अर्बुदखण्डम् - अध्याय २५
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ पुलस्त्य उवाच ॥
ततः पिंडारकं गच्छेत्तीर्थं पापहरं नृप॥
यत्र पूर्वं तपस्तप्तं मंकिना ब्राह्मणेन च॥
सिद्धिं गतस्तथा राजंस्तीर्थस्यास्य प्रभावतः ॥१॥
पुरा मंकिरभूद्विप्रो नाममात्रेण भूपते॥
मूर्खो ब्राह्मणकृत्यानामनभिज्ञः सुमन्दधीः ॥२॥
अथासौ पर्वते रम्ये लोकानां नृपसत्तम॥
महिषी रक्षयामास ततः पिंडारकर्मणि॥३॥
कस्यचित्त्वथ कालस्य तेन वित्तमुपार्जितम्॥
दूरात्कृच्छ्रेण च स्तोकं जगृहे गोयुगं ततः ॥४॥
ततस्तद्दमयामास गोयुगं नृपसत्तम॥
अथ दैववशाद्राजन्दमितं तस्य गोयुगम्॥ ५॥
निबद्धमुष्ट्रमासाद्य ग्रीवादेशे बलात्स्थितम्॥
अथोष्ट्रस्त्वरया राजन्नुत्थितस्त्रासतत्परः॥६॥
गोयुगेन हि ग्रीवायां लम्बमानेन भूपते॥
तद्दृष्ट्वा सुमहाश्चर्यं विनाशं गोयुगस्य तु ॥७॥
मंकिर्वैराग्यमापन्नस्त्यक्त्वा ग्रामं वनं ययौ॥
स गत्वा निर्झरं कञ्चिदर्बुदे नृपसत्तम॥८॥
त्रिकालं कुरुते स्नानं गायत्रीजपमुत्तमम्॥
तेनासौ गतपापोऽभूद्दिव्यदर्शी च भूमिप॥९॥
एतस्मिन्नेव काले तु तेन मार्गेण शंकरः॥
सह गौर्या विनिष्क्रांतः क्रीडार्थं रम्यपर्वते॥१०॥
स दृष्टः सहसा तेन पिंडारेण महात्मना॥
प्रणाममकरोद्राजंस्ततस्तं शंकरोऽब्रवीत् ॥११॥
न वृथा दर्शनं मे स्याद्वरो मे गृह्यतां द्विज॥
यदभीष्टं महाराज यद्यपि स्यात्सुदुर्लभम् ॥१२॥
॥ पिंडारक उवाच ॥
गणोऽहं तव देवेश भवानि त्रिपुरांतक॥
यथा तथा कुरु विभो नान्यन्मे हृदि वर्तते ॥१३॥
एतत्पिण्डारकं तीर्थ मम नाम्ना प्रसिध्यतु ॥१४॥
॥ भगवानुवाच ॥
भविष्यसि गणोऽस्माकं देहांते त्वं द्विजोत्तम॥
एतत्पिंडारकंनाम तीर्थमत्र भविष्यति ॥१५॥
अहमत्र महाष्टम्यां निवेक्ष्यामि महामते॥
ये च स्नानं करिष्यंति संप्राप्ते चाष्टमीदिने॥
ते यास्यंति परं स्थानं यत्राहं नित्यसंस्थितः ॥१६॥
॥ पुलस्त्य उवाच ॥
एवमुक्त्वा महादेवस्तत्रैवांतरधीयत॥
मंकिः पिंडारकस्तत्र तपस्तेपे दिवानिशम् ॥१७॥
ततः कालेन महता त्यक्त्वा देहं दिवं गतः॥
यत्रास्ते भगवान्रुद्रो गणस्तत्र बभूव ह ॥१८॥
तस्मात्सर्वप्रयत्नेन स्नानं मन्त्रेण चाचरेत्॥१९॥
राजेन्द्र महिषीदानमथाष्टम्यां विशेषतः॥
य इच्छति सदाऽभीष्टमिह लोके परत्र च॥२०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे पिंडारकतीर्थमाहात्म्यवर्णनंनाम पंचविंशोऽध्यायः॥ २५॥
N/A
References : N/A
Last Updated : February 01, 2025

TOP