नीतिशतकम्
देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.
N/Aदिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्त्तये।
स्वानुभूत्येकमानाय नम: शान्ताय तेजसे ॥१॥
यां चिन्तयामि सततं मयि सा विरक्ता साऽप्यन्यमिच्छति जनं स जनोऽन्यसक्त:।
अस्मत्कृते तु परिशुष्यति काचिदन्या धिक्ताञ्च तञ्चमदनञ्च इमाञ्च माञ्च ॥२॥
अज्ञ: सुखमाराध्य: सुखतरमाराध्यते विशेषज्ञ:।
ज्ञानलवदुर्विदग्धं ब्रह्माऽपि तं नरं न रञ्जयति ॥३॥
प्रसह्यमणिमुद्धरेन्मकरवक्त्रदंष्ट्रान्तरा-त्समुद्रमपिसन्तरेत्प्रचलदूर्मिमालाकुलम्।
भुजङ्गमपि कोपितं शिरसि पुष्पवद्धारये-न्न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥४॥
लभेत सिकतासुतैलमपि यत्नत: पीडयन् पिबेच्चमृगतृष्णिकासु सलिलं पिपासार्दित:।
कदाचिदपि पर्यटञ्छशविषाणमासादये-न्न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥५॥
व्यालं बालमृणालतन्तुभिरसौ रोद्धुं समुज्जृम्भते छेत्तुं वज्रमणिञ्छिरीषकुसुमप्रान्तेन संनह्यते।
माधुर्यंमधुबिन्दुनारचयितुं क्षाराम्बुधेरीहते नेतुं वाञ्छति य: खलान्पथिसतांसूक्तै: सुधास्यन्दिभि: ॥६॥
स्वायत्तमेकान्तगुणं विधात्रा विनिर्मितं छादनमज्ञताया:।
विशेषत: सर्वविदां समाजे विभूषणं मौनमपण्डितानाम् ॥७॥
यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्ध: समभवं तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मन:।
यदा किञ्चित्किञ्चिद्बुधजनसकाशादवगतं तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगत: ॥८॥
कृमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं निरुपमरसं प्रीत्या खादन्नरास्थि निरामिषम्।
सुरपतिमपि श्वा पार्श्वस्थं विलोक्य न शङ्कते न हि गणयति क्षुद्रो जन्तु: परिग्रहफल्गुताम् ॥९॥
शिर: शार्वं स्वर्गात्पशुपतिशिरस्त: क्षितिधरं महीध्रादुत्तुङ्गादवनिमवनेश्चापि जलधिम्।
अधोऽधो गङ्गेयं पदमुपगता स्तोकमथवा विवेकभ्रष्टानां भवति विनिपात: शतमुख: ॥१०॥
शक्यो वारयितुं जलेन हुतभुक्छत्रेण सूर्यातपो नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभौ।
व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषं सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥११॥
साहित्यसङ्गीतकलाविहीन: साक्षात्पशु: पुच्छविषाणहीन:।
तृणं न खादन्नपि जीवमान-स्तद्भागधेयं परमं पशूनाम् ॥१२॥
येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्म:।
ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति ॥१३॥
वरं पर्वतदुर्गेषु भ्रान्तं वनचरै: सह।
न मूर्खजनसम्पर्क: सुरेन्द्रभवनेष्वपि ॥१४॥
शास्त्रोपस्कृतशब्दसुन्दरगिर: शिष्यप्रदेयागमा विख्याता: कवयो वसन्ति विषये यस्य प्रभोर्निर्धना:।
तज्जाड्यं वसुधाधिपस्य कवयोऽप्यर्थं विनापीश्वरा: कुत्स्या: स्यु: कुपरीक्षका हि मणयो यैरर्घत: पातिता: ॥१५॥
हर्त्तुर्याति न गोचरं किमपि शं पुष्णाति यत्सर्वदा ह्यर्थिभ्य: प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धिं पराम्।
कल्पान्तेष्वऽपि न प्रयाति निधनं विद्याख्यमन्तर्धनं येषां तान्प्रति मानमुज्झत नृपा: कस्तै: सह स्पर्धते ॥१६॥
अधिगतपरमार्थान्पण्डितान्मावमंस्था-स्तृणमिव लघु लक्ष्मीर्नैव तान्संरुणद्धि।
अभिनवमदलेखाश्यामगण्डस्थलानां भवति न विसतन्तुर्वारणं वारणानाम् ॥१७॥
अपि च -अम्भोजिनीवननिवासविलासमेव हंसस्य हन्ति नितरां कुपितो विधाता।
न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थ: ॥१८॥
केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला
न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजा:।
वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते
क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥१९॥
विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं
विद्या भोगकरी यश:सुखकरी विद्या गुरूणां गुरु:।
विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं
विद्या राजसु पूजिता न तु धनं विद्या विहीन: पशु: ॥२०॥
क्षान्तिश्चेद्वचनेन किं किमरिभि: क्रोधोऽस्ति चेद्देहिनां
ज्ञातिश्चेदनलेन किं यदि सुहृद्दिव्यौषधै: किं फलम्।
किं सर्पैर्यदि दुर्जना: किमु धनैर्विद्याऽनवद्या यदि व्रीडा
चेत्किमु भूषणै: सुकविता यद्यस्ति राज्येन किम् ॥२१॥
दाक्षिण्यं स्वजने दया परजने शाठ्यं सदा दुर्जने
प्रीति: साधुजने नयो नृपजने विद्वज्जनेष्वार्जवम्
शौर्यं शत्रुजने क्षमा गुरुजने नारीजने धूर्तता
ये चैवं पुरुषा: कलासु कुशलास्तेष्वेव लोकस्थिति: ॥२२॥
जाड्यं धियो हरति सिञ्चति वाचि सत्यं मानोन्नतिं दिशति पापमपाकरोति।
चेत: प्रसादयति दिक्षु तनोति कीर्तिं सत्संगति: कथय किं न करोति पुंसाम् ॥२३॥
जयन्ति ते सुकृतिनो रससिद्धा: कवीश्वरा:।
नास्ति येषां यश:काये जरामरणजं भयम् ॥२४॥
सूनु: सच्चरित: सती प्रियतमा स्वामी प्रसादोन्मुख: स्निग्धं मित्रमवञ्चक: परिजनो निक्लेशलेशं मन:।
आकारो रुचिर: स्थिरश्च विभवो विद्यावदातं मुखं तुष्टे विष्टपहारिणीष्टदहरौ संप्राप्यते देहिना ॥२५॥
प्राणाघातान्निवृत्ति: परधनहरणे संयम: सत्यवाक्यं काले शक्त्या प्रदानं युवतिजनकथामूकभाव: परेषाम्।
तृष्णास्रोतोविभङ्गो गुरुषु च विनय: सर्वभूतानुकम्पा सामान्य: सर्वशास्त्रेष्वनुपहतविधि: श्रेयसामेष पन्था: ॥२६॥
प्रारभ्यते न खलु विघ्नभयेन नीचै: प्रारभ्य विघ्नविहता विरमन्ति मध्या:।
विघ्नै: पुन: पुनरपि प्रतिहन्यमाना: प्रारभ्यतुत्तमजना: न परित्यजन्ति ॥२७॥
असन्तो नाभ्यर्थ्या: सुहृदपि न याच्य: कृशधन: प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम्।
विपद्युच्चै: स्थेयं पदमनुविधेयं च महतां सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥२८॥
क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्राणोऽपि कष्टां दशा- मापन्नोऽपि विपन्नदीधितिरपि प्राणेषु नश्यत्स्वपि।
मत्तेभेन्द्रविभिन्नकुम्भकवलग्रासैकबद्धस्पृह:किं जीर्णं तृणमत्ति मानमहतामग्रेसर: केसरी ॥२९॥
स्वल्पं स्नायुवसावशेषमलिनं निर्मांसमप्यस्थि गो: श्वा लब्ध्वा परितोषमेति न तु तत्तस्य क्षुधाशान्तये।
सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं सर्व: कृच्छ्गतोऽपि वाञ्छति जन: सत्त्वानुरूपं फलम् ॥३०॥
लाङ्गूलचालनमधश्चरणावपातं भूमौ निपत्य वदनोदरदर्शनञ्च।
श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु धीरं विलोकयति चाटुशतैश्च भुङ्क्तै ॥३१॥
स जातो येन जातेन याति वंश: समुन्नतिम् ।
परिवर्तिनि संसारे मृत: को वा न जायते ॥३२॥
कुसुमस्तबकस्येव द्वयी वृत्तिर्मनस्विन:।
मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा ॥३३॥
सन्त्यन्येऽपि बृहस्पतिप्रभृतय: सम्भाविता: पञ्चषा-स्तान्प्रत्येषविशेषविक्रमरुची राहुर्न वैरायते।
द्वावेव ग्रसते दिनेश्वरनिशाप्राणेश्वरौ भास्करौ भ्रात:! पर्वणि पश्य दानवपति: शीर्षावशेषाकृति: ॥३४॥
वहति भुवनश्रेणि शेष: फणाफलकस्थितां कमठपतिना मध्ये पृष्ठं सदा स विधार्यते।
तमपि कुरुते क्रोडाधीनं पयोधिरनादरा-दहह महतां नि:सीमानश्चरित्रविभूतय: ॥३५॥
वरं पक्षच्छेद: समदमघवन्मुक्तकुलिश-प्रहारैरुद्गच्छद्बहलदहनोद्गारगुरुभि:।
तुषाराद्रे: सूनोरहह ! पितरि क्लेशविवशे न चासौ सम्पात: पयसि पयसां पत्युरुचित: ॥३६॥
यदचेतनोऽपि पादै: स्पृष्ट: प्रज्वलति सवितुरिनकान्त:।
तत्तेजस्वी पुरुष: परकृतनिकृतिं कथं सहते ॥३७॥
सिंह: शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु।
प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतु: ॥३८॥
जातिर्यातु रसातलं गुणगणस्तस्याऽप्यधो गच्छता-च्छीलं शैलतटात्पतत्वभिजन: संदह्यतां वह्निना।
शौर्ये वैरिणि वज्रमाशु निपतत्वर्थोऽस्तु न: केवलं येनैकेन विना गुणास्तृणलवप्राया: समस्ता इमे ॥३९॥
तानीन्द्रियाणि सकलानि तदेव कर्म सा बुद्धिरप्रतिहता वचनं तदेव।
अर्थोष्मणा विरहित: पुरुष: स एव त्वन्य: क्षणेन भवतीति विचित्रमेतत् ॥४०॥
अपि च - यस्यास्ति वित्तं स नर: कुलीन:, स पण्डित: स श्रुतवान् गुणज्ञ:।
स एव वक्ता स च दर्शनीय:सर्वे गुणा: काञ्चनमाश्रयन्ति ॥४१॥
दौर्मन्त्र्यान्नृपतिर्विनश्यति यति: सङ्गात्सुतो लालना- द्विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात्।
ह्रीर्मद्यादनवेक्षणादपि कृषि: स्नेह: प्रवासाश्रया- न्मैत्री चाप्रणयात्समृद्धिरनयात्त्यागात्प्रमादाद्धनम् ॥४२॥
दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥४३॥
मणि: शाणोल्लीढ: समरविजयी हेतिनिहतो मदक्षीणो नाग: शरदि सरित: श्यानपुलिना:।
कलाशेषश्चन्द्र: सुरतमृदिता बालललना स्तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु जना: ॥४४॥
परिक्षीण: कश्चित्स्पृहयति यवानां प्रसृतये स पश्चात्सम्पूर्णो गणयति धरित्रीं तृणसमाम्।
अतश्चानैकान्त्याद्गुरुलघुतयाऽर्थेषु धनिना- मवस्था वस्तूनि प्रथयति च सङ्कोचयति च ॥४५॥
राजन्! दुधुक्षसि यदि क्षितिधेनुमेतां तेनाद्य वत्समिव लोकममुं पुषाण।
तस्मिंश्च सम्यगनिशं परिपोष्यमाणे नानाफलै: फलति कल्पलतेव भूमि: ॥४६॥
सत्यानृता च परुषा प्रियवादिनी च हिंस्रा दयालुरपि चार्थपरा वदान्या।
नित्यव्यया प्रचुरनित्यधनागमा च वाराङ्गनेव नृपनीतिरनेकरूपा ॥४७॥
आज्ञा कीर्ति: पालनं ब्राह्मणानां दानं भोगो मित्रसंरक्षणञ्च।
येषामेते षड्गुणा न प्रवृत्ता: कोऽर्थस्तेषां पार्थिवोपाश्रयेण ॥४८॥
यद्धात्रा निजभालपट्टलिखितं स्तोकं महद्वा धनं तत्प्राप्नोति मरुस्थलेऽपि नितरां मेरौ ततो नाधिकम्।
तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथा: कूपे पश्य पयोनिधावपि घटो गृद्य्णाति तुल्यं जलम् ॥४९॥
त्वमेव चातकाधारोऽसीति केषां न गोचर:।
किमम्भोदवरास्माकं कार्पण्योक्तिं प्रतीक्षसे ॥५०॥
रे रे चातक ! सावधानमनसा मित्र ! क्षणं श्रूयता- मम्भोदा बहवो हि सन्ति गगने सर्वे तु नैतादृशा:।
केचिद्वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद्वृथा यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वच: ॥५१॥
अकरुणत्वमकारणविग्रह: परधने परयोषिति च स्पृहा।
स्वजनबन्धुजनेष्वसहिष्णुता प्रकृतिसिद्धमिदं हि दुरात्मनाम् ॥५२॥
दुर्जन: परिहर्त्तव्यो विद्ययाऽलङ्कृतोऽपि सन्।
मणिना भूषित: सर्प: किमसौ न भयङ्कर: ॥५३॥
जाड्यं ह्रीमति गण्यते व्रतरुचौ दम्भ: शुचौ कैतवं शूरे निर्घृणता ऋजौ विमतिता दैन्यं प्रियालापिनि।
तेजस्विन्यवलिप्तता मुखरिता वक्तर्यशक्ति: स्थिरे- तत्को नाम गुणो भवेत्स गुणिनां यो दुर्जनैर्नाड़्कित: ॥५४॥
लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकै:सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम्।
सौजन्यं यदि किं निजै: सुमहिमा यद्यस्ति किं मण्डनै: सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥५५॥
शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाकृते:।
प्रभुर्धनपरायण: सततदुर्गत: सज्जनो नृपाङ्गनगत: खलो मनसि सप्त शल्यानि मे ॥५६॥
न कश्चिच्चण्डकोपानामात्मीयो नाम भूभुजाम्।
होतारमपि जुह्वानं स्पृष्टो दहति पावक: ॥५७॥
मौनान्मूक: प्रवचनपटुर्वातुलो जल्पको वा धृष्ट: पार्श्वे वसति च तदा दूरतश्चाप्रगल्भ:।
क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजात: सेवाधर्म: परमगहनो योगिनामप्यगम्य: ॥५८॥
उद्भासिताऽखिलखलस्य विश्रृङ्खलस्य प्राग्जातविस्तृतनिजाधमकर्मवृत्ते:।
दैवादवाप्तविभवस्य गुणद्विषोऽस्य नीचस्य गोचरगतै: सुखमाप्यते कै: ॥५९॥
आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्जनानाम् ॥६०॥
मृगमीनसज्जनानां तृणजलसंतोषविहितवृत्तीनाम्।
लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति ॥६१॥
वाञ्छा सज्जनसङ्गमे परगुणे प्रीर्तिगुरौ नम्रता विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादाद्भयम्।
भक्ति: शूलिनि शक्तिरात्मदमने संसर्गमुक्ति: खले येष्वेते निवसन्ति निर्मलगुणास्तेभ्यो नरेभ्यो नम: ॥६२॥
विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रम:।
यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ॥६३॥
प्रदानं प्रच्छन्नं गृहमुपगते संभ्रमविधि: प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृते:।
अनुत्सेको लक्ष्म्यां निरभिभवसारा: परकथा: सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥६४॥
करे श्लाघ्यस्त्याग: शिरसि गुरुपादप्रणयिता मुखे सत्या वाणी विजयि भुजयोर्वीर्यमतुलम्।
हृदि स्वच्छा वृत्ति: श्रुतमधिगतैकव्रतफलं विनाऽप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम् ॥६५॥
संपत्सु महतां चित्तं भवत्युत्पलकोमलम्।
आपत्सु च महाशैलशिलासंघातकर्कशम् ॥६६॥
संतप्तायसि संस्थितस्य पयसो नामाऽपि न ज्ञायते मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते।
स्वात्यां सागरशुक्तिमध्यपतितं तन्मौक्तिकं जायते प्रायेणाधममध्यमोत्तमगुण: संसर्गतो जायते ॥६७॥
य: प्रीणयेत्सुचरितै: पितरं स पुत्रो यद्भर्तुरेव हितमिच्छति तत्कलत्रम्।
तन्मित्रमापदि सुखे च समक्रियं य- देतत्त्रयं जगति पुण्यकृतो लभन्ते ॥६८॥
एको देव: केशवो वा शिवो वा ह्येकं मित्रं भूपतिर्वा यतिर्वा।
एको वास: पत्तने वा वने वा ह्येका भार्या सुन्दरी वा दरी वा ॥६९॥
नम्रत्वेनोन्नमन्त: परगुणकथनै: स्वान्गुणान्ख्यापयन्त: स्वार्थान्सम्पादयन्तो विततपृथुतरारम्भयत्ना: परार्थे।
क्षान्त्यैवाऽऽक्षेपरूक्षाक्षरमुखरमुखान् दुर्मुखान्दूषयन्त: सन्त: साश्चर्यचर्या जगति बहुमता: कस्य नाभ्यर्चनीया: ॥७०॥
भवन्ति नम्रास्तरव: फलोद्गमै: नवाम्बुभिर्भूमिविलम्बिनो घना:।
अनुद्धता: सत्पुरुषा: समृद्धिभि: स्वभाव एवैष परोपकारिणाम् ॥७१॥
श्रोत्रं श्रुतेनैव न कुण्डलेन दानेन पाणिर्न तु कङ्कणेन।
विभाति काय: करुणापराणां परोपकारैर्न तु चन्दनेन ॥७२॥
पापान्निवारयति योजयते हिताय गुह्यञ्च गूहति गुणान्प्रकटीकरोति।
आपद्गतञ्च न जहाति ददाति काले सन्मित्रलक्षणमिदं प्रवदन्ति सन्त: ॥७३॥
पद्माकरं दिनकरो विकचीकरोति चन्द्रो विकासयति कैरवचक्रवालम्।
नाभ्यर्थितो जलधरोऽपि जलं ददाति सन्त: स्वयं परहिताभिहिताभियोगा: ॥७४॥
एते सत्पुरुषा: परार्थघटका: स्वार्थं परित्यज्य ये सामान्यास्तु परार्थमुद्यमभृत: स्वार्थाऽविरोधेन ये।
तेऽमी मानुषराक्षसा: परहितं स्वार्थाय निघ्नन्ति ये ये निघ्नन्ति निरर्थकं परहितं ते के न जानीमहे ॥७५॥
क्षीरेणात्मगतोदकाय हि गुणा दत्ता: पुरा तेऽखिला: क्षीरे तापमवेक्ष्य तेन पयसा स्वात्मा कृशानौ हुत:।
गन्तुं पावकमुन्मनस्तदभवद्दृष्ट्वा तु मित्रापदं युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदृशी ॥७६॥
इत: स्वपिति केशव: कुलमितस्तदीयद्विषा-मितश्च शरणार्थिनां शिखरिणां गणा: शेरते।
इतोऽपि वडवानल: सह समस्तसंवर्त्तकै-रहो विततमूर्जितं भरसहञ्च सिन्धोर्वपु: ॥७७॥
तृष्णां छिन्धि भज क्षमां जहि मदं पापे रतिं मा कृथा: सत्यं ब्रूह्यनुयाहि साधुपदवीं सेवस्व विद्वज्जनान्।
मान्यान्मानय विद्विषोऽप्यनुनय प्रख्यापय स्वान्गुणान्-कीर्तिं पालय दु:खिते कुरु दयामेतत्सतां लक्षणम् ॥७८॥
मनसि वचसि काये पुण्यपीयूषपूर्णा- स्त्रिभुवनमुपकारश्रेणिभि: प्रीणयन्त:।
परगुणपरमाणून्पर्वतीकृत्य नित्यं निजहृदि विकसन्त: सन्ति सन्त: कियन्त: ॥७९॥
किं तेन हेमगिरिणा रजताद्रिणा वा यत्राश्रिताश्च तरवस्तरवस्त एव।
मन्यामहे मलयमेव यदाश्रयेण कङ्कोलनिम्बकुटजा अपि चन्दना: स्यु: ॥८०॥
रत्नैर्महार्हैस्तुतुषुर्न देवा न भेजिरे भीमविषेण भीतिम्।
सुधां विना न प्रययुर्विरामं न निश्चितार्थाद्विरमन्ति धीरा: ॥८१॥
क्वचिद्भूमौ शय्या क्वचिदपि च पर्यङ्कशयनं क्वचिच्छाकाहारी क्वचिदपि च शाल्योदनरुचि:।
क्वचित्कन्थाधारी क्वचिदपि च दिव्याम्बरधरो- मनस्वी कार्यार्थी न गणयति दु:खं न च सुखम् ॥८२॥
ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो ज्ञानस्योपशम: श्रुतस्य विनयो वित्तस्य पात्रे व्यय:।
अक्रोघस्तपस: क्षमा प्रभवितुर्धर्मस्य निर्व्याजता सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ॥८३॥
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मी: समाविशतु गच्छतु वा यथेष्टम्।
अद्यैव वा मरणमस्तु युगान्तरे वा न्यायात्पथ: प्रविचलन्ति पदं न धीरा: ॥८४॥
भग्नाशस्य करण्डपीडिततनोर्म्लानेन्द्रियस्य क्षुधा कृत्वाऽऽखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिन:।
तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यात: पथा लोका: पश्यत दैवमेव हि नृणां वृद्धौ क्षये कारणम् ॥८५॥
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपु:।
नास्त्युद्यमसमो बन्धु: कुर्वाणो नावसीदति ॥८६॥
छिन्नोऽपि रोहति तरु: क्षीणोऽप्युपचीयते पुनश्चन्द्र:।
इति विमृशन्त: सन्त: संतप्यन्ते न ते विपदा ॥८७॥
नेता यस्य बृहस्पति: प्रहरणं वज्रं सुरा: सैनिका: स्वर्गो दुर्गमनुग्रह: किल हरेरैरावतो वारण:।
इत्यैश्वर्यबलान्वितोऽपि बलभिद्भग्न: परै: सङ्गरे तद्युक्तं ननु दैवमेव शरणं धिग्धिग्वृथा पौरुषम् ॥८८॥
कर्मायत्तं फलं पुंसां बुद्धि: कर्मानुसारिणी।
तथाऽपि सुधिया भाव्यं सुविचार्यैव कुर्वता ॥८९॥
खल्वाटो दिवसेश्वरस्य किरणै: संतापितो मस्तके वाञ्छन्देशमनातपं विधिवशात्तालस्य मूलं गत:।
तत्राऽप्यस्य महाफलेन पतता भग्नं सशब्दं शिर: प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापद: ॥९०॥
गजभुजङ्गमयोरपि बन्धनं शशिदिवाकरयोर्ग्रहपीडनम्।
मतिमताञ्च विलोक्य दरिद्रतां विधिरहो ! बलवानिति मे मति: ॥९१॥
सृजति तावदशेषगुणाकरं पुरुषरत्नमलङ्करणं भुव:।
तदपि तत्क्षणभङ्गि करोति चे- दहह ! कष्टमपण्डितता विधे: ॥९२॥
पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किं-नोलूकोऽप्यवलोकते यदि दिवा सूर्यस्य किं दूषणम्।
धारा नैव पतन्ति चातकमुखे मेघस्य किं दूषणं यत्पूर्वं विधिना ललाटलिखितं तन्मार्जितुं क: क्षम: ॥९३॥
नमस्यामो देवान्ननु हतविधेस्तेऽपि वशगा विधिर्वन्द्य: सोऽपि प्रतिनियतकर्मैकफलद:।
फलं कर्मायत्तं किममरगणै: किञ्च विधिना नमस्तत्कर्मभ्यो विधिरपि न येभ्य: प्रभवति ॥९४॥
अपि च - ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे विष्णुर्येन दशावतारगहने क्षिप्तो महासंकटे।
रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारित: सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नम: कर्मणे ॥९५॥
नैवाकृति: फलति नैव कुलं न शीलं विद्यापि नैव न च यत्नकृताऽपि सेवा।
भाग्यानि पूर्वतपसा खलु सञ्चितानि काले फलन्ति पुरुषस्य यथैव वृक्षा: ॥९६॥
वने रणे शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा।
सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुरा कृतानि ॥९७॥
या साधूंश्च खलान्करोति विदुषो मूर्खान्हितान्द्वेषिण: प्रत्यक्षं कुरुते परोक्षममृतं हालाहलं तत्क्षणात्।
तामाराधय सत्क्रियां भगवतीं भोक्तुं फलं वाञ्छितं हे साधो ! व्यसनैर्गुणेषु विपुलेष्वास्थां वृथा माकृथा: ॥९८॥
गुणवदगुणवद्वा कुर्वता कार्यमादौ परिणतिरवधार्या यत्नत: पण्डितेन।
अतिरभसकृतानां कर्मणामाविपत्ते-र्भवति हृदयदाही शल्यतुल्यो विपाक: ॥९९॥
स्थाल्यां वैदूर्यमय्यां पचति तिलकणांश्चन्दनैरिन्धनाद्यै: सौवर्णैर्लाङ्गलाग्रैर्विलिखति वसुधामर्कमूलस्य हेतो:।
कृत्वा कर्पूरखण्डान्वृतिमिह कुरुते कोद्रवाणां समन्ता- त्प्राप्येमां कर्मभूमिं न चरति मनुजो यस्तपो मन्दभाग्य: ॥१००॥
मज्जत्वम्भसि यातु मेरुशिखरं शत्रूञ्जयत्वाहवे वाणिज्यं कृषिसेवनादिसकला विद्या: कला: शिक्षताम्।
आकाशं विपुलं प्रयातु खगवत्कृत्वा प्रयत्नं महा- न्नाभाव्यं भवतीह कर्मवशतो भाव्यस्य नाश: कुत: ॥१०१॥
भीमं वनं भवति तस्य पुरं प्रधानं सर्वे जना: सुजनतामुपयान्ति तस्य।
कृत्स्ना च भूर्भवति सन्निधिरत्नपूर्णा यस्यास्ति पूर्वसुकृतं विपुलं नरस्य ॥१०२॥
को लाभो गुणिसङ्गम: किमसुखं प्राज्ञेतरै: सङ्गति: का हानि: समयच्युतिर्निपुणता का धर्मतत्त्वे रति:।
क: शूरो विजितेन्द्रिय: प्रियतमा काऽनुव्रता किं धनं विद्या किं सुखमप्रवासगमनं राज्यं किमाज्ञाफलम् ॥१०३॥
मालतीकुसुमस्येव द्वे गतीह मनस्विन:।
मूर्ध्नि सर्वस्य लोकस्य शीर्यते वन एव वा ॥१०४॥
अप्रियवचनदरिद्रै: प्रियवचनाढ्यै: स्वदारपरितुष्टै:।
परपरिवादनिवृत्तै: क्वचित्क्वचिन्मण्डिता वसुधा ॥१०५॥
कदर्थितस्यापि हि धैर्यवृत्तेर्न शक्यते धैर्यगुणा: प्रमार्ष्टुम्।
अधोमुखस्यापि कृतस्य वह्नेर्नाध: शिखा याति कदाचिदेव ॥१०६॥
कान्ताकटाक्षविशखा न लुनन्ति यस्य चित्तं न निर्दहति कोपकृशानुताप:।
कर्षन्ति भूरिविषयाश्च न लोभपाशै- र्लोकत्रयं जयति कृत्स्नमिदं स धीर: ॥१०७॥
एकेनापि हि शूरेण पादाक्रान्तं महीतलम्।
क्रियते भास्करेणेव स्फारस्फुरिततेजसा॥१०८॥
वह्निस्तस्य जलायते जलनिधि: कुल्यायते तत्क्षणा-न्मेरु: स्वल्पशिलायते मृगपति: सद्य: कुरङ्गायते।
व्यालो माल्यगुणायते विषरस: पीयूषवर्षायते यस्याङ्गेऽखिललोकवल्लभतमं शीलं समुन्मीलति ॥१०९॥
लज्जागुणौघजननीं जननीमिव स्वा-मत्यन्तशुद्धहृदयामनुवर्त्तमानाम्।
तेजस्विन: सुखमसूनपि संत्यजन्ति सत्यव्रतव्यसनिनो न पुन: प्रतिज्ञाम् ॥११०॥
सम्बद्धसम्पर्कतन्तुः
N/A
References : N/A
Last Updated : March 18, 2021
TOP