संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः|
सुभाषित ११६१ - ११८०

शृङ्गारप्रवाहः - सुभाषित ११६१ - ११८०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


१३८. नायिकानिष्क्रमणम्

विरामे यामिन्या उपकुचयुगोरूपजघनं
समालम्ब्य व्यस्ताञ्चलमलसमुत्थाय शयनात।
हसित्वा संमुग्धं मधुरमवलोक्याथ शिथिलैर्
भुजैर्निर्यान्तीभिः सुदृढमुपगूढः प्रियतमः ॥११६१॥

वासुदेवज्योतिषः ।

विरामे यामिन्या उपकुचयुगो रूपजघनं
समालम्ब्य व्यस्तां चलमलसमुत्थाय शयनात।
हसित्वा संमुग्धं मधुरमवलोक्याथ शिथिलैर्
भुजैर्निर्यान्तीभिः सुदृढमुपगूढः प्रियतमः ॥११६२॥

कस्यापि ।

प्रत्यग्रदंशजनितश्वयथून्सलीलम्
अम्भोजकोमलकराङ्गुलिकोटिभागैः ।
बिम्बाधरान्मधुरसीत्कृति संस्पृशन्त्यः
कान्ताः प्रयान्ति दयितान्तिकतोऽधुनैताः ॥११६३॥

रत्नाकरस्य ।

विदलितकुचपाणिजाङ्कलेखा
दरभिदुरोरुभरालसा कृशाङ्गी ।
उषसि निधुवनोपभोगजिह्मा
यदि गृहमेति सखि बलाबलेन ॥११६४॥

योगोकस्य ।

निर्यान्त्या रतिवेश्मनः परिणतप्रायां विलोक्य क्षपां
गाढालिङ्गनचुम्बनानि बहुशः कृत्वाप्यसंतुष्टया ।
एकं भूमितले निधाय चरणं तल्पे प्रकल्प्यापरं
तन्वङ्ग्या परिवर्तिताङ्गलतया प्रेयांश्चिरं चुम्बितः ॥११६५॥

कस्यापि । (स्व२१९१, शा.प. ३७२८)

१३९. रतप्रशंसा

यत्नात्संगममिच्छतोः प्रतिदिनं दूतीकृताश्वासयोर्
अन्योन्यं परितुष्यतोरवसरप्राप्तिस्पृहां तन्वतोः ।
संकेतोन्मुखयोश्चिरात्कथमपि प्राप्ते क्रमाद्दर्शने
यत्सौख्यं नवरक्तयोस्तरुणयोस्तत्केन साम्यं व्रजेत॥११६६॥

भट्टचूलितकस्य ।

स स्वर्गादपरो विधिः स च सुधासेकः क्षणान्नेत्रयोस्
तत्साम्राज्यमखण्डितं तदपरं प्रेम्णः प्रतिष्ठास्पदम् ।
यद्बाला बलवन्मनोभवभयभ्रश्यत्त्रपं सत्रपा
तत्कालोचितनर्मकर्म दयितादम्यास्यमभ्यस्यति ॥११६७॥

कस्यापि । (सु.र. ५६४)

सव्रीडार्धनिरीक्षणं यदुभयोर्यद्दूतिकाप्रेषणं
चाद्यश्वो भविता समागम इति प्रीत्या प्रमोदश्च यः ।
प्राप्ते चैव समागमे सरभसं यच्चुम्बनालिङ्गनान्य्
एतत्कामफलं तदेव सुरतं शेषः पशूनामिव ॥११६८॥

कस्यापि । (स्व२२३७, शा.प. ३७८०, सु.र. १६५४)

सीत्कारवन्ति दरमीलितलोचनानि
रोमाञ्चमुञ्चि मकरकेतुनिकेतनानि ।
एणीदृशां मकरकेतुनिकेतनानि
वन्दामहे सुरतविभ्रमचेष्टितानि ॥११६९॥

कस्यचित। (सु.र. ५८२)

हारावली त्रुटति न प्रणयः प्रियाणाम्
आखण्ड्यतेऽधरदलं न मनोभवाज्ञा ।
यस्मिन्विलेपनमपैति न चानुरागस्
तन्मोहनं न खलु मैथुनमन्यदस्मात॥११७०॥

केशटस्य ।

१४०. सखीनां मिथः कथा

कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धनाद्
वासश्च श्लथमेखलागुणधृतं किंचिन्नितम्बे स्थितम् ।
एतावत्सखि वेद्मि केवलमहो तस्याङ्गसङ्गे पुनः
कोऽसौ कास्मि रतं च किं कीदृशमिति स्वल्पापि मे न स्मृतिः ॥११७१॥

विकटनितम्बायाः । (स.क.आ. ५.४४, द.रू.. उन्देर्२.१८, स्व२१४७, शा.प. ३७४७, सूक्तिमुक्तावलि ८६.१७, सु.र. ५७२)

धन्यासि यत्कथयसि प्रियसङ्गमेऽपि
नर्मस्मितं च वदनं च रसं च तस्य ।
नीवीं प्रति प्रणिहिते तु करे प्रियेण
सख्यः शपामि यदि किंचिदपि स्मरामि ॥११७२॥

विद्यायाः । (सा.द. उन्देर्३.७३, शा.प. ३७६, सु.र. ५७४)

आत्ते वाससि रोद्धुमक्षमतया दोःकन्दलीभ्यां स्तनौ
तस्योरःस्थलमुत्तरीयविषये सख्यो मया चिन्तितम् ।
श्रोणीं तस्य करेऽधिरोहति पुनर्व्रीडाम्बुधौ मामथो
मज्जन्तीमुदतारयन्मनसिजो देवः स मूर्च्छागुरुः ॥११७३॥

बल्लणस्य । (सु.र. ५६८)

हर्षाश्रुपूरितविलोचनया मयाद्य
किं तस्य तत्सखि निरूपितमङ्गमङ्गम् ।
रोमाञ्चकञ्चुकतिरस्कृतदेहया वा
ज्ञातानि तानि परिरम्भसुखानि किं वा ॥११७४॥

अचलदासस्य । (सु.र. ५९६, अचलस्य)


मा गर्वमुद्वह कपोलतले चकास्ति
कान्तस्वहस्तलिखिता नवमञ्जरीति ।
अन्यापि किं न सखि भाजनमीदृशीनां
वैरी न चेद्भवति वेपथुरन्तरायः ॥११७५॥

केशटस्य । (अमरु ५५; सु.र. १६४०; सूक्तिमुक्तावलि ८६.१४; Sद्३.१०५ मद; दश २.२२, एत्च्.; पद्या. ३०२, दामोदरस्य; भ.र.सि. २.४.१६५)

शुकोक्तिव्रीडा

प्रयच्छाहारं मे यदि तव रहोवृत्तमखिलं
मया वाच्यं नोच्चैरिति गृहशुके जल्पति शनैः ।
वधूवक्त्रं व्रीडाभरनमितमन्तर्विहसितं
हरत्यर्धोन्मीलन्नलिनमलिनावर्जितमिव ॥११७६॥

डिम्बोकस्य । (सूक्तिमुक्तावलि ७७.१२, सु.र. ६२२)

प्रत्यूषे गुरुसन्निधौ गृहशुके तत्तद्रहोजल्पितं
प्रस्तोतुं परिहासकारिणि पदैरर्धोदितैरुद्यते ।
क्रीडाशारिकया निलीय निभृतं त्रोतुं भयार्तां वधूं
प्रारब्धः सहसैव सम्भ्रमकरो मार्जारगर्जारवः ॥११७७॥

मार्जारस्य । (सु.र. ६३१)

त्वद्गण्डस्थलपाण्डु देहि लवलं देहि त्वदोष्ठारुणं
बिम्बं देहि नितम्बिनि त्वदलकश्यामं च मे जाम्बवम् ।
इत्यक्षुण्णमनोज्ञचाटुजनितव्रीडः पुरन्ध्रीजना
धन्यानां भवनेषु पञ्जरशुकैराहारमभ्यर्थ्यते ॥११७८॥

वाक्कूटस्य । (सु.र. ४०६)

उषसि गुरुसमक्षं लज्जमाना मृगाक्षीर्
अतिरुतमनुकर्तुं राजकीरे प्रवृत्ते ।
तिरयति शिशुलीलानर्तनच्छद्मताल
प्रचलवलयमालास्फालकोलाहलेन ॥११७९॥

भवभूतेः । (सु.र. ६१६)

दम्पत्योर्निशि जल्पतोर्गृहशुकेनाकर्णितं यद्वचस्
तत्प्रातर्गुरुसन्निधौ निगदतस्तस्योपहारं वधूः ।
कर्णालङ्कृतिपद्मरागशकलं विन्यस्य चञ्चूपुटे
व्रीडार्ता प्रकरोति दाडिमफलव्याजेन वाग्बन्धनम् ॥११८०॥

अमरोः । (अमरु १५, Kउवल्१७३, सु.र. ६२१, Sभ्२२१४, शा.प. ३७४३)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP