मृगेन्द्र तन्त्र - तन्त्र ३

मृगेन्द्रतन्त्रम् ग्रंथात भगवान शंकराची पूजा आणि त्यांच्या ज्ञानाबद्दल, खासकरून भरद्वाज ऋषींच्या दृष्टिकोणातून सांगितलेले आहे, जे ज्ञान इंद्राकडून प्राप्त झाले होते. 

अथोपलभ्य देहादि वस्तु कार्यत्वधर्मकम् । कर्तारमस्य जानीमो विशिष्टमनुमानतः ॥१॥ वैशिष्ट्यं कार्यवैशिष्ट्याद्दृष्टं लोकस्थितावपि । ठिस्लस्थल्-लिने अप्पेअर्सस्पर्तो थे चोम्मेन्तर्य्(एद्प्.१०४, लिनेस्४--५) बुतित्प्रोबब्ल्य्बेलोन्ग्स्तो थे तेतन्दिसॄउओतेदस्पर्तो इत् इन् ट्रिलोचनऽस्षिद्धान्तार्थसमुच्चय (ईড়् ंष्ट्.२०६, प्.६२ अन्द्ट्.२८४, प्.१३३). यद्यथा यादृशं यावत्कार्यं तत्कारणं तथा । नित्यं कालानवच्छेदाद्द्वैतत्यान्न प्रदेशगम् ॥२॥ क्रमाक्रमसमुत्पत्तेः क्रमाद्युत्पत्तिशक्तिमत् । तस्यास्ति करणं येन दृष्टा नाकरणा कृतिः ॥३॥ अनागामि च तज्ज्ञेयं कार्यस्यानादिसंस्थितेः । करणं च न शक्त्यन्यच्छक्तिर्नाचेतना चितः ॥४॥ विषयानियमादेकं बोधे कृत्ये च तत्तथा । कार्यं न स्थितिजन्मादि बीजस्य प्रकृतेरणोः ॥५॥ पारिशेष्यान्महेशस्य मुक्तस्य शिव एव सः । सम्बन्धाग्रहणे बाधा मानस्याभ्येति कस्यचित् ॥६॥ सा परस्यापि धूमोऽन्यो गिरौ माहानसाद्यतः । लोके वपुष्मतो दृष्टं कृत्यं सोऽप्यस्मदादिवत् ॥७॥ मूलाद्यसम्भवाच्छाक्तं वपुर्नो तादृशं प्रभोः । तद्वपुः पञ्चभिर्मन्त्रैः पञ्चकृत्योपयोगिभिः ॥८॥ ईशतत्पुरुषाघोर- वामाजैर्मस्तकादिकम् । ईष्टे येन जगत्सर्वं गुणेनोपरिवर्तिना ॥९॥ स मूर्धसमदेशत्वान्मूर्धा नावयवस्तनोः । तस्य तस्य तनुर्या पूस्तस्यामुषति येन सः ॥१०॥ तत्त्राणाद्व्यञ्जनाच्चापि स तत्पुरुषवक्त्रकः । हृदयं बोधपर्यायः सोऽस्याघोरः शिवो यतः ॥११॥ परिग्रहस्य घोरत्वाद्घोरोक्तिरुपचारतः । वामस्त्रिवर्गवामत्वाद्रहस्यश्च स्वभावतः । वामं धाम परं गुह्यं यस्यासौ वामगुह्यकः ॥१२॥ सद्योऽणूनां मूर्तयः सम्भवन्ति यस्येच्छातस्तेन सद्योऽभिधानः । सद्यो मूर्तीर्योगिनां वा विधत्ते सद्योमूर्तिः कृत्यशैघ्र्यान्न मूर्तेः ॥१३॥ इत्थं शक्तिः कुर्वती देहकृत्यं देहाभावादुच्यते देहशब्दैः । तस्या भेदा येऽपि वामादयः स्युस्तेऽपि प्रोक्ताः कृत्यभेदेन सद्भिः ॥१४॥

N/A

References : N/A
Last Updated : November 15, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP