चतुर्थः पाद: - सूत्र १९

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अनुष्ठेयं बादरायण: साम्यश्रुते: ॥१९॥

अनुष्ठेयं बादरायण: साम्यश्रुते: ॥ अनुष्ठेयमाश्रमान्तरमाचार्यो मन्यते ।
वेदे श्रवणात् ।
अग्निहोत्रादीनां चावश्यानुष्ठेयत्वात्तद्विरोधादनधिकृतानुष्ठेयमाश्रमान्तरमिति हीमां मतिं निराकरोति गार्हस्थ्यवदेवाश्रमान्तरमप्यनिच्छता प्रतिपत्तव्यमिति मन्यमान: । कुत: साम्यश्रुते ।
समा हि गार्हस्थ्येनाश्रमान्तरस्य परामर्शश्रुतिर्द्दश्यते त्रयो धर्मस्कन्धा इत्याद्या ।
यथेव श्रुत्यन्तरविहितमेव गार्हस्थ्यं परामृष्टामेवमाश्रमान्तरमपीति प्रतिपत्तव्यम् ।
यथा च शास्त्रान्तरप्राप्तयोरेव निवीतप्राचीनावीतयो: परामश उपवीतविधिपरे वाक्ये ।
तस्मात्तुल्यमनुष्ठेयत्वं गार्हस्थ्येनाश्रमान्तरस्य ।
तथैतमेव प्रव्राजिनो लोकमिच्छन्त: प्रव्रजन्तीत्यस्य वेदानुवचनादिभि: समभिव्याहार: ।
ये चेमेऽरण्ये श्रद्धा तप इत्युपासत इत्यस्य च पञ्चाग्निविद्यया ।
यत्तूक्तं तप एव  द्वितीय इत्यादिष्वाश्रमान्तराभिधानं संदिग्धमिति ।
नैष दोष: ।
निश्चयकारणसद्भावात् ।
त्रयो धर्मस्कन्धा इति हि धर्मस्कन्धत्रित्वं प्रतिज्ञातम् ।
न च यज्ञादयो भूयांसो धमी उत्पत्तिभिन्ना: सन्तोऽन्यत्राश्रमसंबन्धान्त्रित्वेऽन्तर्भावयितुं शक्यन्त्रे ।
तत्र यज्ञदिलिङ्गो गृहाश्रम एको धर्मस्कन्धो निर्दिष्टो ब्रम्हाचारीति च स्पष्ट आश्रमनिर्देशस्तप इत्यपि कोऽन्यस्तप: प्रधानादास्रमाद्धर्मस्कन्धोऽभ्युपगम्यते ।
ये  वेमेऽरण्य इति चारण्यलिङ्गाच्छ्रद्धातपोभ्यामाश्रमगृहीति: ।
तस्मात्परामर्शेऽप्यनुष्ठेयमाशअमान्तरम् ॥१९॥

N/A

References : N/A
Last Updated : December 21, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP