संस्कृत सूची|संस्कृत स्तोत्र साहित्य|स्तोत्रः| ॐ प्रत्यक्प्रवणधीवृत्त्या... स्तोत्रः कृतस्तोत्रादिसंग्रह: श्रीशिवस्तोत्रावली जगज्जन्महेतुं दयापूर्णसिन... प्रयाग: संगम: ख्यत: काशिक... दयाशतकं श्रीधर स्तुतिमणिमाला अमरूशतकम् श्रीअङ्गारकाष्टोत्तरशतनामस्तोत्रम् भल्लटशतकम् नागराजकृत भावशतकम् नीतिशतकम् योगशतकम् ककारादिकालीशतनामस्तोत्रम् निर्वाणमञ्जरी भक्तिस्तोत्रम् ॐ प्रत्यक्प्रवणधीवृत्त्या... अद्वैतरसमञ्जरी अद्वैतमकरन्दः आत्मपूजास्तोत्रम् - ॐ प्रत्यक्प्रवणधीवृत्त्या... देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God. Tags : godgoddessstotraदेवतादेवीसंस्कृतस्तोत्र आत्मपूजास्तोत्रम् Translation - भाषांतर ॐ प्रत्यक्प्रवणधीवृत्त्या हृद्गृहान्तःप्रवेशनम् ।मण्डपान्तःप्रवेशोऽयं पूजार्थं तव शङ्कर ॥१॥गुरुवाक्येषु विश्वासः स्थितिरासनसंस्थितिः ।सर्वसङ्कल्पसन्त्यागः सङ्कल्पस्तव पूजने ॥२॥सर्वाधारस्त्वमेवेति निश्चयः पीठपूजनम् ।ध्यानध्यातृध्येयबाधो ध्यानमानन्दकारणम् ॥३॥दृश्यप्रमार्जनं चित्तान्निर्माल्यस्य विसर्जनम् ।अहं ब्रह्मेत्यखण्डा या वृत्तिर्धाराभिषेचनम् ॥४॥पृथिव्यात्मकता दृष्टिस्तव गन्धसमर्पणम् ।बोधोपशमवैराग्यं त्रिदलं बिल्वमर्पये ॥५॥आकाशात्मकताबोधः कुसुमार्पणमीश्वर ।जगदाकाशपुष्पाभमिति पद्मं समर्पये ॥६॥वायुतेजोमयत्वं ते धूपदीपावनुत्तमौ ।दृश्यासम्भवबोधेन निजानन्देन तृप्तता ॥७॥सर्वतः प्रीतिजनकं नैवेद्यं विनिवेदये ।जलात्मकत्वबुद्धिस्तु पीयूषं तेऽर्पये पिब ॥८॥कर्तव्येष्वप्रसक्तिस्तु हस्तप्रक्षालनं तव ॥९॥दुर्वासनापरित्यागस्ताम्बूलस्य समर्पणम् ।वाचां विसर्जनं देव दक्षिणा श्रुतिसम्मता ॥१०॥फलाभिसन्धिराहित्यं फलार्पणमनुत्तमम् ।अहमेव परं ब्रह्म सच्चिदानन्दलक्षणम् ॥११॥एवं निदिध्यासवाक्यं स्तुतिः प्रियकरी तव ।नामरूपाणि न त्वत्तो भिन्नानीति मतिस्तु या ॥१२॥तव पुष्पाञ्जलिः शम्भो सर्वत्रोत्कीर्णपुष्पकः ।स्वप्रकाशात्मबुद्धिस्तु महानीराजनं तव ॥१३॥प्रादक्षिण्यं सर्वतस्ते व्याप्तिबुद्धिः स्मृतं शिव ।त्वमेवाहमिति स्थित्या लीनता प्रणतिस्तव ॥१४॥शुद्धसत्त्वस्याभिवृद्धिश्छत्रं तापापनोदनम् ।रजस्तमस्तिरस्कारश्चामरान्दोलने तव ॥१५॥निजानन्दपराघूर्णदोलनान्दोलने वस ।धन्योऽहं कृतकृत्योऽहमिति गानं तव प्रियम् ॥१६॥निरङ्कुशं महातृप्त्या नर्तनं ते मुदे शिव ।नानाविधैः शब्दजालैजृम्भणं वाद्यमुत्तमम् ॥१७॥शब्दातिगत्वबुद्धिस्तु कल्याणमिति डिण्डिमः ।वेगवत्तरगन्ताऽसौ मनोऽश्वस्ते समर्पितः ॥१८॥अहम्भावमहामत्तगजेन्द्रो भूरिलक्षणः ।तत्र देहाद्यनारोपनिष्ठा दृढतरोऽङ्कुशः ॥१९॥अद्वैतबोधदुर्गोऽयं यत्र शत्रुर्न कश्चन ।जनतारामविस्तारो रमस्वात्र यथासुखम् ॥२०॥कल्पनासम्परित्यागो महाराज्यं समर्पये ।भोक्तृत्वाध्यासराहित्यं वरं देहि सहस्रधा ॥२१॥अखण्डा तव पूजेयं सदा भवतु सर्वदा ।आत्मत्वात्तव मे सर्वपूजैवास्ति न चान्यथा ॥२२॥इमां पूजां प्रतिदिनं यः पठेद्यत्रकुत्रचित् ।सद्यः शिवमयो भूत्वा मुक्तश्चरति भूतले ॥२३॥इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमत्कृष्णानन्द-सरस्वतीविरचिता शिवमानसपूजा समाप्ता । N/A References : N/A Last Updated : January 07, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP