नागराजकृत भावशतकम्
देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.
श्रीनागराजकविप्रणीतं भावशतकम् । शुभ्रं क्वचित्क्वचिदतीव सितेतराभं क्वापि प्रफुल्लनवपङ्कजसंनिकाशम् । तप्तं क्वचित्क्वचन शीतलमस्तु वस्तु कैवल्यसंसृतिपथानुगतं मुदे वः ॥१॥
नागराजशतं ग्रन्थं नागराजेन तन्वता । अकारि गतवक्त्र श्रीनागराजो गिरां गुरुः ॥२॥
नागराजनामा धारानगराधिपः कश्चिन्महीपतिरासीत. त- नाना तदाश्रितेन केनचित्कविना शतकमेतनिमितमिति शतकविलोकनाज्ज्ञायते. भावशतकम् । वसन्तकाले चकिता नताङ्गी विज्ञाय चक्रीकृतचापदण्डम् । मनोभवं सौरभशोभमानैरपूरयत्पाणियुगं प्रसूनैः ॥३ ॥
मधुकरालिमौर्वीभङ्गो न भवत्विति ॥ काचिद्वसन्तसमये गत्वा पुष्पद्रुमावलीम् । नामुञ्चन्निजनिःश्वासवायुं वारिजलोचना ॥४॥
भृङ्गागमनभीत्या ॥
काचित्तृषार्ता वनिता निदाधे गङ्गां समभ्येत्य सुधासवर्णाम् । आदाय तद्वारि करद्वयेन विलोकयन्ती न पपौ किमेतत् ॥५॥
करकिसलयकान्तिक्रान्त्या शोणितशङ्कयेति ॥ प्राचीनस्मृतविरहव्यथातिभीतः काकुत्स्थः कृतकुतुकाक्षिमीललीलः । संपूर्णे शशिनि चिराय लग्नदृष्टेः प्रेयस्याः स्थगयति लोचने कराभ्याम् ॥६॥ कनकमृगवन्मृगाङ्कमृगमपीयं याचिष्यतीति भीत्वा ॥ मदनातुरापि लक्ष्मीरालिङ्गनलोलुपापि ललिताङ्गी । मा पश्य पश्य नाथेत्यवदन्मुरवैरिणं तत्किम् ॥७॥
हरौ पश्यति नेत्रीभूतः सहोदरश्चन्द्रो द्रक्ष्यत इति । तथा चण्डकरकि- रणाः कोमले वपुषि दुःसहा भवन्ति । यद्यस्मासु कृपापरोऽसि वनितावाकृते कौतुका- दाशु प्रोल्लसदुत्सवासु बहुशो रथ्यासु मा संचर । वाचस्ते सुभगोद्गिरन्ति च सुधामुच्चावचाः कर्णयोः प्रोत्तुङ्गा गृहभित्तयः समदनोल्लासा च नः स्वामिनी ॥८॥
उत्सवालोकनव्याजेनास्मत्स्कन्धमधिरुह्य त्वां पश्यतीति ॥
काव्यमाला ।
मणिमयमण्डपमध्ये क्रीडन्ती कापि कामिनी विदुपी । अपराधेन विना तं निजचरणैस्ताडयामास ॥९॥
स्वप्रतिबिम्बं वीक्ष्य कामिन्यन्तरप्रतीतेः ॥ शिरसि देवनदीं पुरवैरिणः सपदि वीक्ष्य धराधरकन्यका । निबिडमानवती रमणाङ्गके क्वचन चुम्बनमारभते स्म सा ॥१०॥
क्रोधातिशयेन सविषो गलश्चुम्बितः ॥ सकलं स पुरा पीत्वा मुमोच मकरालयम् । मुनीन्द्रः किं न जानाति योषितां विरहव्यथाम् ॥११॥
पीतश्चन्द्रो मुक्त इति ॥
सौधस्थले विरहिणी विमले शयाना निर्मुक्तसर्वजलदासु शरन्निशासु ! देवाननिन्ददधिकं दनुजोत्तमांश्च दुग्धार्णवं च भुजगेश्वरमन्दरौ च ॥१२॥
एभिश्चन्द्र उत्पादित इति । अपारं दुःखमापन्ना मदनार्ता वियोगिनी । कोकिलालिशशाङ्काद्या वर्धन्तामित्यभाषत ॥१३॥
एतद्बाहुल्येनाचिरेण वियोगिनीनां वरणं संभाव्यते ॥ ज्याबन्धः शिथिलीभवत्वयममी शाम्यन्तु कोलाहलाः स्वामिस्त्वन्मृगयाविहारकुतुकासक्तिः क्षणं तिष्ठतु । इन्दौ स्प्रष्टुमुपागतेऽपि सहसा निःशङ्कमन्याङ्गनां मा मा मा स्पृश मा स्पृशेति चकिता यद्रोहिणी जल्पति ॥१४॥
मृगयाचकितमृगापगमाद्विमृगे चन्द्रे रोहिण्याः परपुरुषशङ्केति । तीक्ष्णाग्रं कठिनं कुचद्वयमिदं तन्वङ्गि यच्चोन्नतं तद्वक्षः परिहाय किं प्रियतमः पृष्ठे समालिङ्ग्यते । भावशतकम् । किं कुर्मः सखि नर्मकेलिषु मया दष्टे रसेनाधरे रुष्टोऽयं गमनोद्यतस्तदधुना पन्थानमानीयते ॥१५॥
धवलो हि प्रतोदेन प्रेरितः पन्थानमायाति ॥ प्राप्ते वसन्तसमये पथिकस्य कान्ता श्रान्तान्तरा पिकगणा निनदन्ति यत्र । उत्थाय तत्परिसरं सहसैव गत्वा गातुं मतिं कृतवती कमनीयकण्ठम् ॥१६॥
मत्स्वराकर्णनेनेतः सन्नपा यास्यन्ति, मूका वा भविष्यन्ति ॥ जलदानवलोक्य निर्गता नगरोद्यानसुकेलयेऽङ्गनाः । पुनरागमनेषु ताः कथं घनवृष्ट्यापि भजन्ति न त्वराम् ॥१७॥
शीघ्रगमनेन श्रमश्वासादिना गुरुजनस्वासतीत्वप्रतीतिर्मा भूत् । अथवा व्यभिचारपरामृष्टचन्दनलेपादिभूषागोपनाय धनवृष्टयेत्यसतीपक्षः ॥पत्रावलीचित्रकपोलपालिं प्रातः सपत्नीमवलोक्य काचित् । तुतोष लाक्षाक्तमनाप्तनिद्रं पुनः प्रियं वीक्ष्य विषादमाप ॥१८॥
पावलेरविनाशादनया संयोगो नाभूदिति तुतोष । सर्वस्यामपि निशायां प्रीतिबाहुल्यादतिपादपतनैः संमानितापि मानमियं न मुमोचेति विषादमाप । स्मरातुराङ्गी प्रियविप्रयोगे शीतोपचारं परिह्रत्य सर्वम् । सुखेप्सया सर्वगतान्सिषेवे काचित्करानेव सुधाकरस्य ॥१९॥
यस्मादेते मत्मियसंगताः सन्तीति ॥ अन्यास्ताः प्रिय योषितः प्रियतमं कण्ठे समालिङ्ग्य या याचन्ते हृदयस्थितं बहुकृपं तूर्णं पुनः संगमम् । याचे त्वामहमेतदेव न परं त्वन्मङ्गलाकाङ्क्षिणी प्रस्थाने मम जीवितेश्वर वृथा कण्ठग्रहं मा कृथाः ॥२०॥
तव प्रस्थानालिङ्गनेन क्षणेनापि मन्प्राणा यास्यन्तीति ।
चतु. काव्यमाला।
क्रीडां प्रीतसखीजनैः पितृगृहे संस्मृत्य रेवातटे मा खिद्यस्व मनोहराङ्गि सरलः कान्तोऽस्ति चित्तानुगः । सन्त्येवात्र जलाशयाः सुगहनाः सख्यश्च ताः पण्डिताः क्रीडन्त्यास्तव तेषु ताभिरनिशं विस्मृत्य तद्यास्यति ॥२१॥
सुगमम् ॥
कान्तः क्वापि गतोऽस्ति कोपकलितः श्वश्रूजनैः संकुलं वेश्म स्तोकमिदं महोत्सववशात्सख्या गृहे याम्यहम् । मध्याह्नो विषमः सुपान्थ भवता तस्मान्निकुञ्जोल्लस- द्ग्रामस्योत्तरतः सरोऽस्ति ललितं किं तत्र न स्थीयते ॥२२॥
सुगमम् ॥
काचित्सरोजनयना रमणे स्वकीये दूरं गते सति मनोमवबाणखिन्ना । त्यक्तुं शरीरमचिरान्मलयाद्रिवायुं सौरभ्यशालिनमहो पिबति स्म चित्रम् ॥२३॥
मलयपवनानां भुजंगभुक्तावशिष्टत्वात् ॥ सच्छास्त्रवाक्यकथिते शुभकर्ममूले न्याय्ये पथि प्रतिदिनं किल वर्तमानः । सद्यः पुमान्सकललोकहितानुयायी शून्यं करोति सकलं दनुजारिवक्षः ॥२४॥
न्याय्यमार्गस्थितो हरिवक्षःस्थलस्थितामपि लक्ष्मीमपहर्तुं शक्तः । सा क्षामेति किमुच्यते तनु यया भद्रेतराशङ्कया त्वत्प्रत्यागमशंसिने बलिभुजे भूमौ बलिर्नार्प्यते । भावशतकम् । कुड्याग्रेषु पुनः प्रसारितकरं निःशङ्कया दीयते प्रत्यग्रेन्दुकलामिव प्रणयिनीं तन्मङ्क्षु संभावय ॥२५॥
भूमौ बलिदाने मङ्गलबलयविनिपात: संभावितः । अथवा सशब्दवलय- निपातेन चकितः काको बलिं न स्पृशतीति ॥
शोणाङ्कः
शशालाञ्छनः किसलयं शोभां विधत्तेऽलिना कम्बुः कापि सुरेखितः कुवलये बन्धूकपुष्पाञ्चिते । एवं धूर्तसखीजने वदति तां मुग्धां गृहीत्वा शठः किं दृश्यं नयनेषु नेति कथयन्वापीं ययौ क्रीडितुम् ॥२६॥
जलक्रीडाव्याजेन व्यभिचारचिह्नप्रक्षालनं स्यादिति ॥ दूरं गतं प्रियतमं परिचिन्त्य चित्ते रुद्धेषु वारिदगणैर्हरितां मुखेषु । रुद्धास्यमेव सुदृशा शनकै रुदन्त्या नेत्राम्बुना तिलकमाशु विशीर्णमासीत् ॥२७॥
तप्तस्तनपतितनेन्नाम्बुसेकाविर्भूतबाष्पजनितस्वेदादिभिः ॥ लीलासरोरुहि कयाचन वीक्षमाणे केनाप्य़हो मधुकरेण विवर्जितेपि । तत्कान्ताः क्षितिभृत्तटीषु मणिभिर्नीलैः सुरम्यासहो कोकान्षट्पदमालिकाश्च कमलान्यालोकयन्त्यद्भुतम् ॥२९॥
स्वस्तनालकमुखप्रतिबिम्बालोकनात् । अथवा नीलमणिजनितान्धकारे दिन ज्ञानाय कोकसंयोगं घट्पदतद्विधप्रचार कमलविकासं च ॥काव्यमाला। उत्तार्य काञ्ची शयने विमुच्य यत्किंचिदाच्छादयितुं कयाचित् । ऊचे तदेवोषसि सालिवर्गं पदच्युतो हि क ह ते तुरङ्गः ॥३०॥
शब्दभयादुपरि सुरते चेयमुत्तारितेति ॥काचित्साश्रुमुखी वियोगविधुरा धृत्वा करे लेखनीं सर्वस्यां निशि कामलेखमखिलं शून्या लिखित्वा पुनः । कान्ते प्रेषयति स्म सोऽपि चतुरो निर्वर्णमालोक्य तं साकं दुःखमुदौ चकार सहसा पक्षित्वमाकाङ्क्षते ॥३१।॥
ईदृशीमवस्थां सा प्राप्तेति दुःखम् । मयि सुतरां प्रीतिं सा धत्त इति हर्ष । अन्यच्चान परे पदे भावः ॥ तत्कालयोग्याभरणा व्रजन्ती काचित्समीपे हृदयेश्वरस्य । विलोचने नाञ्जयति स्म तारं न चापि हारं हृदये न्यधत्त ॥३२॥
सती अन्तरभयात् । असती व्यभिचारप्रकटनभयात् । अथवा विशालयो- रक्ष्णोरञ्जनेन महती चेला स्यात् । हारः कामाग्निना दग्धो भविष्यतीति ॥ ईषदुल्लसितमिन्दुमण्डलं पश्य चूतनवपल्लवप्रभम् । अङ्गतां हरिदिगङ्गनामुखे भूषणत्वमुपयाति चाद्भुतम् ॥३३॥
ललाटत्वं तिलकत्वं च ॥पुष्पेषोरिषुभिर्विभिन्नहृदयः कान्तां मुहुश्चिन्तय- न्पान्थः कोऽपि निदाघभाखति नभोभागं गते मध्यमम् । श्रान्तोऽप्येष पिपासितोऽपि पयसे धावन्नपीतस्ततः शुष्कं वीक्ष्य सरश्चिराय महत्तीं धत्ते मुदं चेतसा ॥३४॥
अत्र सरोजाभावेन पुष्पेषोरिषुसंकोचाद्विरहिणः प्रमोदोदयः ॥ परिपाकसमयपाण्डोः परिणतपत्रालिपरिहृतार्करुचेः । त्वय्यनुरागातिशयादिक्षोः फलमीक्षते तन्वी ॥३५॥
फलितामिक्षुवाटीमुत्पाततया परिहरन्तीति संकेतभङ्गाय़ेत्य़सतीपक्षः सतीपक्षे तु तादृश्या वाटिकाया दाहस्यापि संभावितत्वेनेक्षुधन्वनो धनुरु- च्छेदो विरहिणीप्रीतिकृत् ॥
भावशतकम् ।
उदितः शनकैर्निशाधिनाथो वनितानां वदनानि वीक्षमाणः । शुचिमौक्तिकभूषणातिभीतो गणनायां निरतो नु तारकाणाम् ॥३६॥
मुखेन निर्जित्य बन्दीकृततारकाभ्रान्तिर्मौक्तिकेषु । आलोकयन्ती शशिपूर्णबिम्बमाशामुखे दैवतनायकस्य । संचिन्त्य किंचिन्मनसैव भीता धत्ते रतिं चम्पकमालिकासु ॥३७॥
चन्द्रोदये मुकुलितपद्मत्य़ागिनो मधुपा मन्मुखे पतिष्यन्तीति । किं मौग्ध्यादनुतप्यसे किमधिकं नेत्रे क्रुधेवाश्रुभि- व्य़ाप्नोषि त्यज वीक्षणं प्रतिदिशं प्रेम्णो हि नानागतिः । आलिं निन्दसि किं वृथा खपदयोरालक्तकं नेक्षसे सर्वत्रातिनिषिद्धमेव हृदयं किं भाषसे निष्ठुरम् ॥३८।॥
सुगमम् ।
पदे पदे भावाः ॥ कान्तः कान्तकरः परः प्रकृतिमप्य़ङ्गीकरोत्य़ेव य़- स्त्वञ्चित्तानुगया तया सरलया युक्ते पदे स्थापितः । सोऽयं संप्रति नाथ किं प्रणतिभिर्नीतस्त्वया नीचतां तेनायुक्तविधायिता हि भवतः स्पष्टैव दुष्टाशय ॥३९॥
तस्यास्तिलकरत्वल्ललाटं गतो मत्पदमानीत इति ॥ पश्यैनं पुरतः स्थितं प्रियतमं मान्याः सखीनां गिरः किं जातासि पराङ्मुखी मणिगृहे मुग्धेऽत्र को वा जनः । इत्यालीवचनेन कोपकलुषा काचिच्चिरं मानिनी दीर्घोष्णं निपुणा मुहुर्मुहुरसौ निःश्वासमेव व्यधात् ॥४०॥
प्रियप्रतिबिम्बाच्छादनायाग्न निःश्वासाः ॥ हारे संदर्शिते यूना कम्पयन्त्या शिरो मुहुः । प्रसारितः करेणोच्चैः कचभारो मृगीदृशा ॥४१॥
मन्मनस्त्वयि स्वच्छमिति तरुणेन ज्ञापिते तया मलिनमिति ज्ञापितम् ॥
काव्यमाला।
उद्यानवाटीषु कदापि बाले मा गास्त्वमेकैव यथा गतेऽह्नि । क्वचिवचित्कण्टकिनां तरूणां सङ्गेन दुःखी स्तनभार एषः ॥४२॥
उद्यानगमननिषेधव्याजेन पत्युः पुरः स्तननखाङ्कगोपनम् ॥ अक्ष्णोरञ्जनमोष्ठयोश्चरणयोस्ताम्बूललाक्षाकृतो रागः पत्रलता कपोलविषये देहे घनं चन्दनम् । आसां तिष्ठति सर्वदा मम पुनर्दृष्ट्वा कदाचित्क्षणं श्वश्रूः किं विदधे वृथैव दधते दुःखं सपत्न्यो यदि ॥४३॥
सपलीशृङ्गारवर्णनव्याजेन स्वसौभाग्यप्रकटनम् । अत्र पदे पदे भावाः ॥पीनोत्तुङ्गघनस्तनी ब्रज मुहुर्लीलागृहाभ्यन्तरं त्वामुद्वीक्ष्य चिराय हन्त कलिताशङ्कः शशाङ्कोऽधुना । एतच्चेतसि मंस्यते सकुतुकोत्प्रेक्षः किमासीदसौ वस्मीकादपि विस्मयी बहुगुणो वल्मीकजन्मा मुनिः ॥४४॥
चन्द्रदर्शनेऽपि त्वत्कुचचक्रवाकयुगमवियुक्तमिति रामशापस्यान्यथात्वेन वाल्मीकेर्निन्दा ॥ शृणु नागराज धृतखङ्गभीषणे भवति प्रगल्भरिपुखण्डनोद्यते । विचरत्तरङ्गशतशोभिताकृतिर्जलधिनितान्तमुपयाति संमदम् ॥४५॥
नवीनरुधिरनदीसंगमाशया ॥ देहे घनश्चन्दनचन्द्रलेपो बिम्बाधरे यावकरागयोगः । प्रातः कृतोऽयं चतुरे भवत्या तन्वङ्गि शोमां त्वयि का तनोति ॥४६॥
अवेलाशृङ्गारेण त्वया रतिचिह्नाच्छादनं कृतमिति द्योतयति । अथवा काकुवाक्यैरसंयोगादसौभाग्यं ख्यापयति ॥हारस्तार उदारमौक्तिकमयं सीमन्तसच्चित्रके वासश्चन्द्रसितं तनौ रुचिकरो लेपो घनश्चान्दनः ।
भावशतकम् ।
धम्मिल्ले सखि मल्लिकास्रगुचितैरेतैः सुधादीधिते- र्मन्ये खास्यजितस्य जेतुमधुना ज्योत्स्नामिमां वाञ्छसि ॥४७॥
चन्द्रोदये श्वेताभरणैरलक्षिता व्यभिचाराय गन्तुमीहस इति वर्णनव्या- जेन प्रकटयति ॥ब्रज दूति समर्प्यतां भवत्या नवताटङ्कयुगं करे तदीये । इदमेव निवेदयिष्यतीमां मदवस्थामलमत्र पत्रलेखैः ॥४८॥
कजलमिश्राश्रुकणिकाङ्कितत्वेन तस्य सवर्णतेति ॥ कृतानि शान्त्यै विरहव्यथायास्तया सखे कान्यपि भूषणानि । गुणान्वितानीति तदङ्गसङ्गादन्तःस्थितं सारमिवोद्गिरन्ति ॥४९॥
मृणालानि फेनिलाननानीति । श्रीरामचन्द्रे दशवक्रपुर्या मार्गाय वारांनिधिबद्धकोपे । आग्नेयमस्त्रं गुरु संदधाने मेनागिरीन्द्रौ चकितावभूताम् ॥५०॥
जलधिमध्यस्थितमेनाकाख्यपुत्रनाशभीत्या ॥ चन्द्रोदये जृम्भति कर्तुकामे किंचित्प्रिये प्रोद्धतजातकामे । विलोक्य किंचिन्मणिसौधभूमौ निक्षिप्य काचिद्वसनं ललज्जे ॥५१॥ चन्द्रप्रतिबिम्बाच्छादनेऽपि ज्योत्स्नायास्तादवस्थ्येन नग्नस्वाङ्गदर्शनात् ॥ उक्त कार्यमभून्नवेति किमिह प्रष्टव्यमेतत्त्वया हन्तानुक्तमपि प्रसाधितमहो कृत्यं खबुद्ध्यैव मे । तद्दूति त्वद्दतेअस्ति का मम सखीत्याख्यातमात्रैव सा सव्रीडा मुहुरम्बरं नयनयोरन्तेन किं वीक्षते ॥५२॥
यन्मदीयमम्बरं तेन नीतं तत्त्वया परिवृत्य पुनरानीतमिति ॥यस्मिन्सुस्फुटरश्मिपुञ्जविलसच्छीस्फाटिकग्रावमा- तुल्याच्छाम्भसि चित्तहारिणि सरोमध्ये न पङ्केरुहम् । काव्यमाला तत्राहं सलिलं पिबामि तरसेल्युवाँ भ्रमन्ती सुदृ- क्तादृग्भूतसरोवरं न लभते को वात्र हेतुर्वद ॥५३॥
सर्वत्र निजवदनप्रतिबिम्बावलोकमात् । आलिङ्ग प्रतिवाचमुद्गिर सुधाकण्ठि क भूयो वयः कोपं मुञ्च मयि प्रसीद सुभगे नैवं विधास्ये पुनः । पश्य श्वश्रु कथं वदत्ययमहो मानोन्नतां सारिका- मेवं मानयितुं शुको हि भवने दैवस्य चित्रा गतिः ॥५४॥
निशासमयोक्तं शुकाभ्यस्तं पतिवाक्यं ब्याजेनाच्छादयति ॥ सिक्तं चन्दनवारिमिः कमलिनीशय्यादलं कोमलं हस्तस्थस्य तया मृणालवलयस्यावेष्टितं तन्तुमिः । आलेख्यं त्विदमेव यद्दयितया दत्तं स्वहस्तेन मे लेखस्तिष्ठतु दूरतः किमधुनाप्याकर्ण्यते वाचिकम् ॥५५॥
विरहे सतीदृशस्थले स्वस्य निर्वाहाभावात् ॥ दृष्टोऽयं सरितां पतिः प्रियतम कास्ते स सेतुः क्व वा सेतुः केति मुहुर्मुहुः सकुतुकं पृष्टे परं विस्मिते । अत्रासीदयमत्र नास्ति किमिति व्यग्रे निजप्रेयसि व्यावृत्तास्यसुधानिधिः समभवन्मन्दस्मिता जानकी ॥५६॥
खमुखचन्द्रदर्शनक्षुब्धजलधिकल्लोलैराच्छादितस्य सेतोः प्रकटनाय मु- खन्यावृत्तिः ॥ घवल्य दशनश्रेणिं बिम्बोष्ठि न शोणता गताद्यापि । इति दर्शितमुकुराभिः सखीभिरायास्यते मुग्धा ॥५७॥
अधरसंनिधानजनितारुणतानपायिनीति । श्रीरामे मृगयाविनोदविपुलप्रीतिप्रभूतीभव- सखेदाम्बुकणावृतास्यकमले सद्मागते जानकी । भावशतकम् । उत्थायाशु ससंभ्रमं बहुतरां भक्तिं दधाना पुन- स्तत्पादं मणिकङ्कणोज्ज्वलकरा नैव स्पृशत्यद्भुतम् ॥५८॥
अहल्यावञ्चरणस्पर्शमात्रेण कङ्कणमणयोऽपि योषितो मा भूवरिति । गत्वोद्यानवनस्थलीं सुनयना प्रोद्यद्वसन्तागम- प्रोत्फुल्लाखिलचूतचम्पकमुखं मारुड्विशेषाकुलम् । आदायातिमनोज्ञमद्भुतरसं किंचित्फलं पाणिना तन्मध्यं च विलोक्य शङ्कितमना हस्तेऽकरोदर्पणम् ॥५९॥
दशनपङ्कौ दाडिमबीजोपमास्ति न वेति विलोकयितुम् ॥फूत्काराधिकभीषणास्यभुजगप्रत्याभूषावली- भाखद्वर्ष्मणि भुतकोटिघटितप्रौढस्तवैः संस्तुते । संध्याताण्डवकर्म खण्डपरशौ कर्तुं प्रवृत्ते सति प्रत्याशं प्रतिपर्वतं समभवन्मेधैर्विना वृष्टयः ॥६०॥
अमरिकासमये शिरःस्थितगङ्गाजलग्रसरात् ॥ निशाकरास्ये निशि कामतप्ता विधुतुदं निन्दसि किं वृथैव । दोषं न जानासि परं मुरारेः शिरोऽस्य कोपात्सखि येन कृत्तम् ॥६१॥
उदरासंभवे जरणाभावात् ॥धाराधीश महीमहेन्द्र भवता प्रख्य़ातवीरव्रतं सङ्ग्रामे निजवैरिवृन्दमसमं हन्तुं तपः कुर्वता हानिं यस्य विचार्य निर्जरगणः खिन्नस्तदेवाखिलं तुल्यं प्रेषयति स्म रक्षितुमहो यन्न त्वया रक्षितम् ॥६२॥
एतचिहताः सर्वे स्वर्गे समागन्तारः । ततश्च वद्वरणे सुराङ्गना यास्यन्ति चेति तपोभङ्गाय ता एव प्रेषिताः । निशाकरेणातिनिपीडिताङ्गी दिवाकरं कापि परं निनिन्द । तदन्तिके सिंहमवेक्षमाणा पुनः समाश्वासयति स्म चेतः ॥६३॥
अनुदयादथवा कलाक्षये चैतस्मादेव समुपजीवतीति ।
काव्यमाला । श्रीराम रामेति पदं मनोज्ञं वक्तुं मतिं हन्त विधाय कश्चित् । विचिन्त्य किंचित्पुनराशु चित्ते संदेहशाली स शनैर्व्यरंसीत् ॥६४॥
सुरतावसरे स्वेष्टदेवध्यानमयुक्तमिति रीतेरिति ॥श्रीराघवे दिग्विजयाय वेगाद्विनिर्गते चापभृतां पुरोगे । शून्यान्यभूवन्सुदृशां शिरांसि कासां च कासांचन वीक्षितानि ॥६५॥
रिपुस्त्रीणां देवाङ्गनानां च ॥
सङ्ग्रामं त्वयि देव कुर्वति सुरास्तत्कौतुकालोकिनः पश्यन्तस्तव विक्रम निजशिरःकम्पं न के चक्रिरे । लोकेशादिकपालकोटिकलितां मालां समुत्तारय-न्मीतश्चारुमतिर्व्य़लम्बत पुनः खण्डेन्दुमौलिः क्षणम् ॥६६॥
निजशिरःकम्पनेन सुधांशोः सुधाक्षरणान्मुण्डमाला सजीविता भवि- व्यतीति ॥समुद्धतानां दनुजेश्वराणां विमर्दने यस्य चकास्ति धैर्यम् । स श्रीपतिः किं निजनामधेयमुहूर्तपद्भयो नितरां बिभेति ॥६७ ॥
स्वर्लोकः सर्वोऽप्याक्रम्यत इति । संमानिता कापि रमा समाना कान्तेन साकं मदिरां पिबन्ती । बिम्बं सुधांशोः प्रतिबिम्बिताङ्गं नखेन काचिञ्चषके लिलेख ॥६८॥
यतोऽयं नखाङ्कितः स्वकान्तामानेन विरहव्यथां वेत्तीति ॥ पङ्केरुहाक्षी प्रियविप्रयोगे गन्तुं निशापारमपारयन्ती । उदातुमादाय करेण वीणामेणाङ्कमालोक्य शनैरहासीत् ॥६९॥
चन्द्रमृगोऽपि गीतप्रिय इति । खयि प्रवृत्ते मृगयाविनोदे नवाम्बुजाभेक्षण नागराज । मीतिर्न जाता हरिणाङ्गनानां प्रवर्धते स्म प्रकटः प्रमोदः ॥७०॥
कामभ्रान्त्या ॥
समुद्धृतोऽयं श्लोकः शाईधरपद्धती प्रहेलिकादिप्रकरणे. भावशतकम् ।
अलङ्कितास्मद्वचसा भवत्या निर्व्य़ूढमद्यैव पराङ्मुखत्वम् । कपोलयोग्या तव पत्रवल्ली पृष्ठे यदेतल्लिखिता प्रियेण ॥७१॥
लतालभ्ये त्वं नोपभुक्तेत्युपालम्भः ॥मायाप्रगल्भेषु विदारितेषु रक्षःसु रामस्य शरैः सुतीक्ष्णैः । अकाण्ड एवाद्भुतमेतदुच्चैर्वल्लीद्रुमाः पल्लविता बभूवुः ॥७२॥
गगनादापतितरुधिरबिन्दुसंपर्कात् ॥ यूनां नागरिका विधाय विपुलं मानग्रहं याः प्रिया- न्पादे पातयथ प्रियाणि वदतो दक्षालिभिः शिक्षिताः । ग्रामीणाः सरला वयं पुनरमूः कान्तैर्न विद्मः कचि- न्मानं कर्तुमिहालयोऽपि न तथा याः शिक्षयेयुश्च नः ॥७३॥
अन्न काकुवाक्यैः पदे पदे भावः ॥ श्रीरामचन्द्रे दशवक्रहानौ कृतोद्यमे ऋव्यभुजः सहस्राः । मित्राण्यमन्यन्त मृगं कपि च तपोधनं गाढतरं वनं च ॥७४॥
राक्षसवधे मांसबाहुल्यादिभिरुपकारः कृतः ॥दूरेऽन्योन्यकथाकुतूहलविधिर्मा॑तस्तया भीतया गच्छन्त्या गुरुसंनिधौ नयनयोरन्तेन नैवार्थितः । किं त्वाश्वासयितुं चलाचलमिदं चित्तं मदीयं शनैः स्नेहव्यग्रहृदा हि मौक्तिकमयो हारोऽयमुत्सूत्रितः ॥७५॥
भूमिपतितमौकिकग्रहणव्याजेन विलम्बः ॥ जाते त्वयि श्रीसख नागराज पूर्वं प्रहृष्टोऽभवदिक्षुधन्वा । आचारमालोक्य पुनस्त्वदीयं विषादमत्यन्तमवाप चित्ते ॥७६॥
द्वितीयोऽयं मे सहचर इति संतोषः । पुनस्त्वदीयशिवभक्ततया विषादः ॥ एकाकिनीं चित्तवतीं विहाय यियासुना मुग्धत्तथा विदेशम् । निजाशयं ज्ञापयितुं प्रियेण सारीषु चिक्रीड चरेण काचित् ॥७७॥
चरे सारीणामेकाकिनीनां मरणाच्चरक्रीडायां विलम्बहेतोः ॥
काव्यमाला।
शिरः समालोक्य शशाङ्कमौलेरावेष्टितं भीममुखैर्भुजंगैः । बिभेति पूर्वं मरुतामधीशो विचिन्त्य किंचिद्विजहाति भीतिम् ॥७८॥
सर्पदर्शनेन भयम्, चन्द्रसरणेन च भयापगमः ॥ त्वं मुग्धे न तु मन्दिरं पितुरुपानीतासि भर्तुर्गृहा- त्तत्काव्यं परिपूजयैनमपरैः किं तैर्ग्रहैः पूजितैः । एकोऽसावपराङ्मुखः फलति नैवेच्छानुकूलैः फलै- रित्येवं कथिते सखीभिरभवन्मन्दाक्षमन्दा वधूः ॥७९॥
संमुखे शुक्रे भर्तुर्गृहे गमनं न संभवति । व्यभिचारः सुलभश्चान्न ॥षण्मुखसेव्यस्य विभोः सर्वाङ्गेऽलंकृतित्वमापन्नाः । पन्नगपतयः सर्वे वीक्षन्ते गणपतिं भीताः ॥८०॥ स्कन्दवाहनमयूरदर्शनभीताः शुण्डादण्डप्रवेशाय ॥ विच्छायतां गच्छति पश्य मुग्धे मन्ये त्वदास्येन जितो मृगाङ्कः । हृदि स्थितापीति निगद्यमाना कान्तेन कान्ता पतति स्म चित्रम् ॥८१॥ रजन्या गतप्रायत्वात् ॥ अन्योन्यं भुजगवराः शंकरसर्वाङ्गभूषणीभूताः । पश्यन्तो वदनानि प्रायः कम्पं भजन्ति को हेतुः ॥८२॥
नीलं कण्ठं विलोक्य केनायं दंशापराधः कृत इति ॥ योऽयं भाति पयोधरस्तदुपरीत्याख्याय ऋज्वाशये बाले बाहुमुदस्य किं प्रियतमस्येन्दोः कला दश्यते । दुर्लक्ष्याः सखि दर्शिताः कति न वा वकेन्दुलेखास्त्वये-त्यालीजल्पितविस्मिता क्षणमथो सान्तःस्मितान्तर्हिता ॥८३॥
नखाङ्कितं पयोधरमयं पश्यतीति । संगत्य नेत्रसलिलैस्तव विप्रयोगे हारस्थितानि हृदयं हरिणायताक्ष्याः । भावशतकम् । a मुक्ताफलान्यपि दहन्ति हि नीचमार्गे सङ्गो जडैर्गुणिनमप्यहितीकरोति ॥८४॥
अतितापाचूर्णकलिकीभूतानामुपलानामुष्णजलसङ्गाद्बहुतापकारित्वम् । ईश्वरजटाप्रदेशे प्रोद्यत्कृतमालमालिकानिकरे । परिमलबहुलेऽप्यलयः किमिति मनोज्ञेऽपि नासते लुब्धाः ॥८५॥ चम्पककुसुमभ्रान्त्या । कंदर्पो योगजुषां भेत्तुं सर्वं समाधिमतिवेगात् । आकृष्य चापमधिकं नो मुञ्चति सायकं चित्रम् ॥८६॥
आत्मदाहबृत्तान्तं स्मृत्वा ॥त्वं पार्थादधिकोऽसि संप्रति धनुर्विद्याविदामग्रणीः प्रीत्या यद्वचनं करोषि नियतं कुर्या विशेषादिदम् । चन्द्रेणेह कलङ्किना मम मुखं गायन्ति तुल्यं ततो हत्वैनं प्रिय पातयास्य हरिणं प्रातः प्रयातासि यत् ॥८७॥
प्रातर्विदेशं प्रयातरि प्रियतमे सूर्योदयमनाकाङ्क्षमाणा मृगवधमादिशति । तद्वधेन रात्रेस्तथैवावस्थानात् । तद्वियोगादियं परासुर्भवित्री । त्वं तमेव यथाकालं पश्यसीति तत्समत्वात् ॥ सखीनिदेशानुचरः प्रियोऽयमुच्चखरा पञ्जरशारिका च । एतत्सपत्नीगृहमप्यदूरे कथं नु मानः सखि नैष मान्यः ॥८८॥
अन्नत्यं वृत्तान्तं शारिकामुखात्सपत्नी शृणोतीति परित्याज्यो मानः ॥ मजंश्चरमसमुद्रे मार्तण्डश्चण्डमात्मनस्तापम् । तस्यैव तटविभागे जन्तुविशेषेऽक्षिपत्सत्यम् ॥८९॥
चक्रवाके ॥
कामेषोरिव भल्लिका विरहिहृच्चिन्ताम्बुपूर्णार्णवे तापानामिव नौर्विघोरिव कला मानग्रहप्रन्थिहृत् ।
काव्यमाला।
कालस्य च्छुरिकेव हा तव करे संवर्तिका केतकी वैयोगी ककचद्वयीव सखि मे चित्तं परं कृन्तति ॥९०॥
अवधिभूतवर्षाकालशमनात् ॥स्मरमतसचिवं कलाविदग्धं भज सखि तं तरुणं शशाङ्ककान्तम् । इति गिरमधिगम्य दूतिकाया मुखमबला खकरेण सा पिधत्ते ॥९१।॥
आत्मनि पद्मिनीभावप्रकटनेन चन्द्रगुणान्विते तरुणे स्नेहराहित्यं प्रका. शयति ॥उद्याने स्मरसांपरायविवशामालिङ्गय गाढं प्रिया- मागच्छन्मदवारणेश्वरभयादन्यत्र नीत्वा युवा । बुद्ध्वा यां पुनरन्तरायमखिलं स्नेहादवादीद्रुतं श्रुत्वा सा निजजीवितेशविषये स्नेहच्छटामत्यजत् ॥९२॥
हस्तिदर्शनेनान्यासक्तत्वं द्योत्यत इति । अथवा पयोधरोरुगमनविजितकु-म्भस्थलकरगतिरात्मनि पराजयमाशङ्कय कुप्यति ॥ जनकतनयां हृत्वा रागागते दशकंधरे तदुरुबिरहज्वालाजालाकुलीकृतविग्रहः । रघुपरिवृढो नाधो नोर्ध्वं न तिर्यगवेक्षते मुकुलितदृगम्भोजद्वन्द्वः समाहितवस्थितः ॥९३॥
श्वश्रूस्त्रवंशजनपरिलब्जया ॥पतिव्रताहं प्रमदासु रूढा लोकापवादो नितरां गरीयान् । उल्लङ्घय शीतं बज वर्तमानमायाहि पूर्व प्रिय भाविशीतात् ॥९४॥
अधरस्फुटनपरिहारः॥
मलयाद्रिसमुद्भूते मन्दं वाति समीरणे । निनिन्द वानरान्काचित्कामिनी यामिनीमुखे ॥९५॥
मलयादिसमीरणेन विरहिणी दुःखं प्राप्नोति ॥भावशतकम् ।
सीताजानिरवादीदवनीमखिलां वहन्भुजाभोगे । पृथ्वीपतिरिति लोका मा ब्रूध्वं मामतः क्वापि ॥९६॥
पृथ्वी श्वश्रूरूपिणी, तत्पतित्वमयुक्तमिति ॥ अन्याङ्गनो........कृतोपपत्तिमशोकमालां बकुलस्रजं च । प्रियेण दत्तामधिकादरेण न मानिनी स्वीकुरुते कदापि ॥९७॥
सपत्नीचरणताडनगण्डूष... त्याशङ्किनी ॥ आसीत्कर्पटिगोत्रसागरसुधाधामा सुकामाद्भुतः श्रीविद्याधर इत्यशेषभुवनप्रख्यातनामामृतः । यः केदारपदारविन्दयुगलप्रत्यग्रपूजाविधि- प्राप्ताशेषपवित्रभव्यविभवैः सार्थीकृतार्थिश्रमः ॥९८॥
तत्पुत्रः सर्वमित्रं सरसकविकुलस्तूयमानोरुकीर्ति-।र्विख्यातो जालपाख्यो जगति विजयते टाकवंशप्रशस्यः । विष्णुदैत्येन्द्रयुद्धव्यतिकरसमये व्याकुलत्वास्वभार्यां लक्ष्मी निक्षिप्य यस्मिन्विहरति दिनशः स्वेच्छया स्वस्थचित्तः ॥९९॥
तस्माज्जातः सुजातो निजगुणमणिभिः प्रीणिताशेषलोकः कोकाहंकारहारिस्मितमहितमुखष्टाकवंशावतंसः । भाति श्रीनागराजो परनृपतिशिरोदर्शितोद्यत्प्रतापो राजेते यं समेते विगलितकलहे वाक्च पद्मालया च ॥१००॥
भारत्यां यदि पुंस्त्वमामरतरुव्राते विवेकोऽस्ति चे. त्साङ्गत्वं यदि मन्मथे सकलता नित्यं शशाङ्के यदि । सिंहे चेन्नरता जितारियशसो भावज्ञचूडामणे- स्तत्तत्सद्गुणतोपमानघटना स्यान्नागराजप्रभोः ॥१०१॥
काव्यमाला।
यत्तीक्ष्णाक्षतधारदुर्धरमहाकौक्षेयकाक्षेपण- क्षुभ्यक्ष्मापतिवल्लभोदरदरी निर्भिन्नगर्भायते । सोऽयं दुर्जयदोर्भुजंगजनितप्रौढप्रतापानल- ज्वालाजालखिलीकृतारिनगरः श्रीनागराजो जयी ॥१०२॥
इति श्रीनागराजकविप्रणीतं भावशतकं संपूर्णम् ।
N/A
References : N/A
Last Updated : March 18, 2021
TOP