्तृमातृपितामहीप्रपितामहीप्रपितामहीनांवस्वादिरुपाणामर्घ्यपात्रोदकै:संयोजयिष्ये । पूर्ववस्त्रिषु
कुशनिधानांतेप्रेतपात्रजलैकदेशमादाययेसमानइत्यादिमंत्रान्पठित्वा भारद्वाजगोत्रेगंगाप्रेते
भारद्वाजगोत्रयाकृष्णादयावसुखरुपयास्वश्वश्र्वासहसायुज्यंगच्छेत्युक्त्वाहत्वाहस्तस्थजलं
भर्तृमातृपात्रेसंयोज्य पुनर्जलमादाययेसमानाइत्यादिमंत्रांतेभारद्वाजगोत्रेगंगाप्रेतेभारद्वाज
गोत्रयावेणीदयारुद्ररुपयास्वभर्तृपितामह्यासहसायुज्यंगच्छेत्युक्त्वाहस्तस्थजलंतत्पात्रेसंयोज्यप्रेतपात्रस्थंसर्वंजलंगृहीत्वायेसमानाइत्यादिमंत्रपाठांतेभारद्वाजगोत्रेगंगाप्रेतेभारद्वाजगो
त्रयानर्मदादयाआदित्यरुपयास्वभर्तृपितामह्यासहसायुज्यंगच्छेत्युक्त्वाहस्तमुदकंतत्पात्रेसं
योजयेत् । भ्रात्रादिसंयोजनेप्येमेवोह्यं ) ॥
अनंतरंपार्वणस्थप्रेतपित्रादिभ्यउशंतस्त्वेत्याध्यावाहनपूर्वंक्रमेणपार्वणवदर्घ्यंदध्यात् ॥
ततोमुकप्रेतगंधमुपतिष्ठतांमाल्यंआच्छादनमुपतिष्ठतामितिप्रेतेदत्त्वादिभ्य:संबुध्ध्यापार्वण
वदाच्छादनांतंकुर्यात् ॥
ततौन्गौकरणंकरिष्यइतिसंकल्प्यभोजनार्थादन्नादुध्दृताक्तंकृत्वाअमुकगोत्रायामुकशर्मणेप्रेतायस्वाहेत्येकामाहुतिंप्रेतस्थानस्थविप्रकरेहुत्वा तदन्नंवन्हौप्रक्षिप्यपात्रांतरेसघृतमन्नदाय
द्विधाविभज्यपार्वणस्थब्राह्मणकरेषुदत्त्वाततोन्नंघृताभिघारपूर्वपात्रेषुपरिविष्यपृथिवीतेपात्र
मित्यादिकामकालसंज्ञकेभ्योविश्वेभ्योदेवेभ्य:इदमन्नमित्यादिप्रकृतिवत् ।
प्रेतपात्रेमुकगोत्रायामुकशर्मणेप्रेतायेदमन्नंपरिविष्टंपरिवेक्ष्यमाणंचोपतिष्ठतामितिनिवेध्यपित्राध्युपविष्टस्थलेपृथिवीतइत्यादिपार्वणवत् । ब्रह्मार्पणं० ईशानविष्णु० एकोविष्णु० ।
ततस्तृप्तेविश्वेदेवा:तृप्ता:स्थ प्रेतस्थानेस्वदितमितिप्रश्न:सुस्वदितं पित्रादौप्रकृतिवत् ।
ततउच्छिष्टपिंडोदेय: । उच्चिष्टसमीपेपिंडार्थमेकंदर्भंनिधाय तत्रशुंधंतांप्रेताइत्युदकंनिनीय
अमुकगोत्रायामुकप्रेतायसपिंडी० अयंतेपिंडउपतिष्ठतामितिमहांतंपिंडदत्त्वा तद्दक्षिणत:प
श्चिमतोवाअपहतेत्यादिशुंधतांतंकृत्वापार्वणत्प्रेतपित्रादिभ्य:पिंडत्रयंदध्यात् ।
प्रेतपिंडेअनुमंत्रनांजनाभ्यंजनादिसर्वंतूष्णींकृत्वातिलोदकंगंधपुष्पभृंगराजाध्युचारान्समर्प्य
अमुकशर्मण:प्रेतस्यद्दत्तंसपिंडीकरण्श्राध्दीयमन्नोदकादितक्षय्यमुपतिष्ठतामित्युक्त्वाविशिष्टदक्षिणांदत्त्वाअभिरम्यतामितिविसर्जयेत् ॥
सहैववादक्षिणविसर्जनेभवेतां । तत:अमुकगोत्रस्यामुकप्रेतस्यपिंडंपित्रादिपिंडै:सहसंयोजयि
ष्ये इतिपृष्ट्वासंयोजयस्वेतिद्विजै:प्रत्युक्त:कर्तामधुवाताइतितृचेनकुशरज्ज्वाप्रेतपिंडंत्रिधा
विभज्यदवयवत्रयंत्रिषुपिंडेषुयोजयेदेभिर्मंत्रै: ॥
येसमाना० येसजाता:० संगच्छध्वं० समानोमंत्र:० समानीवआकूति:० इतिपंचपूर्वोक्तान्म
धुवाताइतितृचंचोक्त्वा (पूर्वमर्घ्यसंयोजनेनिर्दिष्टप्रकारेणयोजयेत्)
अमुकगोत्र अमुकप्रेत अमुकशर्मणास्वपित्रासंसृजस्वेतिवदन् प्रेतपिंडप्रथमभागंतत्पिंडेसंयो
ज्यदधिमधुभ्यांमिश्रीकुर्यात् ॥
एवंप्रेतस्यपितामहप्रपितामहयो:प्रेतपिंडेनसंयोजनं ॥ येसमानाइत्यादीनांसर्वमंत्राणामावृत्ति: ॥ तत:अत्रपितरोमादयध्वमित्यादिपिंडप्रवाहणांतंपार्वणवत् ॥
केचित्तुप्रेतपिंडावयवत्रयेणसंयोजितांस्त्रीन् पिंडानिदानींतनमृतमारभ्यपुरुषत्रयायपार्वणवत्पु
नरपिनामगोत्राध्युच्चार्यदध्यादित्याहु:प्रयोगरत्ने: ॥
अस्मिन्पक्षेअपहतेत्यादिकृत्वाप्रवाहणांतं ॥ द्वादशदिनपर्यंतंधारितमुत्तरीयंपिंडोपरिदध्यात्त
च्चार्योगृह्णीयात् ॥ अवयवपिंडार्थांपाकस्थालींचाचार्यायदध्यात् ॥
तत: ॥ एषवोनुगत:प्रेत:पितृभागमवाप्तवान् ॥ शुभंभवतुशेषाणांजायंतांचिरजीविन: ॥
इतिमंत्रंपठेत् ॥
ततोविकिरद्वयंदध्यात् ॥ वरयाचनतांबूलदक्षिणादि ॐ स्वधोच्यतामित्यादिविसर्जनांतं
पार्वणवत् ॥
स्मृत्युक्तसंकल्पेतुशिवाआप:संत्वित्यादिसर्वंज्ञेयं ॥ प्रेतस्थानेअन्यविप्राद्दिगुणदक्षिणां
दध्यात् ॥
वाजेवाजेइत्यादिअभिरम्यतामितिविसर्जयेत् ॥ आसीमांतमनुव्रज्यपिंडान् गंगादौप्रक्षिप्य
स्नात्वागृह मागत्यवैश्वदेवादिकंकुर्यात् ॥
(अस्मिन्प्रयोगेउच्छिष्टपिंडदानंनिर्वपणात्प्रागेवास्तितन्मूलंनविद्म:) ॥
इतिसपिंडीकरणम् ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP