अर्बुदखण्डम् - अध्याय ४१
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ पुलस्त्य उवाच ॥
ततो गच्छेन्नृपश्रेष्ठ मार्कंडेयस्य चाश्रमम्॥
यत्र पूर्वं तपस्तप्तं मार्कंडेन महात्मना ॥१॥
मृकण्डो ब्राह्मणोनाम पुराऽऽसीच्छंसितव्रतः॥
अन्ते वयसि संजातस्तस्य पुत्रोऽतिसुन्दरः ॥२॥
सर्वलक्षणसंपूर्णः शांतः सूर्यसमप्रभः॥
कस्यचित्त्वथ कालस्य तस्याश्रमपदे नृप ॥३॥
आगतो ब्राह्मणो ज्ञानी कश्चित्सामुद्रविच्छुभः॥
ततोऽसौ क्रीडमानस्तु बालकः पंचवार्षिकः ॥४॥
आनासाग्रशिखाग्राभ्यां चिरं चैवावलोकितः॥
ततोऽहसत्स सहसा तं मृकण्डो ह्यलक्षयत्॥ ५॥
अथाऽब्रवीच्चिरं दृष्टस्त्वया पुत्रो मम द्विज॥
ततो हसितवान्भूयः किमिदं कारणं वद॥ ६॥
असकृत्स मृकण्डेन यावत्पृष्टो द्विजोत्तमः॥
उपरोधवशात्तस्मै यथार्थं संन्यवेदयत् ॥७॥
अस्य बालस्य चिह्नानि यानि काये द्विजोत्तम॥
अजरश्चामरश्चैव तैर्भवेत्पुरुषः किल ॥८॥
षण्मासेनास्य बालस्य नूनं मृत्युर्भविष्यति॥
एतस्मात्कारणाद्धास्यं मयाऽकारि द्विजोत्तम॥
अनृतं नोक्तपूर्वं मे वैरिष्वपि कदाचन ॥९॥
॥ पुलस्त्य उवाच ॥
एवमुक्त्वा तु स ज्ञानी उषित्वा तत्र शर्वरीम्॥
मृकंडेनाभ्यनुज्ञात इष्टं देशं जगाम ह ॥१०॥
मृकंडोपि सुतं ज्ञात्वा ततः क्षीणायुषं नृप॥
पंचवार्षिकमप्यार्त्तश्चकारोपनयान्वितम् ॥११॥
श्रुताध्ययनसंपन्नं यंयं पश्यसि चाग्रतः॥
तस्याभिवादनं कार्यं त्वया पुत्रक नित्यशः ॥१२॥
ततश्चक्रे ब्रह्मचारी पितुर्वाक्यं विशेषतः ॥१३॥
बालं वृद्धं युवानं च यंयं पश्यति चक्षुषा॥
नमस्करोति तं सर्वं ब्राह्मणं विनयान्वितः ॥१४॥
कस्यचित्त्वथ कालस्य तस्याश्रमसमीपतः॥
सप्तर्षयः समायातास्तीर्थयात्रापरायणाः ॥१५॥
अथ तान्सत्वरं गत्वा वंदयामास पार्थिव॥
बालः सविनयोपेतः सर्वांश्चैव यथाक्रमम् ॥१६॥
दीर्घायुर्भव तैरुक्तः स बालस्तुष्टितत्परैः॥
आस्थिताश्च यथाभीष्टं देशं बालं विसर्ज्य तम् ॥१७॥
तेषां मध्येंऽगिरानाम दिव्यज्ञानसमन्वितः॥
तेनावलोकितो बालः सूक्ष्मदृष्ट्या परंतप ॥१८॥
अथ तानब्रवीत्सर्वान्मुनीन्किंचित्सविस्मयः॥
दीर्घायुर्न च बालोऽयं युष्माभिः संप्रकीर्तितः ॥१९॥
गमिष्यति कुमारोऽयं निधनं पंचमे दिने॥
तन्न युक्तं हि नो वाक्यमसत्यं द्विजसत्तमाः ॥२०॥
यथाऽयं चिरजीवी स्यात्तथा नीतिर्विधीयताम्॥
अथ ते मुनयो भीता मिथ्या वाक्यस्य पार्थिव ॥२१॥
बालकं तं समादाय ब्रह्मलोकं गतास्तदा॥
तत्र दृष्ट्वा चतुर्वक्त्रं नमश्चक्रुर्मुनीश्वराः ॥२२॥
तेषामनंतरं तेन बालके नाभिवादितः॥
दीर्घायुर्भव तेनाऽपि ब्रह्मणोक्तः स बालकः ॥२३॥
ततः सप्तर्षयो हृष्टाः स्वचित्ते नृपसत्तम॥
सुखासीनान्सविश्रांतानब्रवीन्मुनिपुंगवान् ॥२४॥
॥ ब्रह्मोवाच ॥
परिपृच्छत किं कार्यं कुतो यूयमिहागताः ॥२५॥
॥ ऋषय ऊचुः ॥
तीर्थयात्राप्रसंगेन भ्रममाणा महीतलम्॥
अर्बुदं पर्वतं नाम तस्य तीर्थेषु वै गताः ॥२६॥
अथागत्य द्रुतं दूराद्बालेनानेन वंदिताः॥
दीर्घायुर्भव संदिष्टस्ततश्चायमनेकधा॥
पंचमे दिवसेऽस्यापि मृत्युर्देव भविष्यति ॥२७॥
यथा वयं त्वया सार्द्धमसत्या न चतुर्मुख॥
भवामोऽस्य कृते देव तथा किंचिद्विधीयताम्॥ २८॥
अथ ब्रह्मा प्रहृष्टात्मा दृष्ट्वा तं मुनिदारकम्॥
मत्प्रसादादयं बालो भावी कल्पायुरब्रवीत् ॥२९॥
ततस्ते मुनयो हृष्टास्तमादाय गृहं प्रति॥
प्रस्थिता ब्रह्मलोकात्तु नमस्कृत्वा चतुर्मुखम् ॥३०॥
अथ तस्य पिता तत्र मृकंडो मुनिसत्तमः॥
ततो भार्यासमायुक्तो विललाप सुदुःखितः ॥३१॥
हा पुत्रपुत्र करुणं रुदित्वा धर्मवत्सलः॥
अनामंत्र्य च मां कस्माद्दीर्घं पंथानमाश्रितः॥३२॥
अकृत्वापि क्रियाः कार्याः कथं मृत्युवशं गतः॥
सोऽहं त्वया विना पुत्र न जीवामि कथंचन ॥३३॥
एवं विलपतस्तस्य बहुधा नृपसत्तम॥
बालश्चाभ्यागतस्तत्र यत्र देशे पुरा स्थितः ॥३४॥
अथासौ प्रययौ बालः प्रहृष्टेनांतरात्मना॥
तं दृष्ट्वा पथि तातश्च संप्रहृष्टो बभूव ह ॥३५॥
पप्रच्छांकं समारोप्य चिरागमन कारणम्॥
ततः स कथयामास सर्वं मुनिविचेष्टितम्॥
दर्शनं ब्रह्मलोकस्य पद्मयोनेर्वरं तथा ॥३६॥
॥ बालक उवाच ॥
अजरश्चामरश्चाहं कृतस्तात स्वयंभुवा॥
तस्मात्सत्यं मदर्थे ते व्येत्वसौ मानसो ज्वरः॥३७॥
सोऽहमाराधयिष्यामि तथैव चतुराननम्॥
कृत्वाऽऽश्रमपदं रम्यमर्बुदे पर्वतोत्तमे ॥३८॥
अमृतस्रावि तद्वाक्यं श्रुत्वा पुत्रस्य स द्विजः॥
मृकंडो हर्षसंयुक्तो वाचमित्यब्रवीच्च तम् ॥३९॥
मार्क्कंडोऽपि द्रुतं गत्वा रम्य मर्बुदपर्वतम्॥
तपस्तेपे सुविस्तीर्णं ध्यायन्देवं पितामहम्॥४०॥
तस्याश्रमपदे पुण्ये श्रावणे मासि पार्थिव॥
पौर्णमास्यां विशेषेण यः कुर्यात्पितृतर्पणम्॥
पितृमेधफलं तस्य सकलं स्यादसंशयम्॥४१॥
ऋषियोगेन यस्तत्र तर्पयेद्ब्राह्मणोत्तमान्॥
ब्रह्मलोके चिरं वासस्तस्य संजायते नृप ॥ ४२॥
यः स्नानं कुरुते तत्र सम्यक्छ्रद्धासमन्वितः॥
नाल्पमृत्युभयं तस्य कुले क्वापि प्रजायते ॥४३॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्ड तृतीयेऽर्बुदखण्डे मार्कंडेयाश्रमपदोत्पत्तिवर्णनंनामैकचत्वारिंशोऽध्यायः॥४१॥
N/A
References : N/A
Last Updated : February 03, 2025

TOP