श्रीगणेशाय नम:॥ शतानीक उवाच ॥
कथमदित्यमुंद्यंतमृपतिष्ठेद् द्विजोत्तम: । एतन्मे बुहि विप्रेन्द्र प्रपद्ये शरणं तव ॥१॥
सुमंतुरुवाच ॥
इदमेव पुरा पृष्ट: शंखचक्रगदाधर: । प्रणम्य शिरसा देवमर्जुनेन महात्मना ॥२॥
कुरुक्षेत्रे महाराजप्रवृते भारते रणे । कृष्णंनाथं सभासाद्य प्रार्थयित्वाऽब्रवीदिदम् ॥३॥
अर्जुन उवाच ॥
ज्ञानं च धर्मशास्त्राणां गुह्याद्गुह्यतरं तथा। मया कृष्ण परिज्ञातं वाड;मयं सचराचरम् ॥४॥
सूर्यस्तुतिमयं न्यासं वक्तुमर्हसि माधव । भक्त्या पृच्छामि देवेश कथयस्व प्रसादत: ॥५॥
सूर्यभक्तिं करिष्यामि कथं सूर्य प्रपूजयेत् । तदहं श्रोतुमिच्छामि त्वत्प्रसादेन यादव ॥६॥
श्रीभगवानुवाच ॥
रुद्रादिदैवतै: सर्वैं: पृष्टेन कथितं मया । वक्ष्येऽहं सूर्याविन्यासं श्रृणु पांडव यत्नत: ॥७॥
अस्माकं यत्वया पृष्टमेकचितो भवार्जुन । तदहं संप्रवक्ष्यामि आदिमध्यावसानकम् ॥७॥
अस्माकं यत्वया पृष्टमेकचित्तो भवार्जुन । तदहं संप्रक्ष्यामि आदिमध्यावसानकम् ॥८॥
अर्जुन उवाच ॥
नारायण सुरश्रेष्ठ पृच्छामि त्वां महायश: । कथ मादित्यमुद्यंतमुपतिष्ठेत्सनातनम् ॥९॥
श्रीभगवानुवाच ॥
साधु पार्थ महाबाहो बुद्धिमानसि पांडव ॥ यन्मां पृच्छस्युपस्थानं तप्तवित्रं विभावसो: ॥१०॥
सर्वमंगलमांगल्यं सर्वपापप्रणाशनम् । सर्वरोगप्रशमनमायुर्वर्धनमुत्तमम् ॥११॥
अमित्रदमनं पार्थ संग्रामे जयवर्धनम् । वर्धनं धनपुत्राणामादित्यह्रदयं श्रृणु ॥१२॥
यच्छ्रु त्वा सर्वपापेभ्यो मुच्यते नात्र संशय: । त्रिषु लोकेषु विख्यातं नि:श्रेयसकरं परम् ॥१३॥
देवदेवं नमस्कृत्य प्रातरुत्थाय चार्जुन । विघ्नान्यनेकरूपाणि नश्यंति स्मरंणादपि ॥१४॥
तस्मात्सर्वप्रयत्नेन सुर्यमावाहयेत् सदा । आदित्यहृदयं नित्यं जाप्यं तच्छृणु पांडव ॥१५॥
यज्जपान्मुच्यते जंतुर्दारिद्यादाशु दुस्तरात । लभते च महा सिद्धिं कृष्ठव्याधिविनाशिनीम् ॥१६॥
अस्मिन्मत्रें ऋषिश्छंदो देवताशक्तिरेव च । सर्वमेव महाबाहो कथयामि तवाग्रत: ॥१७॥
मया ते गोपितं न्यासं सर्वशास्त्रप्रबोधितम् । अथ ते कथयिष्यामि उत्तमं मंत्रमेव च ॥१८॥
ॐ अस्य श्रीआदित्यहृदयस्तोत्रमंत्रस्य श्रीकृष्ण ऋषि: । श्रीसुर्यात्मा त्रिभुवनेश्वरो देवता । अनुष्टुप्छंद: ।
हरितहयरथं दिवाकरं घृणिरिति बीजम् । ॐ नमो भगवते जितवैश्वानरजातबेदसे इति शक्ति: ।
ॐ नमो भगवते आदित्याय नम: इति कीलकम् । ॐ अग्निगर्भदेवता इति मंत्र: । ॐ नमो भगवते तुभ्यमादित्याय नमो नम: श्रीसुर्यनारायणप्रीत्यर्थं जपे विनियोग: ॥ अथ न्यास: ॥ ॐ ह्रां अंगुष्ठाभ्यां नम: । ॐ ह्रीं तर्जनीभ्यां नम: ।
ॐ ह्रू मध्यमाभ्यां नम: । ॐ ह्रैं अनामिकाभ्यां नम: । ॐ ह्रौं कनिष्ठिकाभ्यां नम: । ॐ ह्र: करतलकरपृष्ठाभ्यां नम: ।
ॐ ह्रां हृदयाय नम: । ॐ ह्रीं शिरसे स्वाहा । ॐ ह्रूं शिखायै वषट् । ॐ ह्रै कवचाय हुम् । ॐ ह्रौं नेत्रत्रयाय वौषट् ।
ॐ ह्र: अस्त्राय फट् । ॐ ह्रां ह्रीं ह्रूं ह्रै ह्रौं ह्र: इति दिग्बन्ध: ॥ अथ ध्यानम् ॥
भास्वद्रत्नाढयमौलि : स्फुरदधररुचा रंजितश्चारुकेशो भास्वान्यो दिव्यतेजा: करकमलयुत: स्वर्णवर्ण : प्रभाभि: । विश्वाकाशावकाशग्रहपतिशिखरे भाति यश्चोदयाद्रो सर्वानंदप्रदाता हरिहरनमित: पातु मां विश्वचक्षु: ॥१॥
पूर्वमष्टदलं पद्मं प्रणवादिप्रतिष्ठितम् । मायाबीजं दलाष्टाग्रे यन्त्रमद्धारयेदिति ॥२॥
आदित्यं भास्करं भानुं रविं सूर्य दिवाकरम् । मार्तंडं तपनं चेति दलेष्वष्टषु योजयेत् ॥३॥
दीप्ता सुक्ष्मा जया भद्रा विभूतिर्विमला तथा । अमोघा विद्युता चेति मध्ये श्री: सर्वतोमुखी ॥४॥
सर्वज्ञ: सर्वगश्चैव सर्व कारणदेवता । सर्वेशं सर्वह्र्दयं नमामि सर्वसाक्षिणम् ॥५॥
सर्वात्मा सर्वकर्ता च सृष्टिजीवनपालक: । हित: स्वर्गापवर्गश्च भास्करेश नमोऽस्तु ते ॥६॥
इति प्रार्थना ॥
नमो नमस्तेऽस्तु सदा विभावसो सर्वात्मने सप्तहयाय भानवे । अनन्तशक्तिं मणिभुषणेन ददस्व भुक्तिं मम मुक्तिमव्ययाम् ॥७॥
अर्कं तु मूर्ध्नि विन्यस्य ललाटे तु रविं न्यसेत् । विन्यसेन्नेत्रयो: सुर्यं कर्णयोश्च दिवाकरम् ॥८॥
नासिकायां न्यसेद्भानुं मुखें वै भास्करं न्यसेत् । पर्जन्यमोष्ठ्योश्चैव तीक्ष्णं जिह्वांतरे न्यसेत् ॥९॥
सुवर्णरेतसं कण्ठे स्कन्धयोस्तिग्मतेजसम् । बाह्वोस्तु पुषणं चैव मित्रं वै पृष्ठतो न्यसेत् ॥१०॥
वरुणं दक्षिणे हस्ते त्वष्टारं वामत: करे । हस्तावुष्णकर : पातु हृदयं पातु भानुमान् ॥११॥
उदरे तु यमं विद्यादादित्यं नाभिमण्डले । कट्यां तु विन्यसेद्धंसं रुद्रमुर्वोस्तु विन्यसेत् ॥१२॥
जान्वोस्तु गोपतिं न्यस्य सवितारं तु जंघयो: । पादयोश्च विवस्वंतं गुल्फयोश्च दिवाकरम् ॥१३॥
बाह्यतस्तु तमोध्वंसं भगमभ्यंतरे न्यसेत् । सर्वांगेषु सहस्त्रांशुं दिग्विदिक्षु भगं न्यसेत् ॥१४॥
इति दिग्बन्ध: ॥
एष आदित्यविन्यासो देवनाम पि दुर्लभ: । इमं भक्त्या न्यसेत्पार्थ स याति परमां गतिम् ॥१५॥
कामक्रोधकृताप्तापान्मुच्यते नात्र संशय: । सर्पदपि भयं नैव संग्रामेषु पथिष्वपि ॥१६॥
रिपुसंघट्टकालेषु तथा चोरसमागमे । त्रिसंध्यं जपतो न्यासं महापातकनाशनम् ॥१७॥
विस्फोटकसमुत्पन्नं तीव्रज्वरसमुद्भवम् । शिरोरोगं नेत्ररोगं सर्वव्याधिविनाशनम् ॥१८॥
कुष्ठव्याधिस्तथा दद्रुरोगाश्च विविधाश्च ये । जपमानस्य नश्यंति श्रृणु भक्त्या तदर्जुन ॥१९॥
आदित्यो मन्त्रसंयुक्त आदित्यो भुवनेश्वर: । आदित्यान्नापरो देवो ह्यादित्य: परमेश्वर: ॥२०॥
आदित्यमर्चयेद्ब्रह्मा शिव आदित्यमर्चयेत् । यदादित्यमयं तेजो मम तेजस्तदर्जुन ॥२१॥
आदित्यं मंत्रसंयुक्तमादित्यं भुवनेश्वरम् ॥ आदित्यं ये प्रपश्यंति मां पश्यंति न संशय: ॥२२॥
त्रिसंध्यमर्चयेत्सुर्यं स्मरेद्भक्त्या तु यो नर: । न स पश्यति दारिद्र्यं जन्मजन्मनि चार्जुन ॥२३॥
एतत्ते कथितं पार्थ आदित्यहृदयं मया । श्रृण्वन्मुक्तश्च पोपेभ्य: सुर्यलोके महीयेत ॥२४॥
नमो भगवते तुभ्यमादित्याय नमो नम: । आदित्य: सविता सुर्य: खग: पुषा गभस्तिमान् ॥२५॥
सुवर्ण: स्फटिको भानु: स्फुरितो विश्वतापन: । रविर्विश्वो महातेजा: सुवर्ण: सुप्रबोधक: ॥२६॥
हिरण्यगर्भस्त्रिशिरास्तपनो भास्करो रवि: । मार्तण्डो गोपति: श्रीमन् कृतज्ञश्च प्रतापवान् ॥२७॥
तमिस्त्रहा भगो हंसो नासत्यश्च तमोनुद: । शुद्धो विरोचन: केशी सहस्त्रांशुर्महाप्रभु: ॥२८॥
विवस्वान्पुषणो मृत्युर्मिहिरो जामदग्नजित् । घर्मरश्मि: पतंगश्च शरण्यो मित्रहा तप: ॥२९॥
दुर्विज्ञेयगति: शुरस्तेजोरश्मिर्महायशा: । शंभुश्चित्रांगद: सौम्यो हव्यकव्यप्रदायक: ॥३०॥
अंशुमानुत्तमो देव ऋग्यजु: साम एव च ॥ हरिदश्वस्तमोदार: सप्तसप्तिर्मरीचिमान् ॥३१॥
अग्निगर्भोंऽदिते: पुत्र शंभुस्तिमिरनाशन: । पुषा विश्वंभरो मित्र: सुवर्ण: सुप्रतापवान् ॥३२॥
आतपी मंडली भास्वांस्तपन: सर्वतापन: । कृतविश्वो महातेजा: सर्वरत्नमयोअद्भव: ॥३३॥
अक्षरश्च क्षरश्चैव प्रभाकरविभाकरौ । चंद्रश्चंद्रांगद: सौम्यो हव्यकव्यप्रदायक: ॥३४॥
अङ्गारकोऽगदोऽगस्ती रक्तांगश्चांगवर्धन: । बुधो बुद्धासनो बुद्धिर्बुद्धात्मा बुद्धिवर्धन: ॥३५॥
बृहद्भानुर्बुहद्भासो बृहद्भामा बृहस्पति: । शुक्लस्त्वं शुक्लरेतास्त्वं शुक्लांग: शुक्लभुषण: ॥३६॥
शनिमान् शनिरुपस्त्वं शनैर्गच्छसि सर्वदा । अनादिरादित्यस्तेजोराशिर्महातपा: ॥३७॥
अनादिरादिरुपस्त्वमादित्यो दिक्पतिर्यम: । भानुमान् भानुरुपस्त्वं स्वर्भानुर्भानुदीप्तिमान् ॥३८॥
धुम्रकेतुर्महाकेतु: सर्वकेतुरनुत्तम: । तिमिरावण: शंभु: स्त्रष्टा मार्तंड एव च ॥३९॥
नम: पूर्वाय गिरये पश्चिमाय नमो नम: । नमोत्तराय गिरये दक्षिणाय नमो नम: ॥४०॥
नमो नम: सहस्त्रांशो ह्यादित्याय नमो नम: । नम: पद्मप्रबोधाय नमस्ते द्वादशात्मने ॥४१॥
नमो विश्व प्रबोधाय नमो भ्राजिष्णुजिष्णवे । ज्योतिषे च नमस्तुभ्यं ज्ञानार्काय नमो नम: ॥४२॥
प्रदीप्ताय प्रगल्भाय युगांताय नमो नम: ॥ नमस्ते होतृपतये पृथिवीपतये नम: ॥४३॥
नम ॐकार वषट्कार सर्वयज्ञ नमोस्तु ते ॥ ऋग्वेदाथ यजुवैद समावेद नमोऽस्तु ते ॥४४॥
नमो हाटकवर्णाय भास्कराय नमो नम: । जयाय जयभद्राय हरिदश्वाय ते नम: ॥४५॥
दिव्याय दिव्यारुपाय गुहाणां पतये नम: ॥ नमस्ते शुचये नित्यं नम: कुरुकुलात्मने ॥४६॥
नमस्त्रैलोक्यनाथाय भुतानां पतये नम: । नम: कैवल्यनाथाय नमस्ते दिव्यचक्षुषे ॥४७॥
त्वं ज्योतिस्त्वं द्युतिर्ब्रह्मा त्वं विष्णुस्त्वं प्रजापति: । त्वमेव रुद्रो रुद्रात्मा वायुरग्निस्त्वमेव च ॥४८॥
योजनानां सहस्त्रे द्वे शते द्वे द्वे च योजने । एकेन निमिषार्धेन क्रममाण नमोस्तु ते ॥४९॥
नवयोजनलक्षाणि सहस्त्रद्विशतानिच च । यावद्धटीप्रमाणेन क्रममाण नमोस्तु ते ॥५०॥
अग्रतश्च नमस्तुभ्यं पृष्ठतश्च सदा नम: । पाश्वतश्च नमस्तुभ्यं नमस्ते चास्तु सर्वदा ॥५१॥
नम: सुरारिहंत्रे च सोमसुर्यग्निचक्षुषे । नमो दिव्याय व्योमाय सर्व तंत्रमयाय च ॥५२॥
नमो वेदांतवेद्याय सर्वकर्मादिसाक्षिये । नमो हरितवर्णाय सुवर्णाय नमो नम: ॥५३॥
अरुणो माघमासे तु सुर्यो वै फाल्गुने तथा । चैत्रमासे तु वेदांगो भानुर्वैंशाखतापन: ॥५४॥
ज्येष्ठमासे तपेदिन्द्र आषाढे तपते रवि: । गभस्ति: श्रावणे मासि यमो भाद्रपदे तथा ॥५५॥
इषे सुवर्णरेताश्च कार्तिके च दिवाकर: । मार्गशीर्षे तपेन्मित्र: पौषे विष्णु: सनातन: ॥५६॥
पुरुषस्त्वधिके मासि मासाधिक्ये तु कल्पयेत् । इत्येते द्वादशादित्या: काश्यपेया: प्रकीर्तिता: ॥५७॥
उग्ररुपा महात्मानस्तपंते विश्वरुपिण: । धर्मार्थकाममोक्षाणां प्रस्फुटा हेतवो नृप ॥५८॥
सर्वपापहरं चैवमादित्यं संप्रपुजयेत् । एकधा दशधा चैव शतधा च सहस्त्रधा ॥५९॥
तपंते विश्वरुपेण सृजंति संहरंति च । एष विष्णु: शिवश्चैव ब्रह्मा चैव प्रजापति: ॥६०॥
महेन्द्रश्चैव कालश्च यमो वरुण एव च । नक्षत्रग्रहताराणामधिपो विश्वतापन: ॥६१॥
वायुरग्निर्धनाध्यक्षो भुतकर्ता स्वयं प्रभु: । एष देवो हि देवानां सर्वमाप्यायते जगत् ॥६२॥
एष कर्ता हि भुतानां संहर्ता रक्षकस्तथा । एष लोकानुलोकाश्च सप्तद्वीपाश्च सागरा: ॥६३॥
एष पातालसत्पस्था दैत्यदानवराक्षसा: । एष धाता विधाता च बीजं क्षेत्रं प्रजापति: ॥६४॥
एष एव प्रजा नित्यं संवर्धयति रश्मिभि: । एष यज्ञ: स्वधा स्वाहा ह्री: श्रीश्च पुरुषोत्तम: ॥६५॥
एष भुतात्मको देव: सुक्ष्मोऽव्यक्त: सनातन: । ईश्वर: सर्वभुतानां परमेष्ठी प्रजापति: ॥६६॥
कालात्मा सर्वभुतात्मा वेदात्मा विश्वतोमुख: । जन्ममृत्युजराव्याधिसंसारभयनाशन : ॥६७॥
दारिद्रयव्यसनध्वंसी श्रीमान्देवो दिवाकर: । कीर्तनीयो विवस्वांश्च मार्तंडो भास्करो रवि: ॥६८॥
लोकप्रकाशक: श्रीमाँल्लोकचक्षुर्ग्रहेश्वर: । लोकसाक्षी त्रिलोकेश: कर्ता हर्ता तमिस्त्रहा ॥६९॥
तपनस्तापनश्चैव शुचि: सत्पाश्ववाहन: । गभस्तिहस्तो ब्रह्मण्य: सर्वदेवनमस्कृत: ॥७०॥
आयुरारोग्यमैश्वर्य नरा नार्यश्च मंदिरे । यस्य प्रसादात्संतुष्टिरादित्यहृदयं जपेत् ॥७१॥
इत्येतैर्नामभि: पार्थ आदित्यं स्तौति नित्यश: । प्रातरुत्थाय कौंतेय तस्य रोगभयं नहि ॥७२॥
पातकान्मुच्यते पार्थ व्याधिभ्यश्च न संशय: । एकसंध्यं द्विसंध्यं वा सर्वपापै: प्रमुच्यते ॥७३॥
त्रिसंध्यं जपमानस्तु पश्येच्च परमं पदम् । यदह्नात्कुरुते पापं तदह्नात्प्रतिमुच्यते ॥७४॥
यद्रात्र्यात्कुरुते पापं तद्रात्र्यात्प्रतिमुच्यते । दद्रुस्फोटककुष्ठानि मण्डलानि विषूचिका ॥७५॥
सर्वव्याधिमहारोगभूतबाधास्तथैव च । डाकिनी शाकिनी चैव महारोगभयं कुत: ॥७६॥
ये चान्ये दुष्टरोगाश्च ज्वरातीसारकादय: । जपमानस्य नश्यन्ति जीवेच्च शरदां शतम् ॥७७॥
संवत्सरेण मरणं यदा तस्य ध्रुवं भवेत् । आशीर्षां पश्यति च्छायामहोरात्रं धनंजय ॥७८॥
यस्त्विदं पठते भक्त्या भानोर्वारे महात्मन: । प्रात: स्नाने कृते पार्थ एकाग्रकृतमानस: ॥७९॥
सुवर्णचक्षुर्भवति न चांधस्तु प्रजायते । पुत्रवान् धनसंपन्नो जायते चारुज: सुखी ॥८०॥
सर्वसिद्धिमवाप्नोति सर्वत्र विजयी भवेत् । आदित्यहृदयं पुण्यं सुर्यनामविभुषितम् ॥८१॥
श्रुत्वा च निखिलं पार्थ सर्वपापै: प्रमुच्यते । अत: परतरं नास्ति सिद्धिकामस्य पांडव ॥८२॥
एतज्जपस्व कौंतेय येन श्रेयो ह्यावाप्स्यसि। आदित्यहृदयं नित्यं य: पठेत्सुसमाहित: ॥८३॥
भ्रुणहा मुच्यते पापत्कृतघ्नो ब्रह्माघातक: । गोघ्न: सुरापो दुर्भोजी दुष्प्रतिग्रहकारक: ॥८४॥
पातकानि च सर्वाणि दहत्येव न संशय: । य इदं श्रृणुयान्नित्यं जपेद्वाऽपि समाहित: ॥८५॥
सर्वपापविशुद्धात्मा सुर्यलोके महियते । अपुत्रो लभते पुत्रान्निर्धनो धनमाप्नुयात् ॥८६॥
करोगी मुच्यते रोगाद्भाक्त्या य: पठते सदा । यस्त्वादित्यदिने पार्थ नाभिमात्रजले स्थित: ॥८७॥
उदयाचलमारुढं भास्करं प्रणत: स्थित: । जपते मानवो भक्त्या श्रृणुयाद्वापि भक्तित: ॥८८॥
स याति परमं स्थानं यत्र देवो दिवाकर: । अमित्रदमनं पार्थ यदा कर्तु समारभेत् ॥८९॥
तदा प्रतिकृतिं कृत्वा शत्रोश्चरणपांसुभि: । आक्रम्य वामपादेन ह्यादित्यहृदयं जपेत् ॥९०॥
एतन्मंत्रं समाहूया सर्वसिद्धिकरं परम् । ॐ ह्रीं हिमालीढं स्वाहा । ॐ ह्रीं निलींढं स्वाहा । ॐ ह्रीं मालीढं स्वाहा ।
इति मंत्र: ।
त्रिभिश्च रोगी भवति ज्वरी भवति पत्र्चभि: ॥ जपैस्तु सप्तभि: पार्थ राक्षसीं तनुमाविशेत् ॥९१॥
राक्षससेनाभिभुतस्य विकारान् श्रृणु पांडव । गीयते नृत्यते नग्न आस्फोटयति धावति ॥९२॥
शिवारुतं च कुरुते हसते क्रन्दते पुन: । एवं संपीड्यते पार्थ यद्यपि स्यान्महेश्वर: ॥९३॥
किं पुनर्मानुष: कश्चिच्छौचाचारविवर्जित: । पीडितस्य न सन्देहो ज्वरो भवति दारुण: ॥९४॥
यदा चानुग्रहं तस्य कर्तुमिच्छेच्छुभंकरम् । तदा सलिलमादाय जपेन्मंत्रमिमं बुध: ॥९५॥
नमो भगवते तुभ्यमादित्याय नमो नम: । जयाय जयभद्राय हरिदश्वाय ते नम: ॥९६॥
स्नापयेत्तेन मन्त्रेण शुभं भवति नान्यथा । अन्यथा च भवेद्दोषो नश्यते नात्र संशय: ॥९७॥
अतस्ते निखिल: प्रोक्त: पुजां चैव निबोध मे । उपलिप्ते शुचौ देशे निजतो वाग्यत: शुचि: ॥९८॥
वृत्तं वा चतुरस्त्रं वा लिप्तभुमौ लिखेच्छुचि । त्रिधा तत्र लिखेप्तद्ममष्टपत्रं सकर्णिकम् ॥९९॥
अष्टपत्रं लिखेप्तद्मं लिप्तगोमयमण्डले । पूर्वपत्रे लिखेत् सुर्यमाग्नेय्यां तु रविं न्यसेत् ॥१००॥
याम्यायां च विवस्वन्तं नैऋत्यां तु भगं न्यसेत् ॥ प्रतीच्यां वरुणं विद्याव्दायव्यां मित्रमेव च ॥१॥
आदित्यमुत्तरे पत्रे ईशान्यां मित्रमेव च । मध्ये तु भास्करं विद्यात्क्रमेणैवं समर्चयेत् ॥२॥
अत: परतरं नास्ति सिद्धिकमस्य पांडव । महातेज समुद्यंतं प्रणमेत्स कृतांजलि: ॥३॥
सकेसराणि पद्मानि करवीराणि चार्जुन । तिलतण्डुलयुक्तानि कुशगन्धोदकानि च ॥४॥
रक्तचन्दमिश्राणि कृत्वा वै ताम्रभाजने । धृत्वा शिरसि तप्तात्रं जानुभ्यां धरणीं स्पृशेत् ॥५॥
मन्त्रपुतं गुडाकेश चार्घ्यं दद्याद् गभस्तये । सायुधं सरथं चैव सुर्यमावाहयाम्यगम् ॥६॥
स्वागतो भव । सुप्रतिष्ठितो भव । संनिधौ भव । सांनिहितो भव । संमुखो भव । इतिपत्र्चमुद्रा: ।
स्फुटयित्वाऽर्हयेत्सुर्यं भुक्ति मुक्तिं लभेन्नर: ॥७॥
ॐ श्री विद्याकिलिकिलिकटकेष्टसर्वार्थसाधनाय स्वाहा । ॐ श्रीं ह्रीं ह्रूं हं स: सूर्याय नम: स्वाहा ।
ॐ श्रीं ह्रा ह्रीं ह्रं ह्र: सुर्यमुर्तये स्वाहा । ॐ श्रीं ह्रीं खं ख: लोकाय सर्वमुर्तये स्वाहा । ॐ ह्रू मार्तंडाय स्वाहा ।
नमोस्तु सुर्याय सहस्त्रभानवे नमोस्तु वैश्वानरजातवेदसे ।
त्वमेव चार्घ्य प्रतिगृह्ल देव देवाधिदेवाय नमो नमस्ते ॥८॥
नमो भगवते तुभ्यं नमस्ते जातवेदसे । दत्तमर्घ्य मया मानो त्वं गृहाण नमोऽस्तु ते ॥९॥
एहि सूर्य सहस्त्रांशो तेजोराशे जगप्तते । अनुकंपय मां देव गृहाणार्घ्यं नमोऽस्तु ते ॥११०॥
नमो भगवते तुभ्यं नमस्ते जातवेदसे । ममेदमर्घ्य गृह्ल त्वं देवेदेव नमोऽस्तु ते ॥११॥
सर्वसेवाधिदेवाय आधिव्याधिविनाशिने । इदं गृहाण मे देव सर्वव्याधिर्विनश्यतु ॥१२॥
नम: सूर्याय शांताय सर्वरोगविनाशिने । ममेप्सितं फलं दत्त्वा प्रसीद परमेश्वर ॥१३॥
ॐ नमो भगवते सूर्याय स्वाहा । ॐ शिवाय स्वाहा । ॐ सर्वात्मने सुर्याय नम: स्वाहा ।
ॐ अक्षय्यतेजसे नम: स्वाहा । सर्वसंकटदारिद्र्यं शत्रुं नाशय नाशय ।
सर्वलोकेषु विश्वात्मन्सर्वात्मन्सर्वदर्शक ॥१४॥
नमो भगवते सुर्य कुष्ठरोगान्विखण्डय । आयुरारोग्यमैश्वर्यं देहि देव नमोऽस्तु ते ॥१५॥
नमो भगवते तुभ्यमादित्याय नमो नम: । ॐ अक्षय्यतेजसे नम: । ॐ सुर्याय नम: ।
ॐ विश्वमुर्तये नम: । आदित्यं च शिवं विद्याच्छिवमादित्यरुपिणम् ।
उभयोरंतरं नास्ति आदित्यस्य शिवस्यच ॥१६॥
एतदिच्छाम्यहं श्रोतुं पुरुषो वै दिवाकर: । उदये ब्रह्माणो रुपं मध्याह्ने तु महेश्वर: ॥१७॥
अस्तमाने स्वयं विष्णुस्त्रिमूर्तिश्च दिवाकर: । नमो भगवते तुभ्य विष्णवे प्रभविष्णवे ॥१८॥
ममेदमर्घ्य प्रतिगृह् ण देव देवाधिदेवाय नमो नमस्ते ।
श्रीसुर्यनारायणाय सांगाय सपरिवाराय इदमर्घ्य समर्पयामि ॥१९॥
हिमघ्नाय तमोघ्नाय रक्षोघ्नाय च ते नम: । कृतघ्नाय सत्याय तस्मै सुर्यात्मने नम: ॥१२०॥
जयोऽजयश्च विजयो जितप्राणो जितश्रम: । मनोजवो जितक्रोधो वाजिन: सप्त कीर्तिता: ॥२१॥
हरितहयरथं दिवाकरं कनकमयांबुजरेणुपिंजरम् । प्रितिदिनमुदये नवं शरणमुपैमि हिरण्यरेतसम् ॥२२॥
न तं व्याला: प्रबाधंते न व्याधिभ्यो भयं भवेत् । न नागेभ्यो भयं चैव न च भुतभयं क्वचित् ॥२३॥
अग्निशत्रुभयं नास्ति पार्थिवेभ्यस्तथैव च । दुर्गतिं तरते घोरां प्रजां च लभते पशुन् ॥२४॥
सिद्धिकामो लभित्सिद्धिं कन्याकामस्तु कन्यकाम् । एतप्तठेत्स कौंतेय भक्तियुक्तेने चेतसा ॥२५॥
अश्वमेधसहस्त्रस्य वाजपेयशतस्य च । कन्याकोटिसहस्त्रस्य दत्तस्य फलमाप्नुयात् ॥२६॥
इदमादित्यहृदयं योऽधीते सततं नर: । सर्वपापविशुद्धात्मा सुर्यलोके महीयते ॥२७॥
नास्त्यादित्यसमो देवो नास्त्यादित्यसमा गति: । प्रत्यक्षो भगवा न्विष्णुर्येन विश्वं प्रतिष्ठितम् ॥२८॥
नवतिर्योजनं लक्षं सहस्त्राणि शतानि च । यावद्घटीप्रमाणेन तावच्चरति भास्कर: ॥२९॥
गर्वा शतसहस्त्रस्य सम्यग्दत्तस्य यत्फलम् । तत्फलं लभते विद्वात्र्शांतात्मा स्तौति यो रविम् ॥१३०॥
योऽधीते सुर्यहृदयं सकलं सफलं भवेत् अष्टानां ब्राह्माणानां च लेखियित्वा समर्पयेत् ॥३१॥
ब्रह्मालोके ऋषीणां च जायते मानुषोऽपि वा । जातिस्मरत्वमाप्नोति शुद्धात्मा नात्र संशय: ॥३२॥
अजाय लोकत्रयपावनाय भुतात्मने गोपतये वृषाय । सुर्याय सर्वप्रलयांतकाय नमो महाकारुणिकोत्तमाय ॥३३॥
विवस्वते ज्ञानभृदंतरात्मने जगत्प्रदीपाय जगद्धितैषिणे । स्वयंभुवे दीप्तसहस्त्रचक्षुषे सुरोत्तमायामिततेजसे नम: ॥३४॥
सुरैरनेकै: परिषेविताय हिरण्यगर्भाय हिरण्मयाय । महात्मने मोक्षपदाय नित्यं नमोऽस्तु ते वासरकारणाय ॥३५॥
आदित्यश्चार्चितो देव आदित्य: परमं पदम् । आदित्य मातृको भुत्वा आदित्यो वाड;मयं जगत् ॥३६॥
आदित्यं पश्यते भक्त्या मां पश्यति ध्रुवं नर: । नादित्यं पश्यते भक्त्या न स पश्यति मां नर: ॥३७॥
त्रिगुणं च त्रितत्त्वं च त्रयो देवास्त्रयोऽग्नय: । त्रयाणां च त्रिमुर्तिस्त्वं तुरीयस्त्वं नमोऽस्तु ते ॥३८॥
नम: सवित्रे जगदेकचक्षुषे जगत्प्रसुतिस्थितिनाशहेतवे । त्रयीमयाय त्रिगुणात्मधारिणे विरिंचिनारायणशंकारात्मने ॥३९॥
यस्योदयेनेह जगत्प्रबुद्धयते प्रवर्तते चाखिलकर्मसिद्धये । ब्रह्मोन्द्रनारायणरुद्रवंदित: स न: सदा यच्छतु मङ्गलं रवि: ॥१४०॥
नमोऽस्तु सुर्याय सहस्त्ररश्मये सहस्त्रशाखान्वितसंभावात्मने । सहस्त्रयोगोंद्भवभावभागिने सहस्त्र संख्यायुगधारिणे नम: ॥४१॥
यन्मंडलं दीप्तिकरं विशालं रत्नप्रभं तीव्रमनादिरुपम् । दारिद्र्य दु:खक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ।
दारिद्र्य दु:खक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥४२॥
यन्मंडल देवगुणै: सुपुजितं विप्रै: स्तुतं भावनमुक्ति कोविदम् । तं देवदेव प्रणमामि सुर्यं पुनातु० ॥४३॥
यन्मण्डलं ज्ञानघनं त्वगम्यं त्रैलोक्यपुज्यं त्रिगुणात्मरुपम् । समस्ततेजोमयदिव्यरुपं पुनातु मां तत्सवितु० ॥४४॥
यन्मण्डलं गुढमतिप्रबोधं धर्मस्य वृद्धिं करुतें जनानाम् । यत्सर्वपापक्षयकारणं च पुनातु मां त० ॥४५॥
मन्मण्डलं व्याधिविनाशदक्षं यदृग्यजु:सामसु संप्रगीतम् । प्रकाशितं येन न भूर्भुव:स्व पुनातु मां त० ॥४६॥
यन्मंडलं वेद-विदो वदंति गायंति यच्चारणसिद्धसंघा: । यद्योगिनो योगजुषां च संघा: पुनातु मां त० ॥४७॥
यन्मंडलं सर्वजनेषु पुजितं ज्योतिश्च कुर्यादिह मर्त्यलोके । यत्कालकालादिमनादिरुपं पुनातु मां त० ॥४८॥
यन्मण्डलं विष्णुचतुर्मुखाख्यं यदक्षरं पापहरं जनानाम् । यत्कालकल्पक्षयकारणं च पुनातु मां त० ॥४९॥
यन्मण्डलं विश्वसृजां प्रसिद्धमुत्पत्तिरक्षाप्रलयप्रगल्भम् । यस्मित्र्जगत्संहरतेऽखिलं च पुनात मां त० ॥१५०॥
यन्मण्डलं सर्वगतस्य विष्णोरात्मा परंधाम विशुद्धतत्त्वम् । सुक्ष्मांतरैर्योगपथानुगम्यं पुनातु मां तत्स० ॥५१॥
यन्मंडलं ब्रह्मविदो वदंति गायंति यच्चारणसिद्धसंघा: । यन्मण्डलं वेदविद: स्मरंति पुनातु मां त० ॥५२॥
यन्मण्डलं वेदविदोपगीतं यद्योगिनां योगपथानुगम्यम् । तत्सर्ववेदं प्रणमामि सुर्य पुनातु मां त०॥५३॥
मण्डलाष्टकमिदं पुण्यं य: पठेत्सततं नर: । सर्वपापविशुद्धात्मा सुर्यलोके महीयेते ॥५४॥
ध्येय: सदा सवितृमण्डलमध्यवर्ती नारायण: सरसिजासनसंनिविष्ट: ।
केयुरवान्मकरकुंडलवान् किरीटी हारी हिरण्मयवपुर्धृतशङ्र्वचक्र: ॥५५॥
सशंखचक्रं रविमण्डले स्थितं कुशेशयाक्रांतमनंतमच्युतम् । भजामि बुद्धया तपनीयमूर्तिं चित्रविभूषणोज्ज्वलम् ॥५६॥
एवं ब्रह्मादयो देवा ऋषयश्च तपोधना: । कीर्तयंति सुरश्रेष्ठं देवं नारायणं विभुम् ॥५७॥
वेदवेदांगशारीरं दिव्यदीप्तिकरं परम् । रक्षोघ्नं रक्तवर्णं च सृष्टिसंहारकारकम् ॥५८॥
एकचक्रो रथो यस्य दिव्य: कनकभुषित: । स मे भवतु सुप्रीत: पद्महस्तो दिवाकर: । ॥५९॥
आदित्य: प्रथमं नाम द्वितीयं तु दिवाकर: । तृतीयं भास्कर: प्रोक्तं चतुर्थं तु प्रभाकर: ॥१६०॥
पत्र्चमंतु सहस्त्रांशु: षष्ठं चैव त्रिलोचन: । सप्तमं हरिदश्वश्च अष्टमं तु विभावसु: ॥६१॥
नवमं दिनकृत्प्रोक्तं दशमं द्वादशात्मकम् । एकादशं त्रयीमूर्तिर्द्वादशं सुर्य एव च ॥६२॥
द्वादशादित्यनामानि प्रात:काले पठेन्नर: । दु:स्वप्ननाशनं चैव सर्वद:खं च नश्यति ॥६३॥
दद्रुकुष्ठहरं चैव दारिद्रयं हरते ध्रुवम्र । सर्वतीर्थप्रदं चैव सर्वकामप्रवर्धनम् ॥६४॥
य: पठेत्प्रातरुत्थाय भक्त्या नित्यमिदं नर: । सौख्य मायुस्तथाऽऽरोग्यं लभते मोक्षमेव च ॥६५॥
अग्निमीडे नमस्तुभ्यमिषेत्वोर्जेस्वरुपिणे । अग्न आयाहि वीतस्त्वं नमस्ते ज्योतिषां पते ॥६६॥
शन्नो देवो नमस्तुभ्यं जगच्चक्षुर्नमोऽस्तु ते । पत्र्चमायोप वेदाय नमस्तुभ्यं नमो नम: ॥६७॥
पद्मासन: पद्मकर: पद्मगर्भसमद्युति: । सप्ताश्वरथसंयुक्तो द्विभुज: स्यात्सदा रवि: ॥६८॥
आदित्यस्य नमस्कारं ये कुर्वंति दिने दिने । जन्मांतरसहस्त्रेषु दारिद्रयं नोपजायते ॥६९॥
उदयगिरिमुपेंतं भास्करं पद्महस्तं निखिलभुवननेत्रं रत्नरत्नोपमेयम् ।
तिमिरकरिमृगेन्द्रं बोधकं पद्मिनीनां सुरवरमभिवन्दे सुन्दरं विश्ववंद्यम् ॥१७०॥
इति श्रीभविष्योत्तरपुराणे श्रीकृष्णार्जुनसम्वादे आदित्यहृदयास्तोत्रं सम्पुर्णम् ।