संस्कृत सूची|संस्कृत स्तोत्र साहित्य|स्तोत्रः| भक्तिस्तोत्रम् स्तोत्रः कृतस्तोत्रादिसंग्रह: श्रीशिवस्तोत्रावली जगज्जन्महेतुं दयापूर्णसिन... प्रयाग: संगम: ख्यत: काशिक... दयाशतकं श्रीधर स्तुतिमणिमाला अमरूशतकम् श्रीअङ्गारकाष्टोत्तरशतनामस्तोत्रम् भल्लटशतकम् नागराजकृत भावशतकम् नीतिशतकम् योगशतकम् ककारादिकालीशतनामस्तोत्रम् निर्वाणमञ्जरी भक्तिस्तोत्रम् ॐ प्रत्यक्प्रवणधीवृत्त्या... अद्वैतरसमञ्जरी अद्वैतमकरन्दः भक्तिस्तोत्रम् देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God. Tags : godgoddessstotraदेवतादेवीसंस्कृतस्तोत्र भक्तिस्तोत्रम् Translation - भाषांतर प्रत्यक्षवस्तुविषयाय जगद्धितायविश्वस्थितिप्रलयसम्भवकारणाय ।सर्वात्मने विजितकोपमनोभवायतुभ्यं नमस्त्रिभुवनप्रभवे शिवाय ॥१॥सत्यं न वेद्मि किमहं यदगोचरोऽसिवाचस्पतेरपि गिरां किमुतास्मदादेः ।भक्तिस्तथापि भवतो गुणकीर्तनेषुयन्मां नियोजयति किं तदहं करोमि ॥२॥रवार्केन्दुवह्निमरुदात्ममहीपयोधि-रष्टाभिरेव तनुभिर्भवता समस्ते ।व्याप्ते जगत्यपरमिच्छति योऽत्र वक्तुंकोऽन्यो हतत्रपतया सदृशोऽस्ति तेन ॥३॥धृत्यादिभिः स्वतनुवृत्तिभिरेव यद्वद्एको भवान् वहति संप्रति लोकमात्राम् ।तद्वद् विभो यदि जगत्यपरोऽस्ति कश्चि-न्निर्मत्सराः किमिति न प्रवदन्ति सन्तः ॥४॥योगादपास्ततमसो भुवनत्रयेऽपिमुख्या पितामहपुरन्दरविष्णवोऽपि ।अद्यापि देव न विदन्ति कृतप्रयत्ना-स्तत्वं तवेति तदहो महदिन्द्रजालम् ॥५॥भावोद्भवस्थितिविपत्करणप्रवृत्तौसंज्ञा विभिन्नरचनास्त्वयि सम्भवन्ति ।साम्ये स्थितः प्रतिनिवृत्तसमस्तकार्योनेन्द्रो न विष्णुरसि नापि पितामहोऽसि ॥६॥केचिद् भवन्तमनुपाधिमनामरूपंविज्ञानमेव परमार्थतया प्रपन्नाः ।अन्ये त्रिधातुपरिकल्पनया विशुद्ध-मूचुः स्वशास्त्रसमयं परिपालयन्तः ॥७॥साङ्ख्यैः समस्तजगदुद्भवकारणानिप्रोक्तानि यानि खलु सत्त्वरजस्तमांसि ।रूपाणि तान्यपि तवैव समग्रशक्तेःकिं तन्न यत् परिगतं भुवि शक्तिभिस्ते ॥८॥नित्यं विनाशि यदरूपमनेकमेक-मुग्रं प्रशान्तमगुणं गुणसन्निविष्टम् ।संसारिणं वशिनमध्रुवमस्वतन्त्रंदेवं भवन्तमसकृत् कवयः स्तुवन्ति ॥९॥वाचामतीतविषयो निरुपाख्यभावात्प्रोक्तोऽसि शून्यमिति कैश्चिदसत्प्रतिज्ञैः ।त्वामेव केचिदपि वाचकवाच्ययोगात्सन्तं विशेषणवशात् परिकल्पयन्ति ॥१०॥आद्यन्तयोस्त्रिभुवनस्य भवन्तमेवयं वैदिकाः पुरुषमाहुरभेद्यमाद्यम् ।भयस्तमेव जननप्रलयान्तरालेसंसारजालमिति जातविकारमूचुः ॥११॥आत्मानमात्मनि यदा स्वयमात्मनैवसंयम्य तिष्ठसि निमीलितसर्वशक्ते!।लीनं तदा त्वयि जगत् खलु तावदास्तेयावत् तवोद्भवति नाथ पुनः सिसृक्षा ॥१२॥त्वत्तः परं जगति नाथ न चास्ति किञ्चि-न्नाणुः क्वचिन्न च महान् भवतः सकाशात् ।सर्वात्मकोऽसि भवतैव समस्तमेत-दन्तः कृतं ननु जगन्मणिनेव सूत्रम् ॥१३॥चेतांसि यानि सुखदुःखविशेषभाञ्जिये च प्रधानपरिणामविकारभेदाः ।त्वं देव जन्मनि पुनः प्रलये च तेषांहेतुः समस्तपयसामिव तोयराशिः ॥१४॥अस्तास्त्वया सुरगुरो! स्वतनौ यदैवस्वात्मानलानिलजलावनिचन्द्रसूर्याः ।लोकेऽपरस्य भवता ननु कारणस्यमूले तदैव निहितः सकले कुठारः ॥१५॥स्तौति प्रसह्य तव षोडशधा विभज्यमूर्तिं प्रमाणरचनो मुनिरक्षपादः ।द्रव्यादिवस्तुरचनाभिरुपात्तभेदै-र्वैशेषिके कणभुजाऽपि ननु स्तुतोऽसि ॥१६॥बध्नाति काचिदपि शक्तिरनन्तशक्तेःक्षेत्रज्ञमप्रतिहता तव पाशजालैः ।ज्ञानासिना च विनिकृत्य गुणानशेषा-नन्या करोत्यभिमुखं पुरुषं विमुक्तौ ॥१७॥एकां बत च्युतसमस्तभवप्रवृत्ति-माहुर्विमुक्तिमिति शान्ततमामवस्थाम् ।स्थित्युद्भवप्रलयिनीमपरामवस्थांसंसारिणीमिति वदन्ति तवैव सन्तः ॥१८॥अज्ञानतीव्रतिमिरोपहतप्रकाशा-स्त्वद्दूषणं प्रति विनष्टधियोऽपि सन्तः ।तावत् त्यजन्ति न भवं भगवन्स्त्वयैवयावत् स्वशक्तिविभवैर्न विबोधिताः स्युः ॥१९॥गुह्यं गुहाश्रयमजं परमं पवित्र-मेकं विभुं सकलवाङ्मयबीजमाद्यम् ।सम्यक्प्रयुक्तमभिवाञ्छितहेतुभूत-माहुर्भवन्तमपरे ननु शब्दतत्वम् ॥२०॥तीर्थक्रियाव्यसनिनः स्वमनीषिकाभि-रुत्प्रेक्ष्य तत्त्वमिति यद्यदमी वदन्ति ।तत्तत् त्वमेव भवतोऽस्ति न किञ्चिदन्यत्संज्ञासु केवलमयं विदुषां विवादः ॥२१॥सर्वज्ञबीजमविकारमलुप्तशक्तिंनिश्रेयसाभ्युदयमार्गविधानहेतुम् ।त्वामेव देव! गुरवः प्रथमेऽपि सम्य-गाराध्य तीर्थकरभा महिमानमापुः ॥२२॥सर्वज्ञता यदपि लक्षणया परस्यमुख्या तथापि भवतः परमेश्वरत्वात् ।स्वातन्त्र्यमप्यनुपचारमुपैति योगंत्वय्येव नाथ जगतः खलु कर्तृभावात् ॥२३॥दृश्येत कश्चिदधिगच्छति वस्तुजात-मन्योऽनुमानसमयैरपरोऽपि शब्दैः ।प्रत्यक्षवत्तु भवतः पुनरक्रमेणसर्वं करामलकवद्विदितं प्रमेयम् ॥२४॥अस्यात्मनो विषयिणः परतन्त्रवृत्ते-रस्याश्च नाथ जगतः प्रकृते परायाः ।संयोजने च विरतौ च परोऽसि हेतुःसंसारचक्रपरिवर्तनयन्त्रवाहः ॥२५॥कुर्वन् मुहुः स्वयमतन्द्रितयाऽपि बुद्ध्याकर्माणि शास्त्रसमयोपनिबन्धनानि ।संयुज्यते समुचितेन तु यत्फलेनतच्चेष्टितस्य फलमप्रतिमं तवैव ॥२६॥उत्साहशक्तिरहितान् विकलानपुण्यान्मन्दान् निरस्तसमयानघृणानसत्यान् ।आवाञ्छितेन विनियोजयता फलेनलुप्तस्त्वया पुरुषकारविशेषवादः ॥२७॥कर्माणि वेदविहितानि सुखप्रदानिप्रेत्यैति तत्फलमिदं फलमन्तवच्च ।त्वच्छासने सुखमनन्तमशेषदोष-प्लोषाय भक्तिविहितां प्रणतिं यदाहुः ॥२८॥प्राकाम्यमात्मनि यदा प्रकटीकरोषिव्यक्तीः प्रतिक्षणमनेकविद्या दधानः ।त्वय्येव सोऽपि भगवन्! भजतेऽर्थवत्तांप्रायो विदग्धरचितः क्षणभङ्गवादः ॥२९॥यत्तीर्थिकैर्जगति जन्मभिरप्रमेयै-र्नासाद्यते पदमिति स्वमतेषु गीतम् ।बुद्ध्येकजन्मिकमिति ब्रुवतां विगृह्यतेषां त्वया ननु कृतश्चरणः शिरस्सु ॥३०॥लुब्धा मलीमसधियः समयादपेतारागोपरक्तमनसो वशिनोऽप्यसन्तः ।त्वच्छासने विहितलिङ्गपरिग्रहेणमुच्यन्त इत्यतिमहांस्तव सिंहनादः ॥३१॥अव्याहतस्य भगवन्! भवदागमस्यचिन्तामणेरिव महानसमः प्रभावः ।सम्यग् विधानविहितां यदवाप्य दीक्षांज्ञानादृतेऽपि खलु केवलतामुपैति ॥३२॥ज्ञानं तिरस्कृतमिदं पशुवासनाभि-रास्तां यदात्मनि विमुक्तिफलस्य बीजम् ।तद्वारिणेव भगवन्! भवदागमेनसम्पादितं भवति मोक्षफलप्रसूत्यै ॥३३॥जन्तौ यदा तव कदाचिदनुग्रहेच्छाक्षीणाशये भवति जन्मभिरप्रमेयैः ।संसारजालमतिवाह्य तदैव शान्ति-मात्यन्तिकीं व्रजति बोधविवर्जितोऽपि ॥३४॥एतच्चतुर्दशविधं भुवनं समस्तंसंसारमण्डलमवान्तरभेदभिन्नम् ।त्वं पासि हंसि विदधासि यदृच्छयेतिमत्वा न लिप्यत इति प्रवदन्ति सन्तः ॥३५॥ऐश्वर्यमप्रतिहतं सहजो विराग-स्तृप्तिर्निसर्गजनिता वशितेन्द्रियेषु ।आत्यन्तिकं सुखमनावरणा च शक्ति-र्ज्ञानं च सर्वविषयं भगवन्स्तवैव ॥३६॥यत्नादुपात्ततपसोऽपि हि यद् दुराप-मात्यन्तिकं सुखमपास्तसमस्तदुःखम् ।नीताः खरोष्ट्रतरवोऽपि यदित्यहो तेस्वातन्त्र्यमप्रतिहतं भुवनत्रयेऽपि ॥३७॥येनामलस्फुरितरत्नशिखावितानोहेमीकृतो निपतता सकलः सुमेरुः ।तस्यातुलं फलमिदं तव शुक्रविन्दो-रेकस्य यत्कनकभूषणमाप लोकः ॥३८॥कालेन सञ्चितमपुण्यमनन्तकल्पंलोकत्रयस्य यदभूत् त्रिपुरप्रकारम् ।दग्धं त्वया तदिति सम्यगवेत्य कस्यमूढादृते भवति न त्वयि पक्षपातः ॥३९॥क्षीरोदसारमथनप्रतिलब्धजन्मवित्रासितत्रिदशसंहतिकालकूटम् ।निर्मत्सरेण पिबता जगतो हितायपीतस्त्वयैव सकलो ननु साधुवादः ॥४०॥शान्तात्मनाऽपि भगवन्! भवता प्रसह्यनेत्रोद्भवेन दहता दहनेन कामम् ।अल्पीयसोऽपि महतां समतिक्रमस्यमन्ये जनाय विषमः कथितो विपाकः ॥४१॥स्नेहाद् विधाय दयितां वपुषोऽर्धभागेधुर्यस्तथापि भगवन्! शमिनां त्वमेव ।त्रैलोक्यविस्मयकृतां तव चेष्टिताना-मद्यापि कश्चिदपि नानुकृतिं करोति ॥४२॥उच्चैस्तिरस्कृतमिदं भुवनं समस्तंयोगप्रभावजनितेन बलेन येन ।तस्य प्रजापतिसुतस्य हृतः प्रसह्यगर्वस्त्वयेति बत कस्य न विस्मयोऽत्र ॥४३॥अङ्गुष्ठकेन भवता विनिपीडितस्ययस्यासवो न विगताः सहसा कथञ्चित् ।यत्नात् स एव हरिणा विजितश्चिरेणनीत्या दशानन इति क्व नु विस्मयोऽयम् ॥४४॥मन्दाकिनीकनकपङ्कजपारिजात-पुष्पाधिवासितजला नभसः पतन्ती ।लग्ना तुषारकणिकेव जटाग्रभागेकेनापरेण भवतेव धृताऽनुगृह्य ॥४५॥आस्तां तवान्यदपि तावदतुल्यकक्ष्य-मैश्वर्यमीश्वरपदस्य निमित्तभूतम् ।त्वच्छेफसोऽपि भगवन्! न गतोऽवसानंविष्णुः पितामहयुतः किमुतापरस्य ॥४६॥श्वेतस्य मृत्युदशनान्तरवर्तिनोऽपिसूनापशोरिव वधावसरे स्थितस्य ।प्राणान् निगृह्य भवता यदकारि तस्यतत्कस्य विस्मयमलं न करोति लोके ॥४७॥प्रीतेन यद्वदुपमन्युरपास्तमन्युःक्षीरोदसंविभजनेन कृतस्त्वयाऽसौ ।तद्वद्विभो! यदि जगत्यपरोऽस्ति कश्चि-न्निर्मुच्य मत्सरममी प्रवदन्तु सन्तः ॥४८॥वृत्रद्विषः सकुलिशस्य भुजस्य शक्ति-रुत्तम्भिता विहसता भवता यथैव ।पूष्णस्तथैव दशनेषु भगस्य चाक्ष्णो-र्दक्षस्य च क्रतुफले ममता निरस्ता ॥४९॥विष्णुप्रजापतिपुरन्दरलोकपालै-स्तिर्यक्सुरासुरनरैरपरैश्च दिव्यैः ।लोके यथा पशुपते! तव कल्पितानिस्थानानि तद्वदपरस्य वदन्तु कस्य ॥५०॥शक्रात्मजस्य निजशार्ङ्गरथाङ्गपाणौकृष्णे स्थितेऽपि शकलीकृतदानवेन्द्रे ।द्रोणापगेयकृपकर्णभयार्दितस्यशं शङ्कर त्वमकृथा भृशमर्जुनस्य ॥५१॥आराधितेन भगवन्! भवता हिरण्य-वृष्टिं मरुत्तनृपतेः किरता यियक्षोः ।ये ख्यापिता जगति भक्तजनप्रसादा-स्तन्नाद्भुतं तव विभो! परमेश्वरत्वम् ॥५२॥तीव्रव्रतस्य कणधूमनिपानतप्त-सर्वेन्द्रियस्य भवता भृगुनन्दनस्य ।तुष्टेन शर्म यदकारि तदा स शुक्रःशीतोष्णवातजलदैर्दिवि भासमानः ॥५३॥एतानि पासि भुवनानि यदा विगृह्यसेयं विभूतिरतुला तव तावदास्ताम् ।दक्षप्रसूतिमपि ते भुवनत्रयेऽपिकश्चिन्न वेत्ति भवता सह को विवादः ॥५४॥उन्मार्गवर्ति गुण दोषविवेकमन्द-मुग्रं मलीमसमसंयतमल्पसारम् ।भीतार्तिनाशन दयापर लोकनाथदेव प्रसीद मम चित्तमिदं प्रशाधि ॥५५॥एतानि नाथ! चपलानि दुराशयानिलुब्धानि रम्यविषयोपनिबन्धनानि ।दुर्दान्तवाजिसदृशान्यविधेभावाद्वश्यानि मे कुरु सदैव षडिन्द्रियाणि ॥५६॥नन्दीश्वरस्य मनुजस्य सतोऽतिकष्टंकालेन मृत्युमचिरेण निनीषितस्य ।सर्वात्मनाऽऽत्मसमता यदकारि तुष्ट्यानाश्चर्यमेतदभवन्न च भावि नास्ति ॥५७॥संसारपाशवशमेतदनीशमीश!मिथ्याकुतर्कतिमिरोपहतप्रकाशम् ।चेतो मम क्षपितमन्मथ! दग्धकाल !सत्सेविते पथि नियोजय देवदेव! ॥५८॥कायानुबन्धिभिरनेकविधैरपायैरागादिभिश्च मनसि प्रतिलब्धभावैः ।मूढः पृथक् पृथगहं प्रविलुप्यमान-स्त्वत्तः परं कथय कं शरणं व्रजामि ॥५९॥आयासकेन खलु कामपिशाचकेनक्रोधग्रहेण च पुनर्निरवग्रहेण ।ग्रस्तस्य विक्लवधियः प्रविमुक्तिहेतो-र्यत्कृत्यमत्र मम तत्र तवैव शक्तिः ॥६०॥या सा जगत्परिभवस्य निमित्तभूताहेतुः स्वयं सुरपतेरपि लाघवस्य ।सा मां विडम्बयति नाथ! सदैव तृष्णांभिन्धि प्रसह्य भगवन्नपुनर्भवाय ॥६१॥येनावृतः पशुरयं हृतबोधशक्ति-स्तत्त्वं न वेत्ति जगते हितमात्मने वा ।छिन्धि प्रसह्य भगवन्! मम तत्समस्त-मज्ञानजं तिमिरमस्तु महान् प्रकाशः ॥६२॥सर्वापदां निलयमध्रुवमस्वतन्त्र-मासन्नपातमविवेकमसारमज्ञम् ।यावच्छरीरकमिदं न विपद्यते मेतावन्नियोजय विभो! कुशलक्रियासु ॥६३॥यत् खिद्यते कमलयोनिरपि स्तुवानःसाक्षाच्चतुर्भिरपि नाम मुखैर्भवन्तम् ।तत् के वयं तव गुणस्तवनक्रियासुभक्तिः प्रमाणमिति सर्वमिदं क्षमस्व ॥६४॥कृत्वा मया तव नुतिं जगदेकबन्धो!भक्त्या स्वबुद्धिसदृशीमवधूतनाम्ना ।पुण्यं यदल्पमपि किञ्चिदुपात्तमत्रलोकस्य तेन भगवन्स्त्वयि भक्तिरस्तु ॥इति श्रीमदवधूतसिद्धविरचितं भक्तिस्तोत्रं समाप्तम् । N/A References : N/A Last Updated : January 07, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP