संस्कृत सूची|संस्कृत स्तोत्र साहित्य|स्तोत्रः| श्रीधर स्तुतिमणिमाला स्तोत्रः कृतस्तोत्रादिसंग्रह: श्रीशिवस्तोत्रावली जगज्जन्महेतुं दयापूर्णसिन... प्रयाग: संगम: ख्यत: काशिक... दयाशतकं श्रीधर स्तुतिमणिमाला अमरूशतकम् श्रीअङ्गारकाष्टोत्तरशतनामस्तोत्रम् भल्लटशतकम् नागराजकृत भावशतकम् नीतिशतकम् योगशतकम् ककारादिकालीशतनामस्तोत्रम् निर्वाणमञ्जरी भक्तिस्तोत्रम् ॐ प्रत्यक्प्रवणधीवृत्त्या... अद्वैतरसमञ्जरी अद्वैतमकरन्दः श्रीधर स्तुतिमणिमाला श्रीधर स्तुतिमणिमाला Tags : stotraस्तुतिमणिमालास्तोत्र श्रीधर स्तुतिमणिमाला Translation - भाषांतर श्रीशिवाय परस्मै ब्रह्मणे नम: ॥श्रीधर स्तुतिमणिमाला॥॥आख्याषष्ठि: प्रारम्भ:॥शिवं परमकल्याणं अव्याज करुणानिधिम् ।तदाख्यां सौख्यजननी वन्दे वक्त्रार्तिहारिणीम् ॥१॥शिवाख्ये नो जाने शिवमितरदेवानपि जनन्येक्वामी क्वासावहमहह दिष्टया तु भवतीम् समीक्षे मत्सर्वश्रममुषमिहामूकसुलभां स्वलब्धृस्वाधीनाखिलभुवन साम्राज्य विभवाम् ॥२॥स्वकीयै: स्त्रोतोभिर्जगदखिलमाक्रामति कलौ निमग्रास्ते वर्णाश्रमनियमधर्मा: स्फुटमिदम् ।प्रलीना ध्यानादिर्भजनसृतिरेका पुनरये परित्रातुं विश्वं पुरभिदभिधे त्वं विजयसे ॥३॥शिवाख्ये वाच्योऽर्थस्तव हि पुरभिद्वास्तु मुरभित् ।स लोकानामीष्टामवतु च सुखेन श्रितजनम् ।अलं नाहं तस्यानुसृतिषु स मा भूदपि च मे श्रितोऽहं त्वां यत्त्वद्भवति ममकल्याणि तदलम् ॥४॥स्वयंभू दैत्यारि त्रिपुरमथनानीरितकृत: त्रिलोकी साम्राज्यं तदपि नयनादेशवशगम् ।विधातुं त्वद्भाजस्त्वमलमलघुस्ते हि महिमा महेशाख्ये वाचामतिसरणिमाचामतितराम् ॥५॥करालाद्यत् क्ष्वेळाञ्जगदवितवानिन्दुमकुट: कृतान्ताद्दुर्दान्ताद्यदपि मुनिचूढामणिसुतम् ।अनल्पै: किञ्चल्पै: तदिदमिदमवनीयस्य रसनाकृतत्वत्सेवायाश्चरितमभिधे मन्मथरिपो: ॥६॥शतंसन्त्वाम्रायाश्शतमपि पुराणागमगणा: विहाय त्वामेते वितरितुमलं किं शिवधियम् ।अशेषग्लानिं या हरति भवती तु श्रममृते शिवाख्ये मातस्तामितरनिरपेक्षा वितरति ॥७॥त्रिणेत्रस्य ग्लानिस्त्रिपुरदनुजादीन६ मुररिपो: दशग्रीवप्रतिष्ठानपि दलयितुं हन्त कियती ।नियन्त्री या तेषां निखिलजगतोऽप्याशु दळयस्यविद्यां निर्यत्नं निटिलनयनाख्ये जननि ताम् ॥८॥भवत्या: पन्थानश्शतमखमुख श्रीभिरभित: सुधासारैस्सिक्ता: कुसुमसमवायैश्च निचिता: ।क्रियन्ते निर्याहि स्मरभिदभिधे दीयत इत: करालम्बौ जाग्रद्विनयभरया मुक्तिरमया ॥९॥शिवाख्ये जिह्वायां वहति भवतीं यस्तमखिलं शरद्राकाचन्द्रद्युतिमसितकण्ठं त्रिणयनम् ।विधून्मीलन्मौळिं विरचयसि केयं व्यसनिता विहन्तुं ते जीवेष्वहह शिवभावासुलभताम् ॥१०॥समाचक्षाणस्य स्मरभिदभिधे देवि भवतीमहो यस्यां यस्यां हरिति नयनान्तोऽवतरति ।हरास्तस्यां तस्यामळिकनयनाश्चन्द्रमकुटा: शरज्ज्योत्स्त्रा गौरास्सहगिरिजयोद्यन्ति शतश: ॥११॥शिव: कामं क्रोधाकुलमतिरजैषीत् त्वदनुगै: जित: काम: क्रोधोऽप्यथ मुनिकुमारं यमभयात् ।शिवोऽरक्षीदेकं सयतनमिमे तद्भयहृतोऽखिलस्येक्षामात्राज्जितमिह शिवाख्ये त्वदनुगै: ॥१२॥चरन्तीं त्वच्छायां शशिवदुपवाराशि वसतीत्यदोमुख्यासूक्तिष्वपि रसनया सडकलयत: ।परागं ब्रह्माद्या: पदकलितमञ्चन्ति शिरसा शिवाख्ये त्वन्निष्ठेर्जितमिति किमम्बाद्भुतमिदम् ॥१३॥भवत्यां स्पृष्टायां बत पुरहाराख्ये रसनया कराळेन ग्रीवा भवति गरळेनास्य कलिता ।हुताशेनाश्च्लिष्टो भवति च करोऽडगानि भुजगै: भवन्ति क्रान्तानि श्रितकुशलदा त्वं तु विदिता ॥१४॥दशायामन्त्यायां दळितबलदीनेन्द्रियततौ महेशाख्ये जिह्वां श्रवणमपि वा संश्रितवती ।भवत्येकैवास्य प्रतिभवति भद्राय महते तदा केनान्येनोन्मिषतुकणिका वाप्युपकृते: ॥१५॥मनागप्यस्पृष्टा गहनदहनेनेह विषयाभिधानेनानेन क्षितिधरसुतानेतुरभिधे ।रमन्ते कामं ते कतिचिदधि कल्लोलितसुधाझरायां धारायां शिशिरशिशिरायां सुकृतिन: ॥१६॥वधूटीपुत्रादीन् वसुविसरमानम्र नृपतिच्छटाचूडारत्नच्छविकवचिताशां श्रियमपि ।जहत्येके धन्या जगति मदनद्रोग्धुरभिधे विहारे सोत्कण्ठाविहतिरहिते त्वल्लहरिषु ॥१७॥अजस्त्रं तन्वाना: श्वसितुमपि मामक्षममिमं कदा वा क्रामन्तु प्रतिहतकराळोपहतय: ।पुरारातेराख्ये पुरभिदनुभूत्यूर्मिळसुखप्रतीपेभध्वंस प्रबलहरयस्त्वल्लहरय: ॥१८॥शिवाख्ये त्वत्स्त्रोतस्ततिषु विहतिं बाधिषतमा: । प्रकामं बाधन्तामितरमखिलं तेऽभित इमेप्रणामास्ते सन्तु प्रविरचय मत्काडगितमिदम् ॥१९॥किमन्यन्मन्यन्ते जगति न तृणायापि कतिचित् पदं मातश्शातक्रतवमपि वैरिञ्चमपि वा ।प्रधावन्ति त्यक्त्वा दहनमिव तत् प्रत्युत मनोभवारातेराख्ये त्वदमृतरसास्वाद् रसिका: ॥२०॥दिवं क्षोणीं क्षोणीं दिवमपि निरिन्द्रं जगदिदं तथान्येन्द्रं वीतद्रुहिणमपि वान्यद्रुहिणकम् ।प्रगल्भन्ते कर्तुं प्रसवविशिखद्रोग्धुरभिधे प्रपन्नास्त्वां शान्त्यापि तु सहजयोदास त इमे ॥२१॥घना: केऽपीशाख्ये त्वदमृतरसासार विसरै: जगत्कल्युद्दामज्वलदनलशान्त्या शिशिरताम् । अशेषगलानिं या हरति भवती तु श्रममृते शिवाख्ये मातस्तामितरनिरपेक्ष वितरति ॥२२॥त्रिनेत्रस्य ग्लानिस्त्रिपुरदनुजादीन् मुररिपो: दशग्रीवप्रष्ठानपि दलयितुं हन्त कियती ।नियन्त्री या तेषां निखिलजगतोऽप्याशु दळयस्यविद्यां निर्यत्नं निटिलनयनाख्ये जननि ताम् ॥२३॥भवत्या: पन्थानश्शतमखमुख श्रीभिरभित: सुधासारैस्सिक्ता: कुसुमसमवायैश्च निचिता: ।क्रियन्ते निर्याहि स्मरभिदभिधे दीयत इत: करालम्बो जाग्रद्विनयभरया मुक्तिरमया ॥२४॥शिवाख्ये जिह्वायां वहति भवतीं यस्तमखिलं शरद्राकाचन्द्रद्युतिमसितकण्ठं त्रिणयनम् ।विधून्मीलन्मौळिं विरचयसि केयं व्यसनिता विहन्तुं ते जीवेष्वहह शिवभावासुलभताम् ॥२५॥समाचक्षाणस्य स्मरभिदभिधे देवी भवतिमहो यस्यां यस्यां हरिति नयनान्तोऽवतरति ।हरास्तस्यां तस्यामळिकनयनाश्चन्द्रमकुटा: शरज्ज्योत्स्ना गौरास्सहगिरिजयोद्यन्ति शतश: ॥२६॥शिव: कामं क्रोधाकुलमतिरजैषीत् त्वदनुगै: जित: काम: क्रोधोऽप्यथ मुनिकुमारं यमभयात् ।शिवोऽरक्षीदेकं सयतनमिमे तद्भयहृतोऽखिलस्येक्षामात्राज्जितमिह शिवाख्ये त्वदनुगै: ॥२७॥चरन्तीं त्वच्छायां शशिवदुपवाराशि वसतीत्यदोमुख्यासूक्तिष्वपि रसनया सड्कलयत: ।परागं ब्रह्माद्या: पदकलितमञ्चन्ति शिरसा शिवाख्ये त्वत्रिष्ठेर्जितमिति किमम्बाद्भुतमिदम् ॥२८॥भवत्यां स्पृष्टायां बत पुरहाराख्ये रसनया कराळेन ग्रीवा भवति गरळेनास्य कलिता ।हुताशेनाश्च्लिष्टो भवति च करोऽड्गानि भुजगै: भवन्ति क्रान्तानि श्रितकुशलदा त्वं तु विदिता ॥२९॥महेशाख्ये जिव्हाञ्चलकलनमात्रात्तनुभृतां समस्ताघच्छेत्रीं सकलसुखदात्री च भवतीम् ।अवष्टभ्यैबाहुर्भगवति महाकारुणिकतां शिवस्यत्वां हित्वा कथयकतमो निर्वहतु ताम् ॥३०॥शिवाख्ये स्वाख्यासु त्रिपुरमथन: कैटभरिपु: तदीयान्यामूर्ती रघुपतिरपि त्वां समदधु: ।अमीष्वाद्यस्यैव प्रभवति भवत्या व्यवहृति: तदीयस्तादृक्षस्सुकृतपरिपाको विजयते ॥३१॥अशेषब्रह्माण्डविरतचरिताशेष दुरितान्यलं ते सन्तृप्तिं न हि घटयितुं तां घटयितुम् ।मदीयैरेनोभिर्मदनमथनाख्ये बत यते ममागस्सोढव्यं तदिदमयि तुभ्यं नम इदम् ॥३२॥अये जिह्वापीठे जननि समवस्थाप्य भवती ममाघौघं तुभ्यं मयि समुपहर्तुं व्यवसिते ।तव स्मृत्यैवासौ बत कबळित: कित्रु करवै क्षमस्वेमं मन्तुं भगवति पुरां भेत्तुरभिधे ॥३३॥निवेशो जिह्वायां निरवधिकपुण्योञ्चयजुषां निसर्गप्राप्तस्ते निटिलनयनाख्ये भवतु तत् ।निवेशं जिह्वायां मम यदि न धत्से जननि ते नितान्तं पापिष्ठोऽवित इति न सिद्धयेत्रनु यश: ॥३४॥शिवाख्ये मातस्त्वं ननु शशिवदित्यादिफणितिच्छलादप्याविश्य श्रमभरमकस्मात्तनुभृताम् ।हरस्येवं कर्तुं हरिरथ हरोवा स किमलं तदीयं माहात्म्यान्तरमपलपामस्तु न वयम् ॥३५॥पितृभ्यां त्यक्तोऽसावहमतिदुरात्मेति गिरिजागिरीशाभ्यां त्यक्तो ननु जननि लोकेन च तथा ।ममास्त्यन्या काचिज्जगति न गतिर्यामि शरणं शिवाख्ये त्वामेकामयिजहिहि वा मां बिभृहि वा ॥३६॥परित्याज्यं सर्वेऽप्यभिदधति पापिष्ठमयि ते शिवाख्ये सड्ग्राह्यस्स जयति तवैतत् समुचितम् ।प्रपत्रा त्वं किन्नोदयिनि गरले चामृतरसे पयोधेस्तत्राद्यग्रहणरसिकं तं प्रभुमणिम् ॥३७॥ममाजस्त्रं दोषान् समुपघटयन्तोऽ तररयो जयन्तीश: पश्यन् हृदि वसति मद्दौस्थ्यमखिलम् ।अथैवं सत्यागोऽखिलमपलपन्त्यम्ब बिभृषे कथं मामीशाख्ये कथय तव क:स्तौतु विभवम् ॥३८॥ स्फुटायां द्वारीशेतरमितरया साधु नयते यथा प्राप्यस्थानं सृहृदिह मनोजधुगभिधे ।स्वकर्मादावीशेतरमिममखेदं शिवपदं तथा कल्याणि त्वं ननु कलयसि त्वत्कलनया ॥३९॥स्वकर्मादावीशं जनमपि भवत्येव बिभृते विना त्वां तस्यापि स्वविरचित साद्रुण्यविरहात् ।बुभूषोस्सर्वस्य त्वमसि तदुपास्या किमपरं त्वयास्ते लब्धात्मा भगवति शिवाख्ये सच शिव: ॥४०॥न कर्माध्वन्योऽहं भगवति न वा भक्ति पथिकोऽस्म्युपादेय: कोऽपि स्फुरति गुणलेशोऽपि न मयि ।असडख्यातादोषा: किमत इह दौरात्म्यमितरत् तदम्ब त्वत्तोऽन्या न जगति शिवाख्ये मम गति: ॥४१॥सुतस्याख्यां नारायणगिरमुपादत्त यदजामिळस्तं तद्भीतास्तपनसुतदूता: प्रविजहु: ।त्वमीशाख्ये भीतिं नयसि विमतांस्ते मुदमथानुगान्कारुण्यार्द्रास्त्वहह निखिले ते त्वदनुगा: ॥४२॥सुरभिशरभिदाख्ये सुन्दरे त्वज्झरेऽस्मिन् निरुपहति विहर्तुं नित्यमुत्ग्रीविताशम् । अपनयसि किमेवं हन्त मामन्तरायै: मनसि न करु मातर्मामकान् देविमन्तून् ॥किमकुरुत मुदे मे कर्मवर्णाश्रमार्हं किमभजत मदडिंघ्र किं व्यधादेष को वा ।इति निजसमितौ मामीक्षमाणे गिरीशे मदनुग इति मातर्गर्ज धीरं शिवाख्ये ॥४४॥जगति वशिगिरा त्वव्द्यत्ययेनोल्लसन्त्या जननि परिगृहीतांस्त्वं स्वकर्मादि निष्ठान् ।न किमवसि शिवाख्ये हा तया नाद्दतं मावितुमिह विळम्ब: कस्त्वदेकावलम्बम् ॥४५॥अम्ब त्वदीयमहिमाम्बुधिशीकराणुवेदी सुधीस्त्वयि निरन्तरवृत्त्यलाभे । ईशाभिधे भुवि समेतु न किं पिपासोरभ्यर्णगेऽम्भसि निरुद्धगतेरवस्थाम् ॥४६॥इतो रोगा: कामादय इत इत: स्त्रीसुतमुखा: कृतान्तास्सर्वत्रेत्ययमनवधि: क्लेशजलधि: । तमेतं चाह्याय त्वदनुगदयोल्लासघटाभूर्निपीयेशाख्ये मामभिरमयतु त्वत्परिसरे ॥४७॥अम्ब प्रसीद कुरु मामनघं बलात्वं अडके च ते कुरु निषण्णममुं शिवाख्ये ।जम्बालसक्तममलं कुरुते न माता किं बालकं न कुरुतेडकजुषञ्च हष्टा ॥४८॥आविर्भवस्यायि नृणां त्वमयत्नतोऽग्रे ग्लानिं धुनोषि घटयस्यपि मड्गलानि ।ईशाभिधे तव यशो न किमुज्जिहीतां ईर्ष्याकुलत्वममरा न किमश्रुवीरन् ॥४९॥मदनहन्त्रभिधे तव निर्झरा: मधुसुधालहरीरतिशेरते । कृतधियो विहरन्ति च तेष्वमीष्वरसिकोऽत्र हतोऽस्म्यमेक क: ॥५०॥शिवाख्ये मा भैषी: पदममरनेतुर्ननु भवेत् अमुष्मै दातव्यं सरसिजभुवो वा पदमिति ।समीहे नाहं तत् किमपि सहसाभ्येहि रसनां ममेमां माहासीस्समभिलषितं मे पुनरिदम् ॥५१॥प्रदाय त्रैलोक्यश्रियमथ विमुक्तिश्रियमपि त्वमन्तर्लज्जार्ता भवसि किममुष्मै कृतमिदि ।व्यथैषा दिष्टया त्वद्रसिकतिलकैस्ते परिहृता विना त्वामीशाख्ये न किमपि यदेषां रतिपदम् ॥५२॥जन्मास्यवार्यमिति ते जननि प्रसादो जायेत चेन्मयि तदस्तु शिवाभिधे न: ।त्वन्निष्ठताभरनिरन्तरतातिरम्यं यज्जन्म तन्मम न जीर्यतु ते नमोऽस्तु ॥५३॥विश्वाधिनेतुरखिलार्थविद: स्मरारे: अज्ञाततां मदघराशिममुं नयन्ती ।मां त्रायसे मदनहन्त्रभिधेऽम्ब कस्ते चातुर्य साहसभरौ चतुरोऽभिधातुम् ॥५४॥ प्रसीद गिरिशाभिधे प्रदिश मन्मतावम्बया सहस्फुरणमूर्जितं सततमिन्दुमौळेर्विभो: ।तथानिशमिहासिकां तव मदीयजिह्वाञ्चले ददस्व मम काडकितं द्वयमिदं त्वदेकास्पदम् ॥५५॥न संस्फुरतु काडगत: स्फुरणमीश्वराख्ये कथं हदि त्वदनुगस्य तद्भ्रुकुटिकिड्करश्शडकर: ।चरन्तु विषया हरस्फुरणरोधिनो हृधमी कथं कथय गर्जनैर्जननि तर्जयन्त्यां त्वयि ॥५६॥ममायमवबुद्धयतां मधुरिमाणमूर्जस्वलं कदापि विजहातु मां न रसनैतदीयेति मे ।दयस्व गिरिशाभिधे ननु ददीत सा मेऽथवा तदेतदभिकाड्कितं त्वदनुगेषु जात्वानति: ॥५७॥मनागपि मन:स्पृशेन्मम यदेदमर्थान्तरं तदा द्रुतमपैष्यहो त्वमपहाय जिह्वां मम ।तथाम्ब गिरिशाभिधे तव न विप्रलम्भ: क्षमो भणेत् क इह किं प्रसूर्भवति विप्रलब्ध्री यदि ॥५८॥यदा त्वमपयासि मां जननि वञ्चयित्वा स्वयं तदा नियतमाहरोपहरमुख्यसञ्जल्पनै: । यथा कलितवञ्चन: पुरहराभिधे त्वामहं नयानि रसनां तथाञ्चतुविधे: प्रसादो मयि ॥५९॥ शरणितवन्त: खलु ये शशिकन्दळशेखराभिधे भवतीम् । तञ्चरणाम्बुजविहरणस्मरणं सुरघटाकिरीटतटे ॥६०॥शरणं जगतो ह्येते शरणितवन्तश्शिवाभिधेये त्वाम् । अभिलषितं यदमीषामसुलभमिति तत्र किं वियन्नळिनम् ॥६१॥महेशे तत्सडगिष्वपि कृतिषु पाषाणहृदये वराके मय्यस्मिन् प्रविदधति सन्त: प्रणयिताम् ।कथड्कारं मातर्दळय तदिहेमां मम हृदो दृषत्तामत्राम्ब स्मरभिदभिधे त्वं खलु गति: ॥६२॥॥इति श्री श्रीधरवेड्कटेशार्य कृतौ आख्याषष्टि: सम्पूर्णा ॥समाप्त. N/A References : N/A Last Updated : February 11, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP