मराठी मुख्य सूची|स्तोत्रे|सूर्य स्तोत्रे| सूर्य पूजनविधि आवाहन ॐ ... सूर्य स्तोत्रे सूर्य पूजनविधि आवाहन ॐ ... प्रस्तावना सुर्यस्तोत्रम् सूर्यार्यास्तोत्रम् सूर्याष्टकम् (१) सुर्याष्टकम् (२) आदित्यह्रुदयम् (१) आदित्यहृदयस्तोत्रम् (२) सुर्यकवचम् सूर्यकवचस्तोत्रम् आदित्यहृदय स्तोत्र - सूर्य पूजनविधि आवाहन ॐ ... देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God. Tags : godgoddessstotrasunआदित्यदेवतादेवीसूर्यस्तोत्र आदित्यहृदय स्तोत्र Translation - भाषांतर सूर्य पूजनविधिआवाहनॐ आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यंच ।हिरण्येन सविता रथेना देवो याति भुवनानि पश्यन् ॥ॐ जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम ।तपोऽरि सर्वपापघ्मं सूर्यमावाह्याम्यहम ॥ॐ विश्वानिदेव सवितदुरितानी परासुव यदभद्र तन्न आसुव ॥सूर्यमंत्रॐ जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम । तमोऽहि सर्वपापघ्नं सूर्यमावाह्याम्यहम ॥ॐ विश्वानिदेव सवितदुरितानि परासुव यदभद्रं तन्न आसुव ॥स्थापनाॐ भूर्भुवः स्वः कलिङ्ग देशोभ्दव काश्यप गोत्र रक्तवर्ण भो सूर्य ।इहागच्छ इह तिष्ठ सूर्याय नमः ।श्रीसूर्यमावाह्यामि स्थापयामि ।ध्यानम्पद्मासनः पद्माकरो द्विबाहुः पद्मद्युतिः सप्ततुरङ्गोवाहनः । दिवाकरो लोकगुरु किरीटीमयि प्रसादं देवाः ॥ॐ ग्रहणामादिरादित्यो लोकरक्षण कारकः । विषम स्थान सम्भूतां पीडां हरतु ते रविः ॥बीज मंत्रॐ ह्रां ह्रीं ह्रौं सूर्याय नमः ।तांत्रिक मंत्रॐ सूं सूर्याय नमः । किंवा ॐ ह्री घृणिः सूर्याय नमः ।सूर्य गायत्रीॐ भास्कराय विद्येहे महातेजाय धीमहि तन्नो सूर्यः प्रचोदयात् ।सूर्यपूजन करावे नंतरॐ अस्य आदित्यह्रदय स्तोत्रस्यागस्त्यऋषिरनुष्टुप्छन्दः आदित्यह्रदयभूतो भगवान्ब्रह्मा देवता निरस्ताशेषविघ्नतया ब्रह्माविद्यासिद्धौ सर्वत्र जयसिद्धौ च विनियोगः ।असे म्हणून श्रीआदित्यह्रदय स्तोत्र पठण करावेततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।रावणं चाग्रतो दृष्टवा युद्धाय समुपस्थितम् ॥१॥दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।उपगम्याब्रवीद्राममगस्तो भगवांस्तदा ॥२॥राम राम महाबाहो श्रुणु गुह्यं सनातनम् ।येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥३॥आदित्यह्रदयं पुण्यं सर्वशत्रु विनाशनम् ।जयावहं जपं नित्यमक्षयं परमं शिवम् ॥४॥सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् ।चिन्ताशोकप्रशमनमा युर्वर्धन मुत्तमम् ॥५॥रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।पूजयस्व विवस्वन्त भास्करं भुवनेश्वरम् ॥६॥सर्वदेवात्मको ह्रेष तेजस्वी रश्मिभावनः ।एष देवासुरगणॉंल्लोकान् पाति गभस्तिभिः ॥७॥एष ब्रहमाच विष्णुश्च शिवः स्कन्दः प्रजापतिः ।महेन्द्रो धनदः कालो यमः सोमो ह्यपाम्पतिः ॥८॥पितरो वसवः साध्या अश्विनौ मरुतो मनुः ।वायुर्वह्निः प्रजाः प्राण ऋतुकर्ता प्रभाकरः ॥९॥आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ।सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ॥१०॥हरिदश्व सहस्त्रार्चिः सप्तसप्तिर्मरीचिमान् ।निमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्डकोंऽशुमान ॥११॥हिरण्यगर्भः शिशिरस्तपनोऽहस्करो रविः ।अग्निगर्भोऽदितेः पुत्रः शङगः शिशिरनाशनः ॥१२॥व्योमनाथस्तमोभेदी ऋग्यजुःसाम पारगः ।घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः ॥१३॥आतपी मण्डली मृत्युः पिङगलः सर्वतापनः ।कविर्विश्वो महातेजा रक्तः सर्वभवोभ्दवः ॥१४॥नक्षत्रग्रहताराणामधिपो विश्वभावनः ।तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ॥१५॥नमः पूर्वाय गिरचे पश्चिमायाद्रये नमः ।ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥१६॥जयाय जयभद्राय हर्यश्वाय नमो नमः ।नमो नमः सहस्त्रांशो आदित्याय नमो नमः ॥१७॥नम उग्राय वीराय सारङगाय नमो नमः ।नमः पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥१८॥ब्रह्मेशानाच्युतेशाय सूरायादित्यवर्चसे ।भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥१९॥तमोघ्याय हिमघ्यान शत्रुघ्नायमितात्मने ।कृतघ्नाय देवाय ज्योतिषां पतये नमः ॥२०॥तप्त चामीकराभाय हरये विश्वकर्मणे ।नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥२१॥नाशयत्येष वै भूतं तमेव सृजति प्रभुः ।पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥२२॥एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।एष चैवाग्निहोत्रं च फलं चैवाग्नि होत्रिणाम् ॥२३॥देवाश्य क्रतवश्चैव क्रतूनां फलमेव च ।यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः ॥२४॥एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।कीर्तयन पुरुषः कश्चिन्नावसीदति राघव ॥२५॥पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् ।एतत्त्रिगुणितं जप्त्वा युध्देषु विजयिष्यसि ॥२६॥अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि ।एवमुक्त्वा ततोऽगस्त्यो जगाम स यथागतम् ॥२७॥एतुच्छ्रत्वा महातेजा नष्टशोकोऽभवत् तदा ।धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥२८॥आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान् ।त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥२९॥रावणं प्रेक्ष्यं हृष्टात्मा जयार्थ समुपागमत् ।सर्वयत्नेन महता वृतस्तस्य वधेऽभवत् ॥३०॥अथ रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः ।निशिचरपति संक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥३१॥॥श्रीवाल्मीकीयेरामायणे युद्धकाण्डे अगस्त्यप्रोक्तमादित्यहृदयस्तोत्रं संपूर्णम् ॥ N/A References : N/A Last Updated : November 05, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP