सगर उवाच
कथितं चातुराश्रम्यं चातुर्णर्ण्यक्रियास्तथा । पुंस क्रियामहं श्रोतुमिच्छामि द्विजसत्तम ॥१॥
नित्यनैमित्तिका काम्याः क्रियाः पुंसामशेषतः । समाख्याहि भृगुश्रेष्ठ सर्वज्ञो ह्यासि मे मतः ॥२॥
और्व उवाच
यदेतदुक्तं भवता नित्यनैमित्तिकाश्रयम् । तदहं कथयिष्यामि श्रृणुष्वैकमना मम ॥३॥
जातस्य जातकर्मादिक्रियाकाण्डमशेषतः । पुत्रस्य कुर्वीत पिता श्राद्धं चाभ्युदयात्मकम् ॥४॥
युम्मांस्तु प्रांम्मुखान्विप्रान्भोजयन्मनुजेश्वर । यथा वॄत्तिस्तथा कुर्याद्दैवं पित्र्य द्विजन्मनाम् ॥५॥
दन्धा यवैः सबदरैर्मिश्रन्पिण्डान्मुदा युतः । नान्दीमुखेभ्यस्तीर्थेन दद्यादैवेन पार्थिव ॥६॥
प्रजापत्येन वा सर्वमुपचारं प्रदक्षिणम् । कुर्वीत तत्तथाशेषवृद्धिकालेषु भूपते ॥७॥
ततश्च नाम कुर्वीत पितैव दशमेऽहनि । देवपूर्व नराख्यं हि शर्मवर्मासंयुतम् ॥८॥
शर्मेति ब्राह्मणसोक्तं वर्मेति क्षत्रसंश्रयम् । गुप्तदासात्मकं नाम प्रशस्तं वैश्यसुद्रयोः ॥९॥
नार्थहीनं न चाशस्तं नापशब्दयुतं तथा । नांमंगल्यं जुगुप्स्यं वा नाम कुर्यात्समाक्षरम् ॥१०॥
नातिदीर्घं नातिह्रस्वं नातिगुर्वक्षरान्वितम् । सुखोच्चार्य तु तन्नाम कुर्याद्यत्प्रवणाक्षरम् ॥११॥
ततोऽनन्तरसंस्कारसंस्कृतो गुरुवेश्मनि । यशोक्तविधिमाश्रित्य कुर्याद्विद्यापरिग्रहम् ॥१२॥
गृहीतविद्यो गुरवे दत्त्वा च गुरुदक्षिणाम् । गार्हस्थ्यमिच्छन्भूपाल कुर्याद्दारपरिग्रहम् ॥१३॥
ब्रह्मचर्येण वा कालं कुर्यात्संकल्पपूर्वकम् । गुरोरशुश्रूषणं कुर्यात्तत्पुत्रादेरथापि वा ॥१४॥
वैखानसो वापि भवेत्परिव्राडथ वेच्छया । पूर्वसंकल्पितं यादृक् तादृक्कुर्यान्नराधिप ॥१५॥
वर्षैरेकगुणां भार्यामुद्वहेत्त्रिगुणस्स्वयम् । नातिकेशामकेशां वा नातिकृष्णां न पिंगलाम् ॥१६॥
निसर्गतोऽधिकांगि वा न्युनांगिमपि नोद्वहेत् । नाविशुद्धां सरोमां वाकुलजं वापि रोगिणीम् ॥१७॥
न दुष्टां दुष्टवाक्यां वा व्यंगिनीं पितृमातृतः । न श्मश्रुव्यज्त्रनवर्ती न चैव पुरुशाकृतिम् ॥१८॥
न घर्घरस्वरां क्षमां तथा काकस्वरां न च । नानिबन्धेक्षणां तद्वद्रृत्ताक्षीं नोद्वहेद्रुधः ॥१९॥
यस्याश्व रोमशे जंघे गुल्फौ यस्यास्तथोन्नतौ । गण्डयोः कूपरो यस्या हसन्त्यास्तां न चोद्वहेत् ॥२०॥
नातिरुक्षच्छविं पाण्डुकरजामरुणेक्षणाम् । आपीनहस्तपादां च न कन्यामुद्वेहेद् बुधः ॥२१॥
न वामनाम नातिदीर्घ नोद्वहेत्संहभ्रुवम् । न चातिच्छिद्रदशनां न करालमुखीं नरः ॥२२॥
पत्र्चमीं मातृपक्षाच पितृपश्राच्चा सप्तमीम् । गृहस्थश्चोद्वहेत्कन्या न्यायेन विधिना नृप ॥२३॥
ब्राह्मो देवस्तथैवार्षः प्राजापत्यस्तथासुरः । गान्धर्वराक्षसौ चान्यौ पैशाचश्चाष्टमो मतः ॥२४॥
एतेषां यस्य यो धर्मो वर्णस्योक्तो महर्षिभिः । कुर्वीत दारग्रहणं तेनान्यं परिवर्जयेत् ॥२५॥
सधर्मचारिणीं प्राप्य गार्हस्थ्यं सहितस्तया । समुद्वहेद्ददात्येतत्सम्यगुढं महाफलम् ॥२६॥
इति श्रीविष्णुपुराणे तृतीयेंऽशे दशमोऽध्यायः ॥१०॥