संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः|
सुभाषित ५४१ - ५६०

शृङ्गारप्रवाहः - सुभाषित ५४१ - ५६०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


१४. गुप्तासती

दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मद्गृहे दास्यसि
प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति ।
एकाकिन्यपि यामि सत्वरमितः स्रोतस्तमालाकुलं
नीरन्ध्रास्तनुमालिखन्तु जरठच्छेदानलग्रन्थयः ॥५४१॥

विद्यायाः । (द.रू. २.२१अ, शा.प. ३७६९, सूक्तिमुक्तावलि ८७.७, सु.र. ८०७)

उपान्तप्रोन्मीलद्विटपिजटिलां कौतुकवती
कदाचिद्गन्तासि प्रियसखि न शिप्रातटभुवम् ।
यदस्यां मुक्तास्रग्विहितसितभोगिभ्रमतया
वयोरूढः केकी लिखति नखरेण स्तनतटम् ॥५४२॥

मधोः ।

षष्ठ्यां गन्तुमरण्यमस्मि चकिता यत्रार्चयन्ती द्रुमान्
दृष्ट्वैवापतिता भुजङ्गमभितो व्यस्तापयान्ती ततः ।
विश्लिष्यद्वसना विकीर्णकवरी जातक्षता कण्टकैः
कास्मीति स्वमहं न वेद सखि तद्वन्दे व्रतं तादृशम् ॥५४३॥

गोविन्दस्वामिनः ।

अन्यासां न किमस्ति वेश्मनि वधूः कैवं निशि प्रावृषि
प्रैति प्रान्ततडागमम्ब गृहिणि स्वस्थासि मेऽवस्थया ।
भग्नोऽयं वलयो घटो विघटितः क्षण्णा तनुः कण्टकैर्
आक्रान्तः स तथा भुजङ्गहतकः कष्टं न यद्दष्टवान॥५४४॥

पातुकस्य ।

अम्ब श्वश्रु यदि त्वया हतशुकः संवर्धनीयस्तदा
लौहं पञ्जरमस्य दुर्णयवतो गाढान्तरं कारय ।
अद्यैवं वदरीनिकुञ्जकुहरे संलीनमन्विष्यती
दष्टा यन्न भुजङ्गमेन तदतिश्रेयः किमेभिः क्षतैः ॥५४५॥

कस्यचित। (सु.र. ८१८)

१५. विदग्धासती

ग्रामान्ते वसतिर्ममातिविजने दूरप्रवासी पतिर्
गेहे देहवती जरेव जरती श्वश्रूर्द्वितीया परम् ।
एतत्पान्थ वृथा विडम्बयति मां बाल्यातिरिक्तं वयः
सूक्ष्मं वीक्षितुमक्षमेह जनता वासोन्यतश्चिन्त्यताम् ॥५४६॥

बलभद्रस्य ।

एकाकिनी परवशा तरुणी तथाहम्
अस्मिन्गृहे गृहपतिश्च गतो विदूरम् ।
किं याचसे तदिह वासमियं वराकी
श्वश्रूर्ममान्धवधिरा ननु मूढपान्थ ॥५४७॥

रुद्रस्य । (Kआव्यालङ्कार ७.४१)

अम्बा शेतेऽत्र वृद्धा परिणतवयसामग्रणीरत्र तातो
निःशेषागारकर्मश्रमशिथिलतनुर्गर्भदासी तथात्र ।
अस्मिन्पापाहमेका कतिपयदिवसप्रोषितप्राणनाथा
पान्थायेत्थं युवत्या कथितमभिमतं व्याहृतिव्याजपूर्वम् ॥५४८॥

भट्टस्य । (सु.र. ८१२, सूक्तिमुक्तावलि ८७.१२)

पुरः पल्ली शून्या तदनु च विदूरेऽस्ति नगरं
परं पारे गङ्गं चरमगिरिगामी च मिहिरः ।
इतो यान्तं प्रान्ते मम रमणमालोकयसि चेत्
ततस्ते कल्याणं पथिक स हि तत्र प्रहरिकः ॥५४९॥

नीलोकस्य ।

पान्थ स्वैरगतिं विहाय झटिति प्रस्थानमारभ्यताम्
अत्यन्तं करिशूकराहित्गवयिर्भीमं पुरः काननम् ।
चण्डांशोरपि रश्मयः प्रतिदिशं म्लानास्त्वमेको युवा
स्थानं नास्ति गृहे ममापि भवतो बालाहमेकाकिनी ॥५५०॥

कस्यचित। (सु.र. ८१०)

१६. लक्षितासती

दशनपदमतिस्फुटं विभाति
स्फुरति तनुः श्रमवारिसिक्तमास्यम् ।
अवितथमभिधत्स कामिनि त्वां
कुटिलगतिर्न दष्टवान्भुजङ्गः ॥५५१॥

कस्यचित।

न्यस्तं न स्तनमण्डले नखपदं कण्ठान्न विश्लेषिता
मुक्ता हारलता कपोलफलके लुप्ता न पत्रावली ।
मुग्धे यद्यपि तेन ते न दशनैर्भिन्नोऽद्य बिम्बाधरस्
तद्वैलक्ष्यविजृम्भितैरिह तथाप्युन्नीयते दुर्णयः ॥५५२॥

श्रीमल्लक्ष्मणसेनस्य ।

निर्धौताञ्जनलक्ष्मनेत्रमरुणोच्छूना कपोलस्थली
क्रान्तेवाधरपालिरस्फुटमिलल्लेखा तटी पार्श्वयोः ।
निद्राघूर्णितनिष्प्रयत्नशिथिलान्यङ्गानि ते तद्वयं
नो विद्मः सखि संमुखः स भगवान्कस्याद्य पुष्पायुधः ॥५५३॥

उमापतिधरस्य ।

मीलच्चक्षुरनुक्षणं पुलकिनी धत्से यदन्तर्मुदं
सावज्ञं यदुपान्तसङ्कुचितया दृष्ट्या पतिं पश्यसि ।
यद्वक्रास्वपि वेषभाषितकलास्वभ्यासमालम्बसे
तन्मन्ये सखि नागरस्य विषयं कस्यापि यातासि किम् ॥५५४॥

तस्यैव ।

परिणतसखीवाङ्निर्वेदान्निवृत्तगृहग्रहे
सुदति मदनाद्वैताभ्यासान्निकुञ्जनिवासिनि ।
कनखलशिलोत्खेलद्गङ्गास्खलद्गुरुकीकसः
कथय कतमो वानप्रस्थाश्रमेऽद्य तवातिथिः ॥५५५॥

पादूकस्य ।

१७. वेश्या

ईर्ष्या कुलस्त्रीषु न नायकस्य
निःशङ्ककेलिर्न पराङ्गनासु ।
वेश्यासु चैतद्द्वितयं प्ररूढं
सर्वस्वमेतास्तदहो स्मरस्य ॥५५६॥

रुद्रटस्य । (शृ.ति. १.६९)

कुप्यत्पिनाकिनेत्राग्निज्वालाभस्मीकृतः पुरा ।
उज्जीवति पुनः कामो मन्ये वेश्यावलोकितैः ॥५५७॥

तस्यैव । (शृ.ति. १.७०)


सश्रीकोलकपल्लवेन तिमिरस्ताम्बूलरागच्छविः
स्वच्छायादशनव्रणैर्नखपदैश्चित्रा च पत्रावली ।
लोलापाङ्गविलोकितस्तवकिता कर्णोत्पलश्रीरिति
व्यक्तोद्दीपितभूषणः स्मरमपि क्षुभ्नन्ति वारस्त्रियः ॥५५८॥

जलचन्द्रस्य ।

श्रोणीभारभरालसा दरगलन्माल्योपवृत्तिच्छलाल्
लोलोत्क्षिप्तभुजोपदर्शितकुचोन्मीलन्नखाङ्कावलिः ।
लोलेन्दीवरदामदीर्घतरया दृष्ट्या धयन्ती मनो
दारान्दोलनलोलकङ्कणझणत्कारोत्तरं सर्पति ॥५५९॥

कृष्णमिश्रस्य ।  (प्र.च. २.३४)

समुद्रवीचीव चलस्वभावा
सन्ध्याभ्रलेखेव मुहूर्तरागा ।
वेश्या कृतार्था पुरुषं हृतस्वं
निष्निषीडितालक्तकवज्जहाति ॥५६०॥

शूद्रकस्य । (मृच्छकटिका ४.१५)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP