मृगेन्द्रतन्त्रम् - तन्त्र २

मृगेन्द्रतन्त्रम् ग्रंथात भगवान शंकराची पूजा आणि त्यांच्या ज्ञानाबद्दल, खासकरून भरद्वाज ऋषींच्या दृष्टिकोणातून सांगितलेले आहे, जे ज्ञान इंद्राकडून प्राप्त झाले होते. 

अथानादिमलापेतः सर्वकृत्सर्वविच्छिवः । पूर्वव्यत्यासितस्याणोः पाशजालमपोहति ॥१॥ त्रिपदार्थं चतुष्पादं महातन्त्रं जगत्पतिः । सूत्रेणैकेन संहृत्य प्राह विस्तरशः पुनः ॥२॥ जगज्जन्मस्थितिध्वंस- तिरोभावविमुक्तयः । कृत्यं सकारकफलं ज्ञेयमस्यैतदेव हि ॥३॥ तेन स्वभावसिद्धेन भवितव्यं जगत्कृता । अर्वाक्सिद्धेऽनवस्था स्यान्मोक्षो निर्हेतुकोऽपि वा ॥४॥ चैतन्यं दृक्क्रियारूपं तदस्त्यात्मनि सर्वदा । सर्वतश्च यतो मुक्तौ श्रूयते सर्वतोमुखम् ॥५॥ सदप्यभासमानत्वात्तन्निरुद्धं प्रतीयते । वश्योऽनावृतवीर्यस्य सोऽत एवाविमोक्षणात् ॥६॥ प्रावृतीशबले कर्म मायाकार्यं चतुर्विधम् । पाशजालं समासेन धर्मा नाम्नैव कीर्तिताः ॥७॥ इति वस्तुत्रयस्यास्य प्राक्पादकृतसंस्थितेः । चर्यायोगक्रियापादैर्विनियोगोऽभिधास्यते ॥८॥ विनियोगफलं मुक्तिर्भुक्तिरप्यनुषङ्गतः । परापरविभागेन भिद्येते ते त्वनेकधा ॥९॥ वेदानसांख्यसदसत्- पादार्थिकमतादिषु । ससाधना मुक्तिरस्ति को विशेषः शिवागमे ॥१०॥ प्रणेत्रसर्वदर्शित्वान्न स्फुटो वस्तुसंग्रहः । उपायाः सफलास्तद्वच्छैवे सर्वमिदं परम् ॥११॥ वेदान्तेष्वेक एवात्मा चिदचिद्व्यक्तिलक्षितः । प्रतिज्ञामात्रमेवेदं निश्चयः किंनिबन्धनः ॥१२॥ अथ प्रमाणं तत्रात्मा प्रमेयत्वं प्रपद्यते । यत्रैतदुभयं तत्र चतुष्टयमपि स्थितम् ॥१३॥ अद्वैतहानिरेवं स्यान्निष्प्रमाणकतान्यथा । भोगसाम्याविमोक्षौ च यौ नेष्टावात्मवादिभिः ॥१४॥ सांख्यज्ञानेऽपि मिथ्यात्वं कार्ये कारणबुद्धितः । अकर्तृभावाद्भोक्तुश्च स्वातन्त्र्यादप्यचित्त्वतः ॥१५॥ इह सप्त पदार्थाः स्युर्जीवाजीवास्त्रवास्त्रयः । संवरो निर्जरश्चैव बन्धमोक्षावुभावपि ॥१६॥ स्याद्वादलाञ्छिताश्चैते सर्वेऽनैकान्तिकत्वतः । तदेव सत्तदेवासदिति केन प्रमीयते ॥१७॥ सदन्यदसदन्यच्च तदेवं सिद्धसाध्यता । असज्जघन्यं सच्छ्रेष्ठमित्यपि ब्रुवते बुधाः ॥१८॥ नैकत्र तदपेक्षातः स्थितमेवोभयं ततः । अथ चेत्सदसद्भावः सदायुक्ततरो मतः ॥१९॥ तत्कर्मसंकरभयादव्यापित्वं च ते जगुः । सामान्येतरसम्बन्ध- ज्ञानाभावादचेतसः ॥२०॥ यः प्रागव्यापकः सोऽन्ते कथमन्यादृशो भवेत् । स विकासादिधर्मा चेत्ततो दोषपरम्परा ॥२१॥ षट्पदार्थपरिज्ञानान्मिथ्याज्ञानं निवर्तते । रागद्वेषौ ममत्वं च तद्विशेषगुणास्ततः ॥२२॥ क्रमशो विनिवर्तन्ते देहसंयोगजा यतः । सा मुक्तिर्जडतारूपा ततो मुक्तः शवो न किम् ॥२३॥ चिद्व्यञ्जकस्य कर्मादेः क्षणिकत्वान्मुहुर्मुहुः । व्यज्यते जायमानैव क्षणिकेति मता परैः ॥२४॥ तदसत्कर्मणो भोगादतीतानुभवस्मृतेः । स्थितिर्निरन्वये नाशे न स्मृतेर्नापि कर्मणः ॥२५॥ विनाशलक्षणोऽपैति न मुक्तावप्युपप्लवः । न चास्त्यनुभवः कश्चिद्भवावस्था वरं ततः ॥२६॥ इत्याद्यज्ञानमूढाणां मतमाश्रित्यदुर्धियः । अपवर्गमभीप्सन्ति खद्योतात्पावकार्थिनः ॥२७॥ यत्कैवल्यं पुंस्प्रकृत्योर्विवेकाद्यो वा सर्वं ब्रह्म मत्वा विरामः । या वा काश्चिन्मुक्तयः पाशजन्यास्तास्ताः सर्वा भेदमायान्ति सृष्टौ ॥२८॥ शैवे सिद्धो भाति मूर्ध्नीतरेषां मुक्तः सृष्टौ पुनरभ्येति नाधः । विश्वानर्थान्स्वेन विष्टभ्य धाम्ना सर्वेशानानीशितः सर्वदास्ते ॥२९॥

N/A

References : N/A
Last Updated : November 15, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP