कार्पटिकाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


गोमुखेनेति कथितं श्रुत्वा वत्सेश्वरात्मजः ।
जहास तस्या वृत्तान्तमलंकारवतीसखः ॥१६६॥
कदाचिदथ तं प्राह राजपुत्रं सुहृद्युतम् ।
मरुभूतिः कृपाविष्टो दृष्ट्वा कार्पटिकं पुरः ॥१६७॥
शीतवातातपसहो सदैव त्वत्परायणः ।
नाद्यापि परमां लक्ष्मीं प्राप्त इत्यद्भुतं महत् ॥१६८॥
प्राग्दत्तं भुञ्जते सर्वे कर्तुं वा कस्य कः क्षमः ।
तवापि यत्कार्पटिकः पदं नाद्यापि संपदाम् ॥१६९॥
इत्युक्ते राजपुत्रस्य पुरतो मरुभूतिना ।
गोमुखः प्राह सदृशं श्रूयतामेवमत्र च ॥१७०॥
अभूत्प्लक्षपुरे श्रीमान्प्लक्षदत्ताभिधो नृपः ।
लब्धदत्ताह्वयस्तस्य भक्तः कार्पटिकोऽभवत् ॥१७१॥
चिरसेवापरिक्लिष्टं तं विज्ञाय स पार्थिवः ।
गूढं रत्नैः समापूर्य फलं तस्मै ददौ स्वयम् ॥१७२॥
मातुलुङ्गफलं प्राप्य सोऽपि राज्ञा समर्पितम् ।
अभिदध्यौ तदद्यापि नाहं लक्ष्मीनिरीक्षितः ॥१७३॥
इति चिन्तापरो गत्वा यदृच्छोपगताय सः ।
भक्तः कार्पटिकस्तस्य तत्फलं भिक्षवे ददौ ॥१७४॥
राजा नन्दिरिति ख्यातः स भिक्षुस्तन्महीभुजे ।
हस्तोपायनमास्थाने मातुलुङ्गफलं ददौ ॥१७५॥
राजापि रत्नसंफूर्णं तत्परिज्ञाय सस्मितः ।
( पुनः कार्पटिकायैव स तस्मै प्रददौ फलम् ॥१७६॥
राज्ञा दत्तं तदादाय दुःखितोऽसौ व्यचिन्तयत् ) ।
अहो रत्नाकरजुषा मया प्राप्तः कपर्दकः ॥१७७॥
इति ध्यात्वा मयाख्यस्य तद्ददौ राजसेविनः ।
( वस्त्रयुग्मेन संतुष्टो मन्यमानोऽधिकं धनम् ॥१७८॥
अभयोऽपि फलं गत्वा भूभुजे तन्न्यवेदयत् ।
भूयः कार्पटिकायैव प्रादात्तच्च फलं नृपः ॥१७९॥
तद्विलासवती नाम फलमादाय नर्तकी ।
मूल्येन तस्मादनयद्भूपालोपायनास्पदम् ) ॥१८०॥
राजा पुनस्तदासाद्य सावेगं स्मितसुन्दरः ।
तं कार्पटिकमुद्दिश्य चिक्षेप मणिमत्फलम् ॥१८१॥
वेगावपानस्फुटितफलोदरविनिर्गतैः ।
रत्नैरिन्द्रायुधच्छायैस्तस्योत्सङ्गमपूर्यत ॥१८२॥
प्रक्षीणदुष्कृतो लक्ष्म्या कटाक्षैरिव लक्षितः ।
तैर्महारत्ननिकरैः सोऽभवत्संपदां निधिः ॥१८३॥
इत्यनिस्तीर्णदुष्कर्मसंकटैः श्रीर्न लभ्यते ।
तवापि सेवको देव यन्नाद्यापि पदं श्रियः ॥१८४॥
इति कार्पटिकाख्यायिका ॥४॥

N/A

References : N/A
Last Updated : October 29, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP