संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|मृगेन्द्रतन्त्रम्| तन्त्र ४ मृगेन्द्रतन्त्रम् महत्व तन्त्र १ तन्त्र २ तन्त्र ३ तन्त्र ४ मृगेन्द्रतन्त्रम् - तन्त्र ४ मृगेन्द्रतन्त्रम् ग्रंथात भगवान शंकराची पूजा आणि त्यांच्या ज्ञानाबद्दल, खासकरून भरद्वाज ऋषींच्या दृष्टिकोणातून सांगितलेले आहे, जे ज्ञान इंद्राकडून प्राप्त झाले होते. Tags : mrigendra tantrasanskrittantraतन्त्रमृगेन्द्र तन्त्रसंस्कृत तन्त्र ४ Translation - भाषांतर ईषदप्राप्तयोगत्वान्नियोज्याः परमेष्ठिनः ॥४॥ सर्वज्ञत्वादियोगेऽपि नियोज्यत्वं मलांशतः । परस्परं विशिष्यन्ते मन्त्राश्चैवमधः स्थिताः ॥५॥ ते च मन्त्रेश्वरव्यक्त- शिवशक्तिप्रचोदिताः । कुर्वन्त्यनुग्रहं पुंसां यदा येषां स युज्यते ॥६॥ प्रयोक्तृदेहसापेक्षं तदर्धमखिलेऽध्वनि । कृत्वाधिकारं स्थित्यन्ते शिवं विशति सेश्वरम् ॥७॥ विनाधिकरणेनान्यत्प्रधानविकृतेरधः । कृत्वाधिकारमीशेष्टमपैति स्वाध्वसंहृतौ ॥८॥ ततोऽनन्ताद्यभिव्यक्तः पतीनां ग्रन्थितत्त्वतः । कलाद्यारब्धदेहानां करोत्यष्टादशं शतम् ॥९॥ तानप्याविश्य भगवान् साञ्जनान् भुवनाधिपान् । येभ्यः सर्वमिदं येषां शक्तिः कर्मनिबन्धना ॥१०॥ प्रणेतॄण्पशुशास्त्राणां पशूंस्तदनुवर्तकान् । स्वसाध्यकारकोपेतान् कालधामावधिस्थितान् ॥११॥ स्थितौ सकारकानेतान् समाक्रम्य स्वतेजसा । युनक्ति स्वार्थसिद्ध्यर्थं भूतैरनभिलक्षितः ॥१२॥ भोगसाधनमाक्षिप्य कृत्वा कारणसंश्रयम् । तच्च सात्मकमाक्रम्य विश्रमायावतिष्ठते ॥१३॥ भविनां भवखिन्नानां सर्वभूतहितो यतः । स्वापावसानमासाद्य पुनः प्राग्वत्प्रवर्तते ॥१४॥ स्वापेऽप्यास्ते बोधयन्बोधयोग्यान् रोध्यान्रुन्धन्पाचयन् कर्मिकर्म । मायाशक्तीर्व्यक्तियोग्याः प्रकुर्वन् पश्यन्सर्वं यद्यथा वस्तुजातम् ॥१५॥ N/A References : N/A Last Updated : November 15, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP