और्व उवाच
हविष्यमत्स्यमांसैस्तु शशस्य नकुलस्य च । सौकरच्छागलैणेयरौरवैर्गवयेन च ॥१॥
औरभ्रगव्यैश्च तथा मासवृद्धया पितामहाः । प्रयान्ति तृप्तिं मांसैस्तु नित्यं वार्ध्रीणसमिषैः ॥२॥
खड्गमांसमतीवात्र कालशाकं तथा मधु । शस्तानि कर्मण्यत्यन्ततृप्तिदानि नरेश्वर ॥३॥
गयामुपेत्य यः श्राद्धं करोति पृथिवीपते । सकलं तस्य तज्जन्म जायते पितृतुष्टिदम् ॥४॥
प्रशान्तिकास्सनीवाराश्श्यामाका द्विविधास्तथा । वन्योषधीप्रधानास्तु श्राद्धर्हाः पुरुषर्षभ ॥५॥
यवाः प्रियंगवो मुद्गा गोधुमा वीहयस्तिलाः । निष्पावाः कोविदाराश्च सर्षपाश्चात्र शोभनाः ॥६॥
अकृताग्रयणं यच्च धान्यजातं नरेश्वर । राजमाषानणूश्चैव मसूरांश्च विसर्जयेत् ॥७॥
अलाबुं गृज्जनं चैव पलाण्डुं पिण्डमुलकम् । गान्धारककरम्बादिलवणान्यौषराणि च ॥८॥
आरक्ताश्चैव निर्यासाः प्रत्यक्षलवणानिं च वर्ज्यान्येतानि वै श्राद्धे यच्च वाचा न शस्यते ॥९॥
नक्ताहृतमनुच्छिन्नं तृप्यते न च यत्र गौः । दुर्गन्धि फेनिलं चाम्बु श्राद्धयोग्यं न पार्थिव ॥१०॥
क्षीरमेकशफानां यदौष्ट्रामाविकमेव च । मार्गं च माहिषं चैव वर्जयेच्छ्राद्धकर्मणि ॥११॥
षण्ढापविद्धचाण्डालपापिपाषण्डिरोगिभिः । कृकवाकुश्वनग्नैश्च वानरग्रामसुकरैः ॥१२॥
उदक्यासुतकाशौचिमृतहारैश्च वीक्षीते । श्राद्धे सुरा न पितरो भुज्जते पुरुषर्षभ ॥१३॥
तस्मात्परिश्रिते कुर्याच्छ्राद्धं श्रद्धासमन्वितः । उर्व्यां च तिलविक्षेपाद्यातुधानान्निवारयेत् ॥१४॥
नखादिना चोपपन्नं केशकीटदिभिर्नृप । न चैवाभिषवैर्मिश्रमन्नं पर्युषितं तथा ॥१५॥
श्रद्धासमन्वितैर्दत्तं पितृभ्यो नामगोत्रतः । यदाहारास्तु ते जातास्तदाहारत्वमेति तत् ॥१६॥
श्रुयते चापि पितृभिर्गीता गाथा महीपते । इक्ष्वाकोर्मनुपुत्रस्य कलापोपवने पुरा ॥१७॥
अपि नस्ते भविष्यन्ति कुले सन्मार्गशीलिनः । गयामुपेत्य ये पिण्डान्दास्यन्त्यस्माकमादरात् ॥१८॥
अपि नस्स कुले जायाद्यो नो दद्यात्त्रयोदशीम् । पायसं मधुसर्पिर्भ्या वर्षासु च मघासु च ॥१९॥
गौरीं वाप्युद्वहेत्कन्यां नीलं वा वृषमुत्सृजेत् । यजेत वाश्वमेधेन विधिवद्दक्षिणावता ॥२०॥