श्रीगणेशाय नम: ॥ याज्ञवल्क्य उवाच ।
श्रृणुष्व मुनिशार्दूल सुर्यस्य कवचं शुभम् । शरीरारोग्यदं दिव्यं सर्वसौभाग्यदायकम् ॥१॥
देदीप्यमानमुकुटं स्फुरन्मकरकुंडलम् । ध्यात्वा सहस्त्रकिरणं स्तोत्रमेतदुदीरयेत् ॥२॥
शिरो मे भास्कर: पातु ललाटं मेऽमितद्युति: । नेत्रे दिनमणि: पातु श्रवणे वासरेश्वर: ॥३॥
घ्राणं घर्मघृणि: पातु वदनं वेदवाहन: । जिह्वां मे मानद: पातु कण्ठं मे सुरवंदित: ॥४॥
स्कंधौ प्रभाकर: पातु वक्ष: पातु जनप्रिय: । पातु पादौ व्दादशात्मा सर्वांगं सकलेश्वर: ॥५॥
सूर्यसक्षात्मकं स्तोत्रं लिखित्वा भूर्जपत्रके । दधाति य: करे तस्य वशगा: सर्वसिद्धय: ॥६॥
सुस्नातो यो जपेत् सम्यग्योऽधीते स्वस्थमानस: । स रोगमुक्तो दीर्घायु: सुखं पुष्टिं च विंदति ॥७॥
इति श्रीमद्याज्ञवल्क्यविरचितं सूर्यकवचस्तोत्रं सम्पूर्णम् ।