अथ तृतीयोऽध्यायः
इंद्रः पुरा स्वर्गलोके स्थितः शच्या समन्वितः । प्रदोषे नार्चयामास भ्रान्तो देवोत्तमं शिवम् ॥२०२॥
तमुवाच शची देवी पूय्जयस्वेति शंकरम् । तदाऽवगणना तेन कृता तद्ववचनस्य तु ॥२०३॥
इंद्र उवाच
स्वर्गलोकस्य नाथोऽहं पूज्योऽहमखिलैः सुरैः । मम पूज्यतमो लोके कःतिष्ठति वद प्रिये ॥२०४॥
इत्युक्त्वा भोगनिरतः शचीमालिंग्य सादरं । तस्थाविन्द्रः कल्पपुष्पशय्यायां मदनातुरः ॥२०५॥
तदानीं नन्दिकेशस्य भृत्यः कश्चित् समागतः । शिवावगणनावाक्यं शुश्रावेंद्रमुखोद्भवम् ॥२०६॥
ततः सोऽप्यतिरुष्टः सन् शूलं जग्राह पाणिना । इंद्रं ततःस शूलाग्रे प्रोथयामास सत्वरं ॥२०७॥
ततश्च भ्रामयामास शूलाग्रे संन्निवेश्य तम् । पंचाशद्युगपर्यंत चक्रवत् गगनांतरे ॥२०८॥
ततस्तं पातयामास तसा स दूरपर्वते । पतित्वा तत्र देवेन्द्रः तिष्ठ्त्यद्यापि दुःखितः ॥२०९॥
नंदिकेशस्य भृत्येन स्वर्गलोकः समावृतः । इंद्रोऽपि स तपश्चर्यापरोभूत्वाऽधितिष्ठति ॥२१०॥
शंकरस्यावगणना ततः स्वप्नेऽपि सर्वथा । सर्वदेवादिदेवस्य न कर्तव्या जनार्दन ॥२११॥
शिवं त्वनन्यसदृशं येऽन्यदेवसमं विदुः । न ते पतिव्रताजाता जारजास्ते न संशयः ॥२१२॥
अन्यदेवसमं मत्वा शिवं देवोत्तमं प्रभुं । आचन्द्रार्कं अघोरेषु नरकेषु पतिष्यति ॥२१३॥
स मद्यपः स चांडालः स महापातकाश्रयः । मनुते योऽन्यसदृशं देवदेवोत्तमं शिवम् ॥२१४॥
प्राप्तं शिवप्रसादेन विष्णुत्वं च त्वया पुरा । ततस्त्वं सर्वभावेन शंकरं शरणं व्रज ॥२१५॥
नान्यदेवसमः शंभुः शिवो देवोत्तमः प्रभुः । तस्वावगणना विष्णो सर्वनाशाय जायते ॥२१६॥
तस्मात् शंभुं प्रीणयस्व तपसोग्रेण सादरम् । प्रसन्नः पार्वतीनाथः तुभ्यं इष्टं प्रदास्यति ॥२१७॥
शिव उवाच
इत्युक्तः स तया लक्ष्मया तत्रैवोग्रं तपस्तदा । तप्तुं समारभे देवि पंच प्रज्वाल्य पावकान् ॥२१८॥
त्रिकोटियुगपर्यंत तपस्तप्तं च विष्णुना । जिताहारेण तेनैव प्राणान् सम्यक् निरुध्य च ॥२१९॥
प्रसन्नोऽस्मि ततो विष्णोस्तदुग्रतपसा शिवे । प्रसन्ने सति मां विष्णुस्तुष्टाव बहुधा स्तवैः ॥२२०॥
ततः पदं दापितं च विष्णवे रिटितो मया । तत्रोवास महाविष्णुस्त्यक्त्वा दुःखानि सर्वथा ॥२२१॥
तदाप्रभृति विष्णुर्मां अप्रमादेन सादरं । पूजयत्यतियत्नेन सर्वकालेष्वतंद्रित ॥२२२॥
॥इति श्रीकालभैरवमाहात्म्ये विष्णु गर्व परिहारो नाम तृतियोऽध्यायः ॥