संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|मृगेन्द्रतन्त्रम्| तन्त्र १ मृगेन्द्रतन्त्रम् महत्व तन्त्र १ तन्त्र २ तन्त्र ३ तन्त्र ४ मृगेन्द्रतन्त्रम् - तन्त्र १ मृगेन्द्रतन्त्रम् ग्रंथात भगवान शंकराची पूजा आणि त्यांच्या ज्ञानाबद्दल, खासकरून भरद्वाज ऋषींच्या दृष्टिकोणातून सांगितलेले आहे, जे ज्ञान इंद्राकडून प्राप्त झाले होते. Tags : mrigendra tantrasanskrittantraतन्त्रमृगेन्द्र तन्त्रसंस्कृत तन्त्र १ Translation - भाषांतर परमेशं नमस्कृत्य भरद्वाजमृषिं ततः । हरादिन्द्रक्रमायातं ज्ञानं शृणुत सुव्रताः ॥१॥ नारायणाश्रमे पुण्ये भरद्वाजादयो द्विजाः । तेपुः शिवं प्रतिष्ठाप्य तदेकाहितमानसाः ॥२॥ अथ तान्भावितान्मत्वा कदाचित्त्रिदशाधिपः । तदाश्रमपदं भेजे स्वयं तापसवेषभृत् ॥३॥ स तैः संपूजितः पृष्ट्वा तांश्च सर्वाननामयम् । प्रोवाच चोदनाधर्मः किमर्थं नानुवर्त्यते ॥४॥ त ऊचुर्नन्वयं धर्मश्चोदनाविहितो मुने । देवताराधनोपायस्तपसाभीष्टसिद्धये ॥५॥ वेदेऽस्ति संहिता रौद्री वाच्या रुद्रश्च देवता । सान्निध्यकरणेऽप्यस्मिन् विहितः काल्पिको विधिः ॥६॥ इत्युक्तेऽपि परं भावं जिज्ञासुः प्रहसन्प्रभुः । तानाह मिथ्या ज्ञानं वः शब्दमात्रं हि देवता ॥७॥ शब्देतरत्वे युगपद्- भिन्नदेशेषु यष्टृषु । न सा प्रयाति सांनिध्यं मूर्तत्वदस्मदादिवत् ॥८॥ न च तत्साधकं किंचित्प्रमाणं भात्यबाधितम् । वाक्यं तदन्यथासिद्धं लोकवादाः क्व साधवः ॥९॥ इत्यनीशवचोवारि- वेलानुन्नोऽब्धिनेव सः । शक्रेण न चचालैषां धीशैलः सारगौरवात् ॥१०॥ न जातु देवतामूर्तिरस्मदादिशरीरवत् । विशिष्टैश्वर्यसम्पन्ना सातो नैतन्निदर्शनम् ॥११॥ अथास्त्वेवं घटे न्यायः शब्दत्वादिन्द्रशब्दवत् । नादत्ते घटशब्दोऽम्भश्चन्द्रशब्दो न राजते ॥१२॥ अथान्यविषयं वाक्यमस्तु शक्रादिवाचकम् । कर्मरूपादिशब्दानां सार्थकत्वं कथं भवेत् ॥१३॥ प्रवादोऽप्यखिलो मिथ्या समूलत्वान्न युक्तिमत् । न चेदमूलं भूतानां हताः सर्वाः प्रवृत्तयः ॥१४॥ उपमन्युर्हरं दृष्ट्वा विमन्युरभवन्मुनिः । कथं तस्य वचो मिथ्या यस्य वश्यः पयोनिधिः ॥१५॥ क्रोडीकृतोऽहिपाशेन विषज्वालावलीमुचा । हुङ्कृत्य मोचितः पत्या दृष्टः श्वेतो धनैर्जनैः ॥१६॥ इति वादानुषङ्गेण हरशंसाप्रहर्षितान् । साश्रुगद्गदवाचस्तान् वीक्ष्य प्रीतोऽभवद्धरिः ॥१७॥ स्वं रूपं दर्शयामास वज्री देवः शतक्रतुः । तरुणादित्यसंकाशं स्तूयमानं मरुद्गणैः ॥१८॥ ते तमृग्भिर्यजुर्भिश्च सामभिश्चास्तुवन्नताः । सोऽब्रवीदुच्यतां कामो जगत्सु प्रवरोऽपि यः ॥१९॥ ते वव्रिरे शिवज्ञानं श्रूयतामिति सोऽब्रवीत् । किंत्वेकोऽस्तु मम प्रष्टा निखिलश्रोतृसम्मतः ॥२०॥ अथ तेषां भरद्वाजो भगवानग्रणीरभूत् । वाग्मी प्रगल्भः पप्रच्छ न्यायतः सुरपूजितम् ॥२१॥ कथं महेश्वरादेतदागतं ज्ञानमुत्तमम् । किं च चेतसि संस्थाप्य निर्ममे भगवानिदम् ॥२२॥ सृष्टिकाले महेशानः पुरुषार्थप्रसिद्धये । विधत्ते विमलं ज्ञानं पञ्चस्रोतोऽभिलक्षितम् ॥२३॥ तद्वर्तिवाचकव्रात- वाच्यानष्टौ महेश्वरान् । सप्तकोटिप्रसंख्यातान्मन्त्रांश्च परमेऽध्वनि ॥२४॥ अष्टादशाधिकं चान्यच्छ्रुतं मायाधिकारिणाम् । मन्त्रेश्वराणामूर्ध्वाध्व- स्थितेशोपमतेजसाम् ॥२५॥ तेषु व्यक्तः स भगवानिदं योग्येषु सिद्धये । प्रकाशयत्यतोऽन्येषु योऽर्थः समुपपद्यते ॥२६॥ शिवोद्गीर्णमिदं ज्ञानं मन्त्रमन्त्रेश्वरेश्वरैः । कामदत्वात्कामिकेति प्रगीतं बहुविस्तरम् ॥२७॥ तेभ्योऽवगत्य दृग्ज्योतिर्ज्वालालीढस्मरद्रुमः । ददावुमापतिर्मह्यं सहस्रैर्भवसंमितैः ॥२८॥ तत्रापि विस्तरं हित्वा सूत्रैः सारार्थवाचकैः । वक्ष्ये निराकुलं ज्ञानं तदुक्तैरेव भूयसा ॥२९॥ N/A References : N/A Last Updated : November 15, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP