हिरण्यवर्णाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


पृष्टोऽलंकारवत्याख्या कथां चित्तविनोदिनीम् ।
गोमुखः सादरं प्राह तस्यां सचिवसंसदि ॥२५९॥
हिरण्यवर्ण इत्यासीद्वसुधाधिपशेखरः ।
यशस्वी काञ्चनपुरे पञ्चबाण इवापरः ॥२६०॥
स तु चित्रपटाकारदर्शनाज्जातमन्मथाम् ।
विदर्भराजतनयां लेभे मदनमञ्जरीम् ॥२६१॥
रममाणस्तया तत्र हरिणीहारिनेत्रया ।
मेने वराकं त्रैलोक्यजयिनं रतिवल्लभम् ॥२६२॥
कदाचिदथ दुःस्वप्नं विलोक्याकुलितो नृपः ।
कार्तिकेयवने देवं कुमारं समतोषयत् ॥२६३॥
विघ्नादसम्यग्विहितां मतिं तस्य षडाननः ।
ज्ञात्वा प्रियवियोगस्ते भूयादिति शशाप तम् ॥२६४॥
नृपोऽपि शापदुःखं तद्विस्मृत्य शनकैः प्रियाम् ।
कण्ठावलम्बिनीं कृत्वा धन्योऽस्मीति मुदं ययौ ॥२६५॥
ततः कालेन सा गर्भदोहदा पाण्डुरच्छविः ।
बभूवासन्नचन्द्रेव लहरी दुग्धवारिधेः ॥२६६॥
अथासूत सुतं कान्तं बालकं समवर्चसम् ।
चक्रवर्तिपदोदारलाञ्छनाकलिताकृतिम् ॥२६७॥
दिनेषु षट्सु यातेषु ततो धर्षितदिक्तटाः ।
उद्यत्तरुजटालग्ना विकटा मरुतो ववुः ॥२६८॥
पांशुरूपान्धकारेण नद्धे भुवनमण्डले ।
प्रविश्य सूतिकावेश्म काली पिङ्गललोचना ॥२६९॥
दंष्ट्राविकटवदना तडित्तरलकुण्डला ।
भयंकरी कापि योषित्तं जहार शिशूं बलात् ॥२७०॥
पुत्रस्नेहादनुययौ यातां तां च नृपप्रिया ।
सलिलान्तरनिर्मग्नां तामेवानुममज्ज ह ॥२७१॥
राजापि तिमिरे शान्ते यातां क्कापि सपुत्रकाम् ।
ज्ञात्वा प्रियतमां शोकाद्भेजे शतगुणं तमः ॥२७२॥
राजधानीं परित्यज्य हा प्रिये चित्तचन्द्रिके ।
क्क यातासीति विलपन्बभ्राम विपुलां महीम् ॥२७३॥
स काननं समासाद्य कान्तं विद्याधरं पदम् ।
ददर्श तं च पप्रच्छ संतप्तः शोकभेषजम् ॥२७४॥
स च विद्याधरः प्राह  द्विजोऽहं तत्प्रतिग्रही ।
बन्धुदत्ताभिधो राजंस्त्वद्गृहे कृतभोजनः ॥२७५॥
त्वयैव कृतसाहाय्यः पुरा वेतालसाधकः ।
वैद्याधरीमहं प्राप्तः श्रियमेतां महीपते ॥२७६॥
इतो गत्वा भगवतीमाराध्य हरवल्लभाम् ।
अचिरात्प्राप्स्यसि सतीं तामेव सुचिरात्प्रियाम् ॥२७७॥
इत्युक्तस्तेन स शनैर्गत्वा विन्ध्यमहीधरम् ।
अतोषयद्भगवतीं तपसा शंकरप्रियाम् ॥२७८॥
मयैव रक्षिता पत्नी तव सा ससुता प्रिया ।
इत्युक्त्वा पार्वती तस्मै ददौ तां तनयं तदा ॥२७९॥
प्रहृष्टो दयितां प्राप्य प्राप पुत्रं च भूपतिः ।
हिरण्यवर्णः स्वपुरं गत्वा चक्रे महोत्सवम् ॥२८०॥
इति हिरण्यवर्णाख्यायिका ॥११॥

N/A

References : N/A
Last Updated : October 29, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP