अर्बुदखण्डम् - अध्याय ४८
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ पुलस्त्य उवाच ॥
कुलसंतारणं गच्छेत्तत्र तीर्थमनुत्तमम्॥
यत्र स्नातो नरः सम्यक्कुलं तारयतेऽखिलम्॥ १॥
दश पूर्वान्भविष्यांश्च तथात्मानं नृपोत्तम॥
उद्धरेच्छ्रद्धयायुक्तस्तत्र दानेन मानवः ॥२॥
आसीदप्रस्तुतो नाम राजा पूर्वं स पापकृत्॥
नापि दानं तथा ज्ञानं न ध्यानं न च सत्क्रिया ॥३॥
तस्मिञ्छासति लोकानां नासीत्सौख्यं कदाचन॥
परदार रुचिर्नित्यं महादण्डपरश्च सः ॥४॥
न्यायतोऽन्यायतो वापि करोति धनसंग्रहम्॥
स घातयति लोकांश्च निर्दोषान्पापकृत्तमः ॥५॥
ततो वार्धक्यमापन्नस्तथापि न शमं गतः॥
कस्यचित्त्वथ कालस्य पितृभिः प्रतिबोधितः॥
तं प्रसुप्तं समासाद्य नारकेयैः सुदुःखितैः ॥६॥
॥ पितर ऊचुः ॥
वयं शुद्धसमाचारा नित्यं धर्मपरायणाः॥
दानयज्ञतपःशीलाः स्वदारनिरतास्तथा ॥७॥
स्वकर्मभिः कुलांगार दिवं प्राप्ता यथार्हतः॥
कुपुत्रं त्वां समासाद्य नरकं समुपस्थिताः॥
तस्मादुद्धर नः सर्वान्कृत्वा किंचिच्छुभार्चनम् ॥८॥
कर्मभिस्तव पापात्मन्वयं नरकमाश्रिताः॥
नरकं दश यास्यंति भविष्याश्च तथा भवान् ॥९॥
एवमुक्त्वा च ते सर्वे पितरस्तु सुदुःखिताः॥
याताश्च नरकं भूयः प्रबुद्धः सोऽपि पार्थिवः ॥१०॥
ततो दुःखमनुप्राप्तः पितृवाक्यानि संस्मरन्॥
रुरोद प्रातरुत्थाय तं भार्या प्रत्यभाषत ॥११॥
॥ इन्दुमत्युवाच ॥
किमर्थं राजशार्दूल त्वं रोदिषि महास्वनम्॥
कथं ते कुशलं राज्ये शरीरे वा पुरेऽथवा ॥१२ ॥
॥ राजोवाच ॥
मया दृष्टोऽद्य स्वप्नांते पिता ह्यथ पितामहः॥
अपश्यं दुःखितान्देवि ताभ्यामथाग्रजान्पितॄन् ॥१३॥
उपालब्धोऽस्मि तैः सर्वैस्तव कर्मभिरीदृशैः॥
दारुणे नरके प्राप्ता अधर्मादिविचेष्टितैः ॥१४॥
अथान्ये दश यास्यन्ति भविष्याश्च भवानपि॥
तस्मात्कृत्वा शुभं कर्म दुर्गतेश्चोद्धरस्व नः ॥१५॥
एवमुक्तः प्रबुद्धोऽहं पितृभिर्वरवर्णिनि॥
तेनाहं दुःखमापन्नस्तद्वाक्यं हृदि संस्मरन् ॥१६ ॥
॥ इन्दुमत्युवाच ॥
सत्यमेतन्महाराज यदुक्तोऽसि पितामहैः॥
न त्वया सुकृतं कर्म संस्मरेऽहं कृतं पुरा ॥१७॥
यथा सुपुत्रमासाद्य तरंति पितरो नृप॥
कुपुत्रेण तथा यांति नरकं नात्र संशयः ॥१८॥
स त्वमाहूय विप्रेंद्रान्धर्मशास्त्रविचक्षणान्॥
पृष्ट्वा तान्कुरु यच्छ्रेयः पितॄणामात्मना सह ॥१९॥
आनयामास राजाऽसौ ततो विप्राननेकशः॥
वेदवेदांगतत्त्वज्ञान्धर्मशास्त्रविचक्षणान्॥
उवाच विनयोपेतो भार्यया सहितो हितान्॥ २०॥
॥ राजोवाच ॥
कर्मणा केन पितरो निरयस्था द्विजोत्तमाः॥
स्वर्गं यांति सुपुत्रेण तारिताः प्रोच्यतां स्फुटम् ॥ २१॥
॥ ब्राह्मणा ऊचुः ॥
पितृमेधेन राजेंद्र कृतेन विधिपूर्वकम्॥
निरयस्था दिवं यांति यद्यपि स्युः सुपापिनः ॥२२॥
॥ राजोवाच ॥
दीक्षयंतु द्विजाः सर्वे तदर्थं मां धृतव्रतम्॥
यत्किंचिदत्र कर्त्तव्यं प्रोच्यतामखिलं हि तत् ॥२३॥
तथोक्तास्ते नृपेंद्रेण ब्राह्मणाः सत्यवादिनः॥
समग्राः पार्थिवं प्रोचुर्यदुक्तं यज्ञकर्मणि ॥२४॥
दीक्षा ग्राह्या नृपश्रेष्ठ पुरश्चरणमादितः॥
कृत्वा कायविशुद्ध्यर्थं ततः श्रेयस्करी भवेत् ॥२५॥
स त्वं पापसमाचारो बाल्यात्प्रभृति पार्थिव॥
असंख्यं पातकं तस्मात्तीर्थयात्रां समाचर ॥२६॥
सर्वतीर्थाभिषिक्तस्त्वं यदा स्यान्नृपसत्तम॥
प्रायश्चित्तेन योग्यः स्यास्ततो यज्ञस्य नान्यथा ॥२७॥
प्रभासादीनि तीर्थानि यानि संति धरातले॥
गंतव्यं तेषु सर्वेषु स्नानं कुरु समाहितः ॥२८॥
मनसा गच्छ दुर्गाणि ददद्दानमनुत्तमम्॥
नश्येत्तेनाशुभं किंचिदपि ब्रह्मवधोद्भवम्॥
यन्न याति नृणां राजंस्तीर्थस्नानादिना भुवि ॥२९॥
॥ पुलस्त्य उवाच ॥
विप्राणां वचनं श्रुत्वा स राजा श्रद्धयाऽन्वितः॥
तीर्थयात्रापरो भूत्वा परिबभ्राम मेदिनीम्॥ ॥३०॥
नियतो नियताहारो ददद्दानानि भूरिशः॥
राज्ये पुत्रं प्रतिष्ठाप्य वसुं सत्यपराक्रमम् ॥३१॥
कस्यचित्त्वथ कालस्य तीर्थयात्रानुषंगतः॥
यातोऽसौ नृपतिश्चैव ह्यर्बुदे निर्मलोदकम् ॥३२॥
स स्नानमकरोत्तत्र श्रद्धापूतेन चेतसा॥
स्नातमात्रस्य तस्याथ तस्मिन्नेव जलाशये ॥ ३३॥
विमुक्ताः पितरो रौद्रान्नरकात्सुप्रहर्षिताः॥
ततो दिव्यविमानस्था दिव्यमाल्यांबरान्विताः ॥३४॥
तमूचुस्तारिताः सर्वे वयं पुत्र त्वयाऽधुना॥
तीर्थस्यास्य प्रभावेण भविष्याश्च तथा दश ॥३५॥
आत्मा च पार्थिवश्रेष्ठ स्नानाच्च जलतर्पणात्॥
यस्मात्कुलं त्वया पुत्र तीर्थेऽस्मिंस्तारितं ततः ॥३६॥
कुलसंतारणंनाम तीर्थमेतद्भविष्यति॥
तस्मात्त्वमपि राजेंद्र सहाऽस्माभिर्दिवं प्रति॥
आगच्छानेन देहेन तीर्थस्यास्य प्रभावतः ॥३७॥
॥ पुलस्त्य उवाच ॥
एवमुक्तः स राजेंद्रो दिव्यकांतिवपुस्तदा॥
तं विमानमथारुह्य गतः स्वर्गं च तैः सह ॥३८॥
एष प्रभावो राजर्षे कुलसंतारणस्य च॥
मया ते वर्णितः सम्यग्भूयः किं परिपृच्छसि ॥३९॥
॥ ययातिरुवाच ॥
स किंप्रभावो राजा स तथा पापसमन्वितः॥
स्वदेहेन गतः स्वर्गमेतन्मे कौतुकं महत् ॥४०॥
॥ पुलस्त्य उवाच ॥
राकासोमव्यतीपात समकाले नृपोत्तम॥
स स्नातो यत्र भूपालस्तन्महच्छ्रेयसे परम् ॥४१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे तृतीयेऽर्बुदखंडे कुलसंतारणतीर्थमाहात्म्यवर्णनंनामाष्टचत्वारिंशोऽध्यायः ॥४८॥
N/A
References : N/A
Last Updated : February 03, 2025

TOP