और्व उवाच
देवगोब्राह्मणन्सिन्वृद्धाचार्यास्तथार्तयेत् । द्विकालं च नमेत्सन्ध्यामग्नीनुपचरेत्तथा ॥१॥
सदाऽनुपहते वस्त्रे प्रशस्ताश्च महौषधीः । गारुडानि च रत्नानि बिभुयात्प्रयतो नरः ॥२॥
प्रसिग्धामलकेशश्च सुगन्धरुवेषधृक् । सितास्सुमनसो हद्या बिभृयाच्च नरस्सदा ॥३॥
कित्र्चित्परस्वं न हरेन्नाल्पमप्यप्रियं वदेत । प्रियं च नानृतं ब्रूयान्नान्यदोषानुदीरयेत् ॥४॥
नान्यस्त्रियं तथा वैरं रोचयेत्पुरुषर्षभ । न दृष्टं यानमारोहेत्कूलच्छायां न संश्रयेत ॥५॥
विद्विष्टपतितोन्मत्तबहुवैरादिकिटकैः बन्धकी बन्धकीभर्त्तुः क्षुद्रानृतकथैस्सह ॥६॥
तथातिव्ययशीलैश्च परिवादरतैश्शठैः । बुधो मैत्री न कुवींत नैकः पन्थानमश्रयेत ॥७॥
नावगहेज्जलौघस्य वेगमग्ने नरेश्वर । प्रदीप्तं वेश्य न विशेन्नारोहेच्छिखरं तरोः ॥८॥
न कुर्याद्दन्तासंघर्ष कुष्णीयाच्च न नासिकाम् । नासंवृतमुखो जृम्भेच्छ्वासकासौ विसर्जयेत ॥९॥
नौच्चैर्हसेत्सशब्दं च न मुत्र्चेत्पवनं बुधः । नखान्न खादयेच्छिन्द्यान्न तृणं न महीं लिखेत् ॥१०॥
न श्मश्रु भक्शयेल्लोष्टं न मृद्नीयाद्विचक्षणः । ज्योतीष्यमेध्यशस्तानि नाभिवीक्षेत च प्रभो ॥११॥
नग्नां परस्त्रियां चैव सूर्यं चास्तमयोदये । न हुंकुर्याच्छवं गन्धं शवगन्धो हि सोमजः ॥१२॥
चतुष्पथं चैत्यतरुं श्मशानोपवनानि च । दुष्टस्त्रीसन्निकर्ष च वर्जयोन्निशि सर्वदा ॥१३॥
पूज्यदेवद्विजज्योतिश्छायां नातिक्रमेद् बुधः । नैकश्शून्याटवीं गच्छेत्तथा शून्यगृहे वसेत् ॥१४॥
केशास्थिकण्टकामेध्यबलिभस्मतुषांस्तथा । स्नानर्द्रधरणीं चैव दूरतः परिवर्जयेत् ॥१५॥
नानार्यानाश्रयेत्कांश्चिन्न जिह्नां रोचयेद् बुधः । उपसर्पेन्न वै व्यालं चिरं तिष्ठेन्न वोत्थितः ॥१६॥
अतीव जागरस्वप्र्ने तद्वत्स्त्रानासने बुधः । न सवेत तथा शय्यां व्यायामं च नरेश्वर ॥१७॥
दंष्ट्रिणश्श्रृंगिणश्चैव प्राज्ञो दुरेण वर्जयेत । अवश्यायं च राजेन्द्र पुरोवातातपौ तथा ॥१८॥
न स्नायान्न स्वपेन्नग्नो न चैवोपस्पृशेद बुध । मुक्तकेशश्च नाचामेद्देवाद्यर्चां च वर्जयेत ॥१९॥
होमदेवार्चनाद्यासु क्रियास्वाचमने तथा । नैकवस्त्रः प्रवर्तेत द्विजवाचनिके जपे ॥२०॥
नासमत्र्जसशीलैस्तु सहासीत कथत्र्चन । सद्वृत्तसन्निकर्षो हि क्षणार्द्धमपि शस्यते ॥२१॥
विरोधं नोत्तमैर्गच्छेन्नाधमैश्च सदा बुधः । विवाहश्च विवादश्च तुल्यशीलैर्नृपेष्यते ॥२२॥
नारभेत कलिं प्राज्ञश्शौष्कवैरं च वर्जयेत । अप्यल्पहानिस्सोढव्या वैरेणार्थागमं त्यजेत ॥२३॥
स्त्रातो नांगनि सम्मार्जेत्स्त्रानशाट्या न पाणिना । न च निर्धूनत्केशान्नाचामेत्र्चैव चोत्त्थितः ॥२४॥
पादेन नाक्रमेत्पादं न पूज्याभिमुखं नयेत । नोच्चसनं गुरोरग्रे भजेताविनयान्वितः ॥२५॥
अपसव्यं न गच्छेच्च देवागारचतुष्पथान् । मांगल्यपूज्यांश्च तथा विपरीतान्न दक्षिनम् ॥२६॥
सोमार्काग्न्यम्बुवायुनं पूज्यानां च न सम्मुखम् । कुर्यान्निष्ठिवविण्मुत्रसमुत्सर्ग च पण्डितः ॥२७॥
तिष्ठन्न मुत्रयेत्तद्वत्पथिष्वपि न मुत्रयेत । श्लेष्माविण्मुत्ररक्तानि सर्वदैव न लंघयेत ॥२८॥
श्लेष्माशिंघणिकोत्सर्गी नान्नकाले प्रशस्यते । बलिमंगलजप्यादौ न होमे न महाजने ॥२९॥
योषितो नावमन्येत न चासां विश्वसेद बुधः । न चैविर्ष्या भवेत्तासु न धिक्कुर्यात्कदाचन ॥३०॥
मंगल्यपुष्परत्नाज्यपुज्याननभिवाद्य च । न निष्क्रमेद् गृहात्प्राज्ञस्सदाचारपरो नरः ॥३१॥
चतुष्पथान्नमस्कुर्यात्काले होमपरो भवेत । दीनानभ्युद्धरेत्साधुनुपासीत बहुश्रुतान् ॥३२॥
देवार्षिपुजकस्सम्यक्पितृपिण्डोदकप्रदः । सत्कर्ता चातिर्थीनां यः स लोकनृत्तमान्व्रजेत् ॥३३॥
हितं मितं प्रियं काले वश्यात्मा योऽभिभाषते । स याति लोकानाह्लादहेतुभुतान्नृपाक्षयान् ॥३४॥
धीमान्ह्रीमान्क्षामायुक्तो ह्यास्तिको विनयान्वितः । विद्याभिजनवृद्धानां याति लोकाननुत्तमानु ॥३५॥
अकलगर्जितादो च पर्वस्वाशौचकादिषु । अनध्यायं बुधः कुर्यादुपरागदिके तथा ॥३६॥
शमं नयति यः क्रुद्धान्सर्वबन्धुरमत्सरी । भीताश्वासनकृत्साधुस्सर्गस्तस्याल्पकं फलम् ॥३७॥
वर्षातपादिषु च्छत्री दण्दी रात्र्यटवीषु च । शरीरत्राणकामो वै सोपानत्कस्सदा व्रजेत ॥३८॥
नोर्ध्वं न तिर्यग्दूरं वा न पश्यन्पर्यटेदु बुधः । युगमात्रं महीपृष्ठं नरो गच्छेद्विलोकयन् ॥३९॥
दोषहेतुनशेषांश्च वश्यात्मा यो निरस्यति । तस्य धर्मार्थकामानां हानिर्नाल्पापि जायते ॥४०॥
सदाचाररतः प्राज्ञो विद्याविनयशिक्षितः । पापेऽप्यपापः परुषे ह्याभिधत्ते प्रियाणि यः ।
मैत्रीद्रवान्तः करणस्तस्य मुक्तिः करे स्थिता ॥४१॥
ये कामाक्रोधलोभानां वीतरागा च गोचर । सदाचारस्थितास्तेषामनुभावैर्धुता महें ॥४२॥
तस्मात्सत्यं वदेत्प्राज्ञो यत्परप्रीतिकारणम् । सत्यं यत्परदुःखाय तदा मौनपरो भवेत् ॥४३॥
प्रियमुक्तं हितं नैतदितिं मत्वा न तद्वदेत । श्रेयस्तत्र हितं वाच्यं यद्यप्यत्यन्तमप्रियम ॥४४॥
प्राणिनामुपकाराय यथैवेह परत्र च । कर्मणा मनसा वाचा तदेव मतिमान्भजेत् ॥४५॥
इति श्रीविष्णुपुराणे तृतीयेंऽशे द्वादशोऽध्यायः ॥१२॥