चतुर्थः पाद: - सूत्र ५२

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


वधृते: ॥५२॥

एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृते: ।
यथा मुमुक्षोर्विद्यासाधनावलम्बिन: साधनवीर्यविशेषाद्विद्यालक्षणे फल ऐहिकामुष्मिकफलत्वकृतो विशेषप्रतिनियमो द्दष्ट: ।
एवं मुक्तिलक्षणेऽप्युत्कर्षापकर्षकृत: कश्चिद्विशेषप्रतिनियम: स्यादित्याशङक्याह ।
मुक्तिफलानियम इति ।
न खलु मुक्तिफले कश्चिदेवंभूतो विशेषप्रतिनियम आशङ्कितव्य: । कुत: । तदवस्थावधृते: ।
मुक्त्यवस्था हि सर्ववेदान्तेष्वेकरूपैवावधार्यते ।
ब्रम्हौव हिम्क्त्यवस्था ।
न च ब्रम्हाणोऽनेकाकारयोगोऽस्ति ।
एकलिङ्गत्वावधारणात ।
अस्थूलमनणु स एष नेति नेत्यात्मा यत्र नान्यत्पश्यति ब्रम्हौवेदममृतं पुरस्तात् इदं सर्वं यदयमात्मा स वा एष महानज आत्माऽजरोऽमृतोऽभयो ब्रम्हा यत्र त्वस्य सर्वमात्मैवाभुत्तत्केन कं पश्येदित्यादिश्रुतिभ्य: ।
अपि च विद्यासाधनं स्व्वीर्यविशेषात्स्वफल एव विद्यायां कंचिदतिशयमासञ्जयेन्न विद्याफले मुक्तौ ।
तद्धयसाध्यं नित्यसिद्धस्वभावमेव विद्ययाऽधिगम्यत इत्यसकृदवादिष्म ।
न च तस्यामप्युत्कर्षनिकर्षात्मकोऽतिशय उपपद्यते ।
निकृष्टाया विद्यात्वाभावादुत्कृष्टैव हि विद्या भवति ।
तस्मात्तस्यां चिराचिरोत्पत्तिस्वरूपोऽतिशयो  भवन्भवेत् ।
न तु मुक्तौ कश्च्दतिशयसंभवोऽस्ति ।
विद्याभेदाभावादपि तत्फलभेदनियमाभाव:  कर्मफल वत् ।
न हि मुक्तिसाधनभूताया विद्याया: कर्मणामिव भेदोऽस्तीति ।
सगुणासु तु विद्यासु मनोमय: प्राणशरीर इत्याद्यासु गुणावापोद्वापवसाद्भेदोपपत्तौ सत्यामुपपद्यते यथास्वं फलभेदनियम: कर्मफलवत् ।
तथा च लिङ्गदर्शनं तं यथा यथोपासते तदेव भवतीति ।
नैवं निर्गुणायां विद्यायां गुनाभावात् ।
तथा च स्मृति: ।
न हि गतिरधिकाऽस्ति कस्यचित्सति हि गुणे प्रवदन्त्यतुल्यतामिति ।
तदवस्थावधृतेस्तदवस्थावधृतेरिति पदाभ्यासोऽध्यायपरिसमाप्तिं द्योतयति ॥५२॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवत्पादकृतौ शारीरकमीमांसाभाष्ये तृतीयाधायस्य चतुर्थ: पाद: ॥४॥

तृतीयाध्याय: समाप्त: ॥३॥

N/A

References : N/A
Last Updated : December 21, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP