अर्बुदखण्डम् - अध्याय १६
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ पुलस्त्य उवाच ॥
ततो गच्छेन्नृपश्रेष्ठ तीर्थं पापप्रणाशनम्॥
मणिकर्णिकसंज्ञं तु सर्वलोकेषु विश्रुतम्॥१॥
यत्र सिद्धिं गता राजन्वालखिल्या महर्षयः॥
तैस्तत्र निर्मितं कुण्डं सुरम्यं गिरि गह्वरे ॥२॥
तेषां तत्रोपविष्टानां मुनीनां भावितात्मनाम्॥
महाश्चर्यमभूत्तत्र तत्त्वं शृणु नराधिप ॥३॥
किरातवनिता काचिन्नाम्ना च मणिकर्णिका॥
अतिकृष्णा विरूपाक्षी कराला भीषणाकृतिः ॥४॥
तृषार्त्ता तत्र संप्राप्ता मध्यंदिनगते रवौ॥
ग्रस्ते च राहुणा सूर्ये प्रविष्टा सलिले तु सा ॥५॥
एतस्मिन्नेव काले तु दिव्यरूपवपुर्धरा॥
मुनीनां पश्यतां चैव विनिष्क्रांता सुमध्यमा ॥६॥
अथ तस्याः पतिः प्राप्तस्तदन्वेषणतत्परः॥
पप्रच्छ तां वरारोहां पत्न्या दुःखेन दुःखितः ॥७॥
मम भार्यात्र संप्राप्ता यदि दृष्टा सुमध्यमे॥
शीघ्रं वद वरारोहे बालकोऽयं तदुद्भवः ॥८॥
तृषार्त्तश्च क्षुधाविष्टो रुदते च मुहुर्मुहुः॥
दृष्टा चेत्कथ्यतां सुभ्रूर्विनाऽयं तां मरिष्यति ॥९॥
॥ स्त्र्युवाच ॥
साऽहं ते दयिता कान्त तीर्थस्यास्य प्रभावतः॥
दिव्यरूपमिदं प्राप्ता देवैरपि सुदुर्लभम् ॥१०॥
त्वं चापि सलिले ह्यस्मिन्कुरु स्नानं त्वरान्वितः॥
प्राप्स्यसि त्वं परं रूपं यथा प्राप्तं मयाऽनघ ॥११॥
अथासौ सह पुत्रेण प्रविष्टस्तत्र निर्झरे॥
विमुक्ते भास्करे राजन्विरूपश्चाभवत्पुनः ॥१२॥
दुःखेन मृत्युमापन्नस्तस्मिन्नेव जलाशये॥
अथ सा भर्तृशोकाच्च मरणे कृतनिश्चया ॥१३॥
चितिं कृत्वा समं तेन ज्वालयामास पावकम्॥
अथ ते मुनयो दृष्ट्वा तथाशीलां शुभांगनाम् ॥१४॥
कृपया परयाविष्टास्तामूचुर्विस्मयान्विताः॥
सर्वे तस्याश्च संदृष्ट्वा साहसं च नृपोत्तम ॥१५॥
॥ ऋषय ऊचुः ॥
दिव्यरूपं त्वया प्राप्तं देवैरपि सुदुर्लभम्॥
कस्मादेनं सुपाप्मानमनुगच्छसि भामिनि ॥१६॥
॥ स्त्र्युवाच ॥
पतिव्रताहं विप्रेन्द्राः सदा भर्तृपरायणा॥
किं रूपेण करिष्यामि विना पत्या निजेन च ॥१७॥
विरूपो वा सुरूपो वा दरिद्रो वा धनाधिपः॥
स्त्रीणामेकः पतिर्भर्त्ता गतिर्नान्या जगत्त्रये ॥१८॥
बालकोऽयं मुनिश्रेष्ठा भवच्छरणमागतः॥
अहं कान्तेन संयुक्ता प्रविशामि हुताशनम् ॥१९॥
॥ पुलस्त्य उवाच ॥
अथ ते मुनयः सर्वे ज्ञात्वा तस्याः सुनिश्चयम्॥
कृपया परयाविष्टाः संवीक्ष्य च परस्परम् ॥२०॥
ततो जीवापयामासुस्तत्पतिं ते मुनीश्वराः॥
सद्रूपेण समायुक्तं दिव्य लक्षणलक्षितम् ॥२१॥
एतस्मिन्नेव कालं तु विमानं मनसेप्सितम्॥
देवकन्यासमाकीर्णं सद्यस्तत्र समागतम् ॥२२॥
अथ तौ दंपती तेषां मुनीनां भावितात्मनाम्॥
पुरतः प्रणिपत्याथ प्रस्थितौ त्रिदिवं प्रति ॥२३॥
अथ तैर्मुनिभिः प्रोक्ता सा नारी मणिकर्णिका॥
वरं वरय कल्याणि सर्वे तुष्टा वयं तव ॥२४॥
पतिव्रतत्वेन तुष्टाः सत्येन च विशेषतः॥
नास्माकं दर्शनं व्यर्थं जायते च कथंचन ॥२५॥
॥ मणिकर्णिकोवाच ॥
यदि मां मुनयस्तुष्टाः प्रयच्छथ वरं मुदा॥
यदत्रास्ति महालिंगं मन्नाम्ना तद्भविष्यति ॥२६॥
एतदेव ममाभीष्टं नान्यदस्ति प्रयोजनम्॥
सर्वेषां च प्रसादेन स्वर्गं गच्छामि सांप्रतम् ॥२७॥
॥ ऋषय ऊचुः ॥
एवं भवतु ते ख्यातिस्तीर्थलिंगे वरानने॥
तव नामान्वितं जातं तीर्थं वै मणिकर्णिका ॥२८॥
॥ पुलस्त्य उवाच ॥
भर्त्रा सह दिवं प्राप्ता पुत्रेणैव समन्विता॥
वालखिल्यास्तपोनिष्ठा विशेषात्तत्र संस्थिताः ॥२९॥
तत्र सूर्यग्रहे प्राप्ते स्नानदानादिकाः क्रियाः॥
यः करोति फलं तस्य कुरुक्षेत्र समं भवेत् ॥३०॥
यं यं काममभिध्याय स्नानं तत्र करोति यः॥
तं तं प्राप्नोति राजेन्द्र सम्यग्ध्यानसमन्वितः ॥३१॥
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत्॥
तीर्थे दानं यथाशक्त्या देवर्षिपितृतर्पणम् ॥३२॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखण्डे मणिकर्णिकेश्वरमाहात्म्यवर्णनंनाम षोडशोऽध्यायः ॥१६ ॥
N/A
References : N/A
Last Updated : January 21, 2025

TOP