चतुर्थः पाद: - सूत्र १०-१३

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


असार्वत्रिकी ॥१०॥

यत्पुनरुक्तं तच्छुतेरिति । अत्र ब्रूम: । असार्वत्रिकी ॥ यदेव विद्यया करोतीत्येषा श्रुतिर्न सर्वविद्याविषया ।
प्रकृतविद्याभिसंबन्धात् ।
प्रकृता चोद्नीथविद्या ओमित्येतदक्षरमुद्नीथमुपासीतेत्यत्र ॥१०॥

विभाग: शतवत् ॥११॥

विभाग: शतवत् ॥ यदप्युक्तं तं विद्याकर्मणी समन्वारभेते इत्येतत्स मन्वारम्भवचनमस्वातन्त्र्ये विद्याया लिङ्गमिति तत्प्रत्युच्यते ।
विभागोऽत्र द्रष्टव्यो विद्याऽन्यं पुरुषमन्वारभते कर्मान्यभिति । शतवत् ।
यथा शतमाभ्यां दीयतामित्युक्ते विभज्य दीयते ।
पञ्चाशदेकस्मै पञ्चाशदपरस्मै तद्वत् ।
न चेदं समन्वारम्भवचनं मुमुक्षुविषयम् ।
इति नु कामयमान ति संसारिविषयत्वोपसंहारात् ।
अथाकामयमान इति च मुमुक्षो: पृथगुपक्रमात् ।
तत्र संसारिविषये विद्या विहिता प्रतिषिद्धा च परिगृहयते ।
विशेषाभावात् ।
कर्मापि विहितं प्रतिषिद्धं च ।
यथाप्राप्तानुवादित्वात् ।
एवं सत्यविभागेनापीदं समन्वारम्भवचनमवकल्पते ॥११॥

अध्ययनमात्रवत: ॥१२॥

यच्चैतत्तद्वतो विधानादिंत्यत उत्तरं पठति । अध्ययनमात्रवत: ॥
आचार्यकुलाद्वेदमधीत्येत्यत्राध्ययनमात्रस्य श्रवणादध्ययनमात्रवत एव कर्मविधिरित्यध्यवस्याम: ।
नन्वेवं सत्यविद्यत्वादनधिकार: कर्मसु प्रसज्येत ।
नैष दोष: ।
न वयमध्ययनप्रभवं कर्मावबोधनमधिकारकारणं वारयाम: किं तर्हि औपनिषदमात्मज्ञानं स्वातन्त्र्येणैव प्रयोजनवत्प्रतीयमानं न कमाधिकारकारणतां प्रतिपद्यत इत्येतावत्प्रतिपादयाम: ।
यथा च न व्रात्वन्तरज्ञानं क्रत्वन्तराधिकारेणापेक्ष्यत एवमेतदपि द्रष्टव्यमिति ॥१२॥

नाविशेषात्  ॥१३॥

यदप्युक्तं नियमाच्चेत्यत्राभिधीयते ॥ नाविशेषात् । कुर्वन्नेवेह कर्माणि जिजीविषेदित्येवमादिषु नियमश्रवणेषु न विदुष इति विशेषोऽस्ति ।
अविशेषेन नियमविधानात् ॥१३॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP