चतुर्थः पाद: - सूत्र ४७

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


सहकार्यन्तरविधि: पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥४७॥

सहकार्यन्तरविधि: पक्षेण त्रुतीयं तद्वतो विध्यादिवत् ॥
तस्मादब्राम्हाण: पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेद्बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राम्हाण इति बृहदारण्यके श्रूयते ।
तत्र संशयो मौनं विधीयते न वेति ।
न विधीयत इति तावत्प्राप्तम् ।
बाल्येन तिष्ठासेदित्यत्रैव विधेरबसितत्वात् ।
न हयथ मुनिरित्यत्र विधायिका विभक्तिरुपलभ्यते ।
तस्मादयमनुवादो युक्त: । कुत: प्राप्तिरिति चेत् ।
मुनिपण्डितशब्दयोर्ज्ञानार्थत्वात्पाण्डित्यं निर्विद्येत्येव प्राप्तं मौनम् ।
अपि चामौनं च मौनं च निर्विद्याथ ब्राम्हाण इत्यत्र तावन्न ब्राम्हाणत्वं विधीयते ।
प्रागेव प्राप्तत्वात् ।
तस्मादथ ब्राम्हाण इति प्रशंसावाद: ।
तथैवार्थ मुरित्यपि भवितुमर्हति ।
समाननिर्देशत्वादिति ।
एवं प्राप्ते ब्रूम: ।
सहकार्यन्तरविधिरिति ।
विद्यासहकारिणो मौनस्य बाल्यपाण्डित्यवद्विधिरेवाश्रयितव्य: ।
अपूर्वंत्वात् ।
ननु पाण्डित्यशब्देनैव मौनस्यावगतत्वमुक्तम् ।
नैष दोष: ।
मुनिशद्बस्य ज्ञानातिशयार्थत्वात् ।
मननान्मुनिरिति च व्युत्पत्तिसंभवात् ।
मुनीनामप्यहं व्यास इति च प्रयोगदर्शनात् ।
ननु मुनिशब्द उत्तमाश्रमवचनोऽपि श्रूयते गार्हस्थ्यमाचार्यकुलं मौनं वानप्रस्थ्यमित्यत्र । न ।
वाल्मीकिर्मुनिपुङ्गव इत्यादिषु व्यभिचारदर्शनात् ।
इतराश्रमसन्निधानात्तु पारिशेष्यात्तत्रोत्तमाश्रमोपादानम् ।
ज्ञानप्रधानत्वादुत्तमाश्रमस्य ।
तस्माद्वाल्यपाण्डित्यापेक्षया तृतीयमिदं मौनं ज्ञानातिशयरुपं विधीयते ।
यत्तु बाल्य एव विधे: पर्यवसानमिति तथाप्यपूर्वत्वान्मुनित्वस्य विधेयत्वमाश्रीयते मुनि: स्यादिति ।
निर्वेदनीयत्वनिर्देशादपि मौनस्य बाल्यपाण्डित्यवद्विधेयत्वाश्रयणम् ।
तद्वतो विद्यावत: सन्यासिन: ।
कथं च विद्यावत: संन्यासिन इत्यवगम्यते ।
तदधिकारात् ।
आत्मानं विदित्वा पुत्राद्येषणाभ्यो व्युत्थायाथ भिक्षाचर्यं चरन्तीति ।
ननु सति विद्यावत्त्वे प्राप्नोत्येव तत्रातिशय: ।
किं मौनविधिनेत्यत आह । पश्नेणेति ।
एतदुक्तं भवति ।
यस्मिन्पक्षे भेददर्शनप्राबल्यान्न प्राप्नोति तस्मिन्नेष विधिरिति \
विध्यादिवत् ।
यथा दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्येवंजातियके विध्यादौसहकारित्वेनाप्त्यन्वाधा नादिकमङ्गजातं विधीयत एवमविधिप्रधानेऽप्यस्मिन्विद्यावाक्ये मौनविधिरित्यर्थ: ॥४७॥

N/A

References : N/A
Last Updated : December 21, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP