और्व उवाच
ब्रह्मोन्द्ररुद्रनासत्यसूर्याग्निवसुमारुतान् । विश्वेदेवान्पितृगणान्वयांसि मनुजान्पशून् ॥१॥
सरीसृपानृषिगणान्यच्चान्यद्भूतसंज्ञितम् । श्राद्धं श्रंद्धान्वितः कुर्वन्प्रीणयत्यखिलं जगत् ॥२॥
मासि मास्यसिते पक्षे पत्र्चदश्यां नरेश्वर । तथाष्टकासु कुर्वीत काम्यान्कालात्र्छुणुष्वमे ॥३॥
श्राद्धर्हमागतं द्र्व्यं विशिष्टमथ वा द्विजम् । श्राद्धं कुर्वीत विज्ञाय व्यतीपातेऽयने तथा ॥४॥
विषूवे चापि सम्प्राप्ते ग्रहणे शशिसुर्ययोः । समस्तेष्वेव भूपाल राशिष्वर्के च गच्छति ॥५॥
नक्षत्रग्रहपीडासु दुष्टस्वप्नावलोकने । इच्छाश्राद्धानि कुर्वीत नवसस्यागमें तथा ॥६॥
अमावस्या यदा मैत्रविशाखास्वातियोगिनी । श्राद्धैः पितृगणस्तृप्तिं तथाप्रोत्यष्टवार्षिकीम् ॥७॥
अमावास्या यदा पुष्ये रौद्रे चर्क्षे पुनर्वसौ । द्वादशाब्दं तदा तृप्तिं प्रयान्ति पितरोऽर्चिताः ॥८॥
वासवाजैकपादर्क्षे पितृणां तृप्तिमिच्छाताम् । वारुणे वाप्यमावास्या देवानामपि दुर्लभा ॥९॥
नवस्वृक्षेष्वमावास्या यदैतेष्ववनीपते । तदा हि तृप्तिदं श्राद्धं पितृणां श्रृणु चापरम् ॥१०॥
गीतं सनत्कुमारेण यथैलाय महात्मने । पृच्छते पितृभक्ताय प्रश्नयावनताय च ॥११॥
श्रीसनत्कुमार उवाच
वैशाखमासस्य च य तृतीया नवम्यसौ कार्तिकशुक्लपक्षे । नभस्य मासस्य च कृष्णपक्षे त्रयोदशी पत्र्चदशी च माघे ॥१२॥
एता युगाद्याः कथिताः पुराणे- ष्वनन्तपुण्यास्तिथयश्चतस्त्रः । उपल्ववे चन्द्रमसो रवेश्व त्रिष्वष्टकास्वप्ययनद्वये च ॥१३॥
पानीयमप्यत्र तिलैर्विमिश्रं दद्याप्तितृभ्यः प्रयतो मनुष्यः । श्राद्धं कृतं तेन समासहस्त्रं रहस्यमेतात्पितरो वदन्ति ॥१४॥
माघेऽसिते पत्र्चदशी कदाचि दुर्पैति योगं यदि वारुणेन । ऋक्षेण कालस्स परः पितृणां न ह्याल्पपुण्यनैर्नृप लाभ्यतेऽसौ ॥१५॥
काले धनिष्ठा यदि नाम तस्मि-न्भवेत्तु भूपाल तदा पितृभ्यः । दत्तं जलान्नं प्रददाति तृप्तिं वर्षायुतं तत्कुलजैर्मनुष्यैः ॥१६॥
तत्रैव चेद्भाद्रपदा नु पूर्वा काले यथावत्क्रियते पितृभ्यः । श्राद्धं परां तृप्तिमुपेत्य तेन युगं सहस्त्रं पितरस्स्वपन्ति ॥१७॥
गंगा शतद्रुं यमुनां विपाशां सरस्वती नैमिषगोमतीं वा । तत्रावगाह्यार्चनमादरेण कृत्वा पितृणां दुरितानि हन्ति ॥१८॥
गायन्ति चैतात्पितरः कदानु वर्षामघातृप्तिमवाप्य भूयः । माघासितान्ते शुभतीर्थतोयै र्यास्याम तृप्तिं तनयादिदत्तैः ॥१९॥
चित्तं च वित्तं च नृणां विशुद्धं शस्तश्च कालः कथितो विधिश्च । पात्रं यथोक्त परमा च भक्ति- र्नॄणां प्रयच्छन्त्याभिवात्र्छितानि ॥२०॥
पितृगीतान्तथैवात्र श्लोकांस्तात्र्छृणु पार्थिव । श्रुत्वा तथैव भवता भाव्यं तत्रादृतात्मना ॥२१॥
अपि धन्यः कुले जायादस्माकं मतिमान्नरः । अकुर्विन्तिशाठ्यं यः पिण्डान्नो निर्वापिष्यति ॥२२॥
रत्नं वस्त्रं महायानं सर्वभोगादिकं वसु । विभते सति विप्रेभ्यो योऽस्मानुद्दिश्य दास्यति ॥२३॥
अन्नेन वा यथाशक्त्या कालेऽस्मिन्भक्तिनम्रधीः । भोजयिष्यति विप्राग्र्यास्तन्मात्रविभवो नरः ॥२४॥
असमर्थोऽन्नदानस्य धान्यमामं स्वशक्तितः । प्रदास्यति द्विजाग्र्येभ्यः स्वल्पाल्पां वापि दक्षिणाम् ॥२५॥
तत्राप्यसामर्थ्ययुतः कराग्राग्रस्थितंस्तिलान् । प्रणम्य द्विजमुख्याय कस्मैचिद्भूप दास्यति ॥२६॥
तिलैस्सप्ताष्टभिर्वापि समवेतं जलाज्जलिम् । भक्तिनम्रस्समुद्दिश्य भुव्यस्माकं प्रदास्यति ॥२७॥
यतः कुतश्चित्सम्प्राप्य गोभ्यो वापि गवाह्निकम् । अभावे प्रीणयन्नस्मात्र्च्छ्रद्धायुक्तः प्रदास्यति ॥२८॥
सर्वाभावे वनं गत्वा कक्षमूलप्रदर्शकः । सुर्यादिलोकपालानामिदमुच्चैर्वदिष्यति ॥२९॥
न मेऽस्ति वित्तं न धनं च नान्य च्छ्राद्धोपयोग्यं स्वपितृन्नतोऽस्मि । तुप्यन्तु भक्त्या पितरो मयैतौ कृतौ भुजौ वर्त्मनि मारुतस्य ॥३०॥
और्व उवाच
इत्येतत्पितृभिर्गीतं भावाभावप्रयोजनम् । यः करोति कृतं तेन श्राद्धं भवति पार्थिव ॥३१॥
इति श्रीविष्णुपुराणे तृतीयेऽशे चतुर्दशोऽध्यायः ॥१४॥