श्रीपाद श्रीवल्लभ त्वं सदैव । श्रीदत्तास्मान्पाहि देवाधिदेव ॥
भावग्राह्य क्लेशहारिन्सुकीर्तें । घोरात्कष्टादुद्धरास्मान्नमस्ते ।
त्वं नो माता त्वं पिताऽऽतोधिपस्त्वं । त्राता योगक्षेमकृत्सद्गुरुस्त्वम्।
त्वं सर्वस्वं नोऽप्रभो विश्वमूर्ते । घोरात०॥
पापं तापं व्याधिमाधिं च दैन्यं। भितिं क्लेशं त्वं हराशु त्वदैन्यम् ।
त्रातारं नो वीक्ष ईशास्तजूर्ते । घोरात्०॥
नान्यस्त्राता नापि दाता न भर्ता । त्वत्तो देव त्वं शरण्योऽकहर्ता ।
कुर्वात्रेयानुग्रहंपूर्णराते । घोरात्०॥
धर्मे प्रीतिं सन्मतिं देवभक्तिं । सत्संगाप्तिं देहि भुक्तिं च मुक्तिम् ।
भावासक्तिं चाखिलानंदमूर्ते । घोरात्०॥
श्र्लोकपंचकमेतद्यो लोकमंगलवर्धनं ॥ प्रपठेन्नियतो भक्तया स श्रीदत्तप्रियो भवेत् ।
श्रीसत्यदत्त आरती