चतुर्थ: पाद: - सूत्र १-२

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


पुरुषार्थोऽत: शब्दादिति बादरायण: ॥१॥

पुरुषार्थोऽत: शब्दादिति वादरायण: ॥ अथेदानीमौपनिषदमात्मज्ञानं किमधिकारिद्वारेण कर्मण्येवानुप्रविशत्याहोस्वित्स्वतन्त्रमेव पुरुषार्थसाधनं भवतिति मीमांसमान: सिद्धान्तेनैव तावदुपक्रमते पुरुषार्थोऽत इति ।
अस्माद्वेदान्तविहितादात्मज्ञानात्स्वतन्त्रात्पुरुषार्थ: सिध्यतीति वादरायण आचार्यो मन्यते ।
कुत एतदवगम्यते शब्दादित्याह ।
तथा हि - तरति शोकमात्मवित्स यो ह वै तत्परं ब्रम्हा वेद ब्रम्हौव भवति ब्रम्हाविदाप्नोति परम् ।
आचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्य इति ।
य आत्माऽपहतपाप्मेत्युपक्रम्य सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ।
आत्मा वा अरे द्रष्टव्य इत्युपक्रम्यैतावदरे खल्वमृतत्वमित्येवंजातीयका श्रुति: केवलाया विद्याया: पुरुषार्थहेतुत्वं भावयति ॥१॥

शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनि: ॥२॥

अथात्र प्रत्यवंतिष्ठते । शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनि: ॥ कर्तृत्वेनात्मन:  कर्मशेषत्वात्तद्विज्ञानमपि व्रीहिप्रोक्षणादिवद्विषयद्वारेण कर्मसंबन्ध्येव ।
इत्यतस्तस्मिन्नवगतप्रयोजन आत्मज्ञाने या फलश्रुति: साऽर्थवाद ति जैमिनिराचार्यो मन्यते ।
यथाऽन्येषु द्रुव्यसंस्कारकर्मसु यस्य पर्णमयी जुहूर्भवति न स पापँश्लोक शृणोति \
यदाङक्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्ते ।
यत्प्रयायाजानूयाजा इज्यन्ते वर्मैव तद्यज्ञाय क्रियते वर्म यममानाय भ्रातृव्याभिभूत्या इत्येवंजातीयका फलश्रुतिरर्थवाद: । तद्वत् ।
कथं पुनरस्यानारभ्याधीतस्यात्मज्ञानस्य प्रकरणादीनामन्यतमेनापि हेतुना विना क्रतुप्रवेश आशङ्क्यते ।
कर्तृद्वारेण वाक्यात्तद्विज्ञानस्य क्रतुसंबन्ध इति चेत् । न ।
वाक्याद्विनिउयोगानुपपत्ते: ।
अव्यभिचारिणा हि केनचिद्वारेणानारभ्याधीतानामपि वाक्यनिमित्त: क्रतुसंबन्धोऽवकल्पते ।
कर्ता तु व्यभिचारि द्वारं लौकिकवैदिकक्रर्मसाधारण्यात् ।
तस्मान्न तदबारेणात्मज्ञानस्य ऋतुसंबन्धसिद्धिरिति । न ।
व्यतिरेकविज्ञनस्य वैदिकेभ्य: कर्मभ्योऽन्यत्रानुपयोगात् ।
न हि देहव्यतिरिक्तात्मज्ञानं लौकिकेषु कर्मसूपयुज्यते ।
सर्वथा द्दष्टार्थप्रवृत्त्युपपत्ते: ।
वैदिकेषु ते देहपातोत्तरकालफलेषु देहव्यतिरिक्तात्मज्ञानमन्तरेण प्रवृत्तिर्नोपपद्यत इत्युपयुज्यते व्यतिरेकविज्ञानम् ।
नन्वपहतपाप्मत्वादिविशेपणादसंसार्यात्मविषयमौपनिपदं दर्शनं न प्रवृत्त्यङ्गं स्यात् ।
न प्रियादिसंमूचितस्य संसारिण एवात्मनो द्रष्टव्यत्वेनोपदेशात् ।
अपद्दतपाप्मत्वादिविशेषणं तु स्तुत्यर्थं भविष्यति ।
ननु तत्र तत्र प्रसाधितमेतदधिकमसंसारि ब्रम्हा जगत्कारणं तदेव च संसारिण आत्मन: पारमार्थिकं स्वरूपमुपनिषत्सूपदिश्यत इति ।
सत्यं प्रसाधितं तस्यैव तु स्थूणानिखननवत्फलद्वारेणाक्षेपप्रतिसमाधाने क्रियेते दाढर्याय ॥२॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP