संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|तृतीयोध्यायः|चतुर्थ: पाद:| सूत्र ५० चतुर्थ: पाद: सूत्र १-२ सूत्र ३-७ सूत्र ८ सूत्र ९ सूत्र १०-१३ सूत्र १४-१७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२-२३ सूत्र २४-२६ सूत्र २७ सूत्र २८ सूत्र २९-३३ सूत्र ३४ सूत्र ३५-३८ सूत्र ३९-४० सूत्र ४१-४३ सूत्र ४४-४६ सूत्र ४७ सूत्र ४८-४९ सूत्र ५० सूत्र ५१ सूत्र ५२ चतुर्थः पाद: - सूत्र ५० ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ५० Translation - भाषांतर अनाविष्कुर्वन्नन्वयात् ॥५०॥अनाविष्कुर्वन्नन्वयात् ॥ तस्मादब्राम्हाण: पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेदिति बाल्यमनुष्ठेयतया श्रूयते ।तत्र बालस्य भाव: कर्म वा बाल्यमिति तद्धिते सति बालभावस्य वयोविशेषस्येच्छया संपादयितुमशक्यत्वाद्यथोपपादमूत्रपुरीषत्वादिबालचरितमन्तर्गता वा भावविशुद्धिरप्ररूढेन्द्रियत्वं दम्भदर्पादिरहितत्वं वा बाल्यं स्यादिति संशय: ।किं तावत्प्राप्तम् ।कामचारवादभक्षणता यथोपपादमूत्रपुरीषत्वं च प्रसिद्धतरं लोके बाल्यमिति तदबहणं युक्तम् ।ननु पतितत्वादिदोषप्राप्तेर्न युक्तं कामचारताद्याश्रयणम् । न ।विद्यावत: संन्यासिनो वचनसामर्थ्याद्दोषनिवृत्ते: पशुहिंसादिष्विवेति ।एवं प्राप्तिऽभिधीयते । न ।वचनस्य गत्यन्तरसंभवात् ।अविरुद्धे हयन्यस्मिन्बाल्यशब्दाभिलप्ये लभ्यमाने न विध्यन्तरव्याघातकल्पना युक्ता ।प्रधानोपकाराय चाङ्गं विधीयते ।ज्ञानाभ्यासश्च प्रधानमिह यतीनामनुष्ठेयम् । न च सकलायां बालचर्यायामङ्गीक्रियमाणायां ज्ञानाभ्यास: संभाव्यते ।तस्मादान्तरो भावविशेषो बालस्याप्ररूढेन्द्रियत्वादिरिह बाल्यमाश्रीयते ।तदाह अनाविष्कुर्वन्निति ।ज्ञानाध्ययनधार्मिकत्वादिभिरात्मानमविख्यापयन्दम्भदर्पादिरहितो भवेत् ।यथा बालोऽप्ररूढेन्द्रियतया न परेषामात्मानमाविष्कर्तुमीहते तद्वत् ।एवं हयस्य वाक्यस्य प्रधानोपकार्यार्थानुगम उपपद्यते ।तथा चोक्तं स्मृतिकारै: ।यं न सन्तं न चासन्तं नाश्रुतं न बहुश्रुतम् ।न सुवृत्तं न दुर्वृत्तं वेद कश्चित्स ब्राम्हाण: ।गूढधर्माश्रितो विद्वानज्ञातचरितं चरेत् ।अन्धवज्जडवच्चापि मूकवच्च महीं चरेत् ।अव्यक्तलिङ्गोऽव्यक्ताचार इति चैवमादि ॥५०॥ N/A References : N/A Last Updated : December 21, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP