श्रीविष्णुपुराण - तृतीय अंश - अध्याय १३

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Puranas.


और्व उवाच

सचैलस्य पितृः स्नानं जाते पुत्रे विधीयते । जातकर्म तदा कुर्याच्छ्राद्धमभ्युदये च यत् ॥१॥

युग्मान्देवांश्च पित्र्यांश्च सम्यक्सव्यक्रमाद् द्विजान । पूजयेद्भोजयेच्चैव तन्मना नान्यमानसः ॥२॥

दध्यक्षतैस्सबदरैः प्राड्‌मुखोदड्‌मुखोऽपि वा । देवतीर्थेन वै पिण्डान्दद्यात्कायेन वा नॄप ॥३॥

नान्दीमुखः पितृगणस्तेन श्राद्धेन पार्थिव । प्रीयते तत्तु कर्त्तव्यं पुरुषोस्सर्ववृद्धिषु ॥४॥

कन्यापुत्रविवाहेषु प्रवेशेषु च वेश्मनः । नामकर्मणि बालानां चूडाकर्मादिके तथा ॥५॥

सीमन्तोन्नयने चैव पुत्रादिमुखदर्शने । नान्दीमुखं पितृगणं पूजयेत्प्रयतो गृही ॥६॥

पितृपूजाक्रमः प्रोक्तो वृद्धावेष सनातनः । श्रूयतामवनीपाल प्रेतकर्मक्रियाविधिः ॥७॥

प्रेतदेहं शुभैः स्नानैस्स्न्नापितं स्नग्विभूषितम् । दग्ध्वा ग्रामाद्वहिः स्नात्वा सचैलस्सलिलाशये ॥८॥

यत्र तत्र स्थितायैतदमुकायेति वादिनः । दक्षिणाभिमुखा दद्युर्बान्धवास्सलिलाज्जलीन ॥९॥

प्रविष्टाश्च समं गोभिर्ग्रामं नक्षत्रदर्शने । कटकर्म ततः कुर्युर्भूमौ प्रस्तरशायिनः ॥१०॥

दातव्योऽनुदिनं पिण्डः प्रेताय भुवि पार्थिव । दिवा च भक्तं भोक्तव्यममांस मनुजर्षभ ॥११॥

दिनानि तानि चेच्छातः कर्तव्यं विप्रभोजनम् । प्रेता यान्ति तथा तृप्ति बन्धुवर्गेण भुज्जता ॥१२॥

प्रथमेऽह्नि तृतीये च सप्तमे नवमे तथा । वस्त्रत्यागबहिस्स्त्राने कृत्वा दद्यात्तिलोदकम् ॥१३॥

चतुर्थऽ‍ह्नि कर्तव्यं तस्यास्थिचयनं नॄप । तदुर्ध्वमंगसंस्पर्शस्सपिण्डानामपीष्यते ॥१४॥

योग्यास्सर्वक्रियाणां तु समानसलिलास्तथा । अनुलेपनपुष्पादिभोगादन्यत्र पार्थिव ॥१५॥

शय्यासनोपभोगश्च सपिण्डानामपीष्यते । भस्मास्थिचयनादूर्ध्व संयोगो न तु योषिताम् ॥१६॥

बाले देशान्तरस्थे च पतिते च मुनौ मृते । सद्यश्शौचं तथेच्छातो जलाग्न्युद्वन्धनादिषु ॥१७॥

मृतबन्धोर्दशाहानि कुलस्यान्नं न भूज्यते । दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते ॥१८॥

विप्रस्यैतद द्वादशाहं राजन्यस्याप्यशौचकम् । अर्धमासं तु वैश्यस्य मासं शूद्रस्य शुद्धये ॥१९॥

अयुजो भोजयेत्कामं द्विजानन्ते ततो दिने । दद्याद्दर्भेषु पिण्डं च प्रेतायेच्छिष्टसन्निधौ ॥२०॥

वार्यायुधप्रतोदास्तु दण्डश्च द्विजभोजनात् । स्प्रष्टव्योऽनन्तंरं वर्णैः शुद्धेरन्ते ततः क्रमात् ॥२१॥

ततस्स्ववर्णधर्मा ये विप्रादीनामुदाह्र्ताः । तान्कुर्वीत पुमात्र्जीवेन्निजधर्मार्जनैस्तथ ॥२२॥

मृताहिन च कर्तव्यमेकोद्दिष्टमतः परम् । आह्वान्नादिक्रियदैवनियोगरहितं हि तत ॥२३॥

एकोऽर्घ्यस्तत्र दातव्यस्तथैवैकपवित्रकम् । प्रेताय पिण्डो दातव्यो भुक्तवत्सु द्विजातिषु ॥२४॥

प्रश्चश्च तत्राभिरतिर्यजमानैर्द्विजन्मनाम् । अक्षय्यममुकस्येति वक्तव्यं विरतो तथा ॥२५॥

एकोद्दिष्टमयो धर्म इत्थमावत्सरात्स्मृतः । सपिण्डीकरणं तस्मिन्काले राजेन्द्र तच्छृणु ॥२६॥

एकोद्दिष्टविधानेन कार्य तदपि पार्थिव । संवत्सरेऽथ षष्ठे वा मासे वा द्वादशेऽह्नि तत् ॥२७॥

तिलगन्धोदकैर्युक्तं तत्र पात्रचतुष्टयम् ॥२८॥

पात्रं प्रेतस्य तत्रैकं पैत्रं पात्रत्रयं तथा । सेचयेत्पितृपात्रेषु प्रेतपात्रं ततस्त्रिषु ॥२९॥

ततः पितृत्वमापन्ने तस्मिन्प्रेते महीपते । श्रीद्धधर्मैरशेषैस्तु तत्पूर्वानर्चयोत्पितृन् ॥३०॥

पुत्रः पौत्रः प्रपौत्रो व भ्राता वा भ्रातृसन्ततिः । सपिण्डसन्ततिर्वापि क्रियार्हो नॄप जायते ॥३१॥

तेषामभावे सर्वेषां समानोदकसन्तातिः । मातृपक्षासपिण्डेन सम्बद्धा ये जलेन वा ॥३२॥

कुलद्वयेऽपि चोच्छिन्ने स्त्रीभिः कार्याः क्रिया नृप ॥३३॥

संघातान्तर्गतैर्वापि कार्याः प्रेतस्य च क्रियाः । उत्सन्नबन्धुरिक्थाद्वा कारयेदवनीपतिः ॥३४॥

पूर्वाः क्रिया मध्यमाश्च तथा चैवोत्तराः क्रियाः । त्रिप्रकाराः क्रियाः सर्वस्तासां भेदं श्रृणुष्व मे ॥३५॥

आदाहवार्यायुधादिस्पर्शद्यन्तास्तु याः क्रियाः । ताः पूर्वा मध्यमा मासि मास्येकोद्दिष्टंसंज्ञिताः ॥३६॥

प्रेते पितृत्वमापन्ने सपिण्डीकरणादनु । क्रियन्ते याः क्रियाः पित्र्याः प्रोच्यन्ते ता नृपोत्तराः ॥३७॥

पितृमातृसपिण्डैस्तु समानसलिलैस्तथा । संघातान्तर्गतैर्वापि राज्ञा तद्धनहारिणा ॥३८॥

पूर्वाः क्रियाश्च कर्तव्याः पुत्राद्यैरैव चोत्तराः । दौहित्रैर्वा नृपश्रेष्ठ कार्यास्तत्तनयैस्तथा ॥३९॥

मृताहनि च कर्तव्याः स्त्रीणामप्युत्तराः क्रिया । प्रतिसंवत्सरं राजन्नेकोद्दिष्टाविधानतः ॥४०॥

तस्मादुत्तरसंज्ञायाः क्रियास्ताः श्रृणु पार्थिव । यथा यथा च कर्तव्या विधिना येन चानघ ॥४१॥

इति श्रीविष्णुपुराणे तृतीयेंऽशे त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP