अयोध्यामाहात्म्यम् - अध्याय ७
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ अगस्त्य उवाच ॥
तीर्थमन्यत्प्रवक्ष्यामि क्षीरोदकमिति स्मृतम् ॥
सीताकुण्डाच्च वायव्ये वर्त्तते गुणसुन्दरम् ॥
पुण्यैकनिचयस्थानं सर्वदुःखविनाशनम् ॥१॥
पुरा दशरथो राजा पुत्रेष्टिनाम नामतः ॥
चकार विधिवद्यज्ञं पुत्रार्थं यत्र चादरात् ॥२॥
क्रतुं समापयामास सानन्दो भूरिदक्षिणम् ॥
यज्ञान्ते क्रतुभुक्तत्र मूर्तिमान्समदृश्यत ॥३॥
हस्ते कृत्वा हेमपात्रं हविःपूर्णमनुत्तमम् ॥
तस्मिन्हविषि संकीर्णं वैष्णवं तेज उत्तमम् ॥
चतुर्विधं विभज्यैव पत्नीभ्यो दत्तवान्नृपः ॥४॥
यत्र तत्क्षीरसंप्राप्तिर्जाता परमदुर्लभा ॥
क्षीरोदकमिति ख्यातं तत्स्थानं पापनाशनम् ॥
उदकेनाभिव्यक्तं च उत्तमं च फलप्रदम् ॥५॥
तत्र स्नात्वा नरो धीमान्विजितेन्द्रिय आदरात् ॥
सर्वान्कामानवाप्नोति पुत्रांश्च सुबहुश्रुतान् ॥६॥
आश्विने शुक्लपक्षस्य एकादश्यां जितव्रतः ॥
तत्र स्नात्वा विधानेन दत्त्वा शक्त्या द्विजन्मने ॥७॥
विष्णुं संपूज्य विधिवत्सर्वान्कामानवाप्नुयात् ॥
पुत्रानवाप्नुयाद्विद्धि धर्मांश्च विधिवन्नरः ॥८॥
तस्मात्क्षीरोदकस्थानान्नैर्ऋते दिग्दले श्रितम् ॥
ख्यातं बृहस्पतेः कुण्डमुद्दंडाचंडमंडितम् ॥९॥
सर्वपापप्रशमनं पुण्यामृततरंगितम् ॥
यत्र साक्षात्सुरगुरुर्निवासं किल निर्ममे ॥१०॥
यज्ञं च विधिवच्चक्रे बृहस्पतिरुदारधीः ॥
नानामुनिगणैर्युक्तं रम्यं बहुफलप्रदम् ॥
सुपर्णच्छायसंपन्नं कुण्डं तत्पापिदुर्ल्लभम् ॥११॥
इन्द्रादयोऽपि विबुधा यत्र स्नात्वा प्रयत्नतः ॥
मनोभीष्टफलं प्राप्ताः सौंदर्यौदार्यतुंदिलाः ॥१२॥
यत्र स्नानेन दानेन नरो मुच्येत किल्बिषात् ॥१३॥
भाद्रे शुक्ले तु पंचम्यां यात्रा तत्र फलप्रदा ॥
अन्यदापि गुरोर्वारे स्नानं बहुफलप्रदम् ॥१४॥
बृहस्पतेस्तथा विष्णोः पूजां तत्र य आचरेत् ॥
सर्वपापविनिर्मुक्तो विष्णुलोके स मोदते ॥१५॥
भवेद्बृहस्पतेः पीडा यस्य गोचरवेधतः ॥
तेनात्र विधिवत्स्नानं कार्यं संकल्पपूर्वकम् ॥१६॥
होमं कृत्वा गुरोर्मूर्तिः सुवर्णेन विनिर्मिता ॥
स्थित्वा जले प्रदेया वै पीतांबरसमन्विता ॥१७॥
वेदज्ञायातिशुचये स्नात्वा पीडापनुत्तये ॥
होमं च कारयेत्तत्र ग्रहजाप्यविधानतः ॥१८॥
एवं कृते न संदेहो ग्रहपीडा प्रणश्यति ॥१९॥
तद्दक्षिणे मुनिश्रेष्ठ रुक्मिणीकुण्डमुत्तमम् ॥
चकार यत्स्वयं देवी रुक्मिणी कृष्णवल्लभा ॥२०॥
तत्र विष्णुः स्वयं चक्रे निवासं सलिले तदा ॥
वरप्रदानात्स्नेहेन भार्यायाः प्रगुणीकृतम् ॥२१॥
तत्र स्नानं तथा दानं होमं वैष्णवमंत्रकम् ॥
द्विजपूजां विष्णुपूजां कुर्वीत प्रयतो नरः ॥२२॥
तत्र सांवत्सरी यात्रा कर्त्तव्या सुप्रयत्नतः ॥
ऊर्जकृष्णनवम्यां च सर्वपापापनुत्तये ॥२३॥
पुत्रवाञ्जायते वन्ध्यो यात्रां कृत्वा न संशयः ॥
नारीभिर्वा नरैर्वापि कर्त्तव्यं स्नानमादरात् ॥२४॥
भुक्त्वा भोगान्समग्रांश्च विष्णुलोके स मोदते ॥
लक्ष्मीकामनया तत्र स्नातव्यं च विशेषतः ॥२५॥
सर्वकाममवाप्नोति तत्र स्नानेन मानवः ॥
रुक्मिणीश्रीपतिप्रीत्यै दातव्यं च स्वशक्तितः ॥२६॥
कर्त्तव्या विधिवत्पूजा ब्राह्मणानां विशेषतः ॥
ध्येयो लक्ष्मीपतिस्तत्र शंखचक्रगदाधरः ॥२७॥
पीतांबरधरः स्रग्वी नारदादिभिरीडितः ॥
तार्क्ष्यासनो मुकुटवान्महेन्द्रादिविभूषितः ॥२८॥
सर्वकामफलावाप्त्यै वक्षोलक्षितकौस्तुभः ॥
अतसीकुसुमश्यामः कमलामललोचनः ॥२९॥
एवं कृते न संदेहः सर्वान्कामानवाप्नुयात् ॥
इह लोके सुखं भुक्त्वा हरिलोके स मोदते ॥३०॥
अतः परं प्रवक्ष्यामि तीर्थमन्यदघापहम् ॥
कलिकिल्विषसंहारकारकं प्रत्ययात्मकम् ॥३१॥
परं पवित्रमतुलं सर्वकामार्थसिद्धिदम् ॥
धनयक्षइतिख्यातं परं प्रत्ययकारकम् ॥३२॥
रुक्मिणीकुण्डवायव्यदिग्दले संस्मृतं शुभम् ॥
हरिश्चन्द्रस्य राजर्षेरासीत्तत्र धनं महत् ॥३३॥
तस्य रक्षार्थमत्यर्थं रक्षितो यक्षउच्चकैः ॥
विश्वामित्रो मुनिः पूर्वं यदा चैव पराजयत् ॥३४॥
हरिश्चंद्रं नरपतिं राज्यसूयकरं परम् ॥
राज्यं जग्राह सकलं चतुरंगबलान्वितम् ॥३५॥
तद्वशेऽदाच्च स मुनिर्धनं सकलमुत्तमम् ॥
तद्रक्षायै प्रयत्नेन यक्षं स्थापितवानसौ ॥३६॥
प्रमंथुर इति ख्यातं प्रमोदानन्दमंदिरम् ॥
रक्षां विदधतस्तस्य बहुयत्नेन सर्वशः ॥३७॥
तुतोष स मुनिर्द्धीमान्कदाचिद्विजितेन्द्रियः ॥
उवाच मधुरं वाक्यं प्रीत्या परमया युतः ॥३८॥
॥ विश्वामित्र उवाच ॥
वरं वरय धर्मज्ञ क्षिप्रमेव विमत्सरः॥
भक्त्या परमया धीर संतुष्टोऽस्मि विशेषतः॥३९॥
॥यक्ष उवाच ॥
वरं प्रयच्छसि यदि विप्रवर्य मदीप्सितम्॥
ममांगमतिदुर्गंधि शापाच्च नृपतेरभूत्॥
सुगन्धयितुं ब्रह्मर्षे तत्प्रसीद मुनीश्वर ॥४०॥
॥ अगस्त्य उवाच ॥
एवमुक्ते तु यक्षेण मुनिर्ध्यानस्थलोचनः॥
तं विविच्यानया भक्त्या अभिषेकं चकार सः॥४१॥
तीर्थोदकेन विधिवत्कृत्वा संकल्पमादरात्॥
ततः सोऽभूत्क्षणेनैव सुगन्धोत्तरविग्रहः ॥४२॥
तथाभूतः स मधुरं प्रोवाच प्रांजलिस्ततः ॥
पुनः पुरः स्थितो धीमान्विनयावनतस्तदा ॥४३॥
॥ यक्ष उवाच ॥
त्वत्कृपाभिरहं धीर जातः सुरभिविग्रहः॥
एतत्स्थानं यथा ख्यातिं याति सर्वज्ञ तत्कुरु ॥४४॥
त्वत्प्रसादेन विप्रर्षे तथा यत्नं विधेहि वै ॥४५॥
॥ अगस्त्य उवाच ॥
एवमुक्तः क्षणं ध्यात्वा मुनिः स्तिमितलोचनः ॥
यक्षं प्रति प्रसन्नात्मा ह्युवाच श्लक्ष्णया गिरा ॥४६॥
॥ विश्वामित्र उवाच ॥
प्रसिद्धिमतुलां यक्ष एतत्स्थानं गमिष्यति ॥
धनयक्ष इति ख्यातिमेतत्तीर्थं गमिष्यति ॥४७॥
सौंदर्य्यदं शरीरस्य परं प्रत्ययकारकम् ॥
यत्र स्नात्वा विधानेन दौर्गंध्यं त्यजति क्षणात् ॥
तत्र स्नानं प्रयत्नेन कर्त्तव्यं पुण्यकांक्षिभिः ॥४८॥
दानं श्रद्धास्वशक्तिभ्यां लक्ष्मीपूजा विशेषतः ॥
तत्र स्नानेन दानेन लक्ष्मीप्रीत्यै विशेषतः ॥४९॥
पूजया तु निधीनां च नवानामपि सुव्रत ॥
इह लोके सुखं भुक्त्वा परलोके स मोदते ॥५०॥
महापद्मस्तथा पद्मः शंखो मकरकच्छपौ ॥
मुकुन्दकुंदनीलाश्च खर्वश्च निधयो नव ॥५१॥
एतेषामपि कुण्डेऽत्र संनिधिर्भविताऽनघ ॥
एतेषां तु विशेषेण पूजा बहुफलप्रदा॥५२॥
जलमध्ये प्रकर्त्तव्यं निधिलक्ष्मीप्रपूजनम्॥५३॥
अन्नं बहुविधं देयं वासांसि विविधानि च॥५४॥
सुवर्णादि यथाशक्त्या वित्तशाठ्यं विवर्जयेत् ॥
गुप्तं दानं प्रयत्नेन कर्त्तव्यं सुप्रयत्नतः ॥५५॥
फलानि च सुवर्णानि देयानि च विशेषतः ॥५६॥
कृष्णपक्षे चतुर्दश्यां स्नानं बहुफलप्रदम् ॥
श्रद्धया परया युक्तैः कर्त्तव्यं श्रद्धयाधिकम् ॥५७॥
माघे कृष्णचतुर्दश्यां यात्रा सांवत्सरी भवेत् ॥
तत्र स्नानं पितॄणान्तु तर्पणं च विशेषतः ॥५८॥
आब्रह्मस्तम्बपर्यंतं जगत्तृप्यत्विति ब्रुवन् ॥
अपसव्येन विधिवत्तर्प्पयेदंजलित्रयम् ॥५९॥
एवं कुर्वन्नरो यक्ष न मुह्यति कदाचन ॥
अत्र स्नातो दिवं याति अत्र स्नातः सुखी भवेत् ॥६०॥
अत्र स्नातेन ते यक्ष कर्त्तव्यं पूजनं पुरः ॥
त्वत्पूजनेन विधिवन्नृणां पापक्षयो भवेत् ॥६१॥
नमः प्रमथराजेति पूजामन्त्र उदाहृतः ॥
तीर्थमध्ये प्रकर्त्तव्यं पूजनं श्रवणादिकम् ॥६२॥
निधिलक्ष्म्यो तथा यक्ष तव पूजा विशेषतः ॥
एवं यः कुरुते धीरः सर्वान्कामानवाप्नुयात् ॥६३॥
धनार्थी धनमाप्नोति पुत्रार्थी पुत्रमाप्नुयात् ॥
मोक्षार्थी मोक्षमाप्नोति तत्किं न यदिहाप्यते ॥६४॥
यस्तु मोहान्नरो यक्ष स्नानं न कुरुते किल ॥
तस्य सांवत्सरं पुण्यं त्वं ग्रहीष्यसि सर्वशः ॥६५॥
इति दत्त्वा वरांस्तस्मै विश्वामित्रो मुनीश्वरः॥
अन्तर्दधे मुनिवरस्तदा स च तपोनिधिः ॥६६॥
तदाप्रभृति तत्स्थानं परमां ख्यातिमाययौ ॥
तस्य तीर्थस्य सकला भूमिः स्वर्णविनिर्मिता ॥६७॥
दिव्यरत्नौघखचिता समंतादुपशोभिता ॥
एवं यः कुरुते विद्वन्स याति परमां गतिम् ॥६८॥
धनयक्षादुत्तरस्मिन्दिग्भागे संस्थितं द्विज ॥
वसिष्ठकुण्डं विख्यातं सर्वपापापहं सदा ॥६९॥
वसिष्ठस्य सदा तत्र निवासः सुतपोनिधेः ॥
अरुन्धती सदा यस्य वर्तते निर्मलव्रता ॥७०॥
अत्र स्नानं विशेषेण श्राद्धपूर्वमतंद्रितः ॥
यः कुर्यात्प्रयतो धीमांस्तस्य पुण्यमनुत्तमम् ॥७१॥
वामदेवस्य तत्रैव संनिधिर्वर्ततेऽनघ ॥
वशिष्ठवामदेवौ तु पूजनीयौ प्रयत्नतः ॥७२॥
पतिव्रता पूजनीयाऽरुन्धती च विशेषतः ॥
स्नातव्यं विधिना सम्यग्दातव्यं च स्वशक्तितः ॥७३॥
सर्वकामफलप्राप्तिर्जायते नात्र संशयः ॥
अत्र यः कुरुते स्नानं स वशिष्ठसमो भवेत् ॥७४॥
भाद्रे मासि सिते पक्षे पंचम्यां नियतव्रतः ॥
तस्य सांवत्सरी यात्रा कर्त्तव्या विधिपूर्विका ॥७५॥
विष्णुपूजा प्रयत्नेन कर्तव्या श्रद्धयात्र वै ॥
सर्वपापविशुद्धात्मा विष्णुलोके महीयते ॥७६॥
वसिष्ठकुण्डाद्विप्रेंद्र प्रत्यग्दिग्दलमाश्रितम् ॥
विख्यातं सागरं कुण्डं सर्वकामार्थसिद्धिदम् ॥
यत्र स्नानेन दानेन सर्वकामानवाप्नुयात् ॥७७॥
पौर्णमास्यां समुद्रस्य स्नानाद्यत्पुण्यमाप्नुयात् ॥
तत्पुण्यं पर्वणि स्नातो नरश्चाक्षयमाप्नुयात् ॥७८॥
तस्मादत्र विधानेन स्नातव्यं पुत्रकांक्षया ॥
आश्विने पौर्णमास्यां तु विशेषात्स्नानमाचरेत् ॥७९॥
एवं कुर्वन्नरो विद्वान्सर्वपापैः प्रमुच्यते ॥
अत्र स्नात्वा नरो दत्त्वा यथाशक्त्या दिवं व्रजेत् ॥८०॥
सागरान्नैर्ऋते भागे योगिनीकुण्डमुत्तमम् ॥
यत्राऽऽसते चतुःषष्टियोगिन्यो जलसंस्थिताः ॥८१॥
सर्वार्थसिद्धिदाः पुंसां स्त्रीणां चैव विशेषतः ॥
परसिद्धिप्रदाः सर्वाः सर्वकामफलप्रदाः ॥८२॥
आश्विने शुक्लपक्षस्य अष्टम्यां च विशेषतः ॥
स्नातव्यं च प्रयत्नेन योगिनीप्रीतये नृभिः ॥८३॥
अत्र स्नानं तथा दानं सर्वं सफलतां व्रजेत् ॥
यक्षिणीप्रभृतयः सिद्धा भवंत्यत्र न संशयः ॥८४॥
योगिनीकुंडतः पूर्वमुर्वशीकुण्डमुत्तमम् ॥
यत्र स्नातो नरो विद्वन्नुर्वशीं दिवि संश्रयेत् ॥८५॥
पुरा किल मुनिर्धीरो रैभ्यो नाम तपोधनः ॥
चचार हिमवत्पार्श्वे निराहारो जितेन्द्रियः ॥८६॥
तत्तपो विपुलं दृष्ट्वा भीतः सुरपतिस्ततः ॥
उर्वशीं प्रेषयामास तपोविघ्नाय चादरात् ॥८७॥
ततः सा प्रेषिता तेनाजगाम गजगामिनी ॥
उवास हिमवत्पार्श्वे रैभ्याश्रममनुत्तमम् ॥८८॥
वनफुल्ललताकुञ्जे मञ्जुकूजद्विहंगमे ॥
किन्नरीकेलिसंगीतस्तिमितांगकुरंगके ॥८९॥
पुन्नागकेशराशोकच्छिन्नकिजल्कपिंजरे ॥
कल्पिते कांचनगिरौ द्वितीय इव वेधसा ॥९०॥
सा बभौ कांतिसर्वस्वकोशः कुसुमधन्वनः ॥
उर्वश्यनल्पसामान्यलावण्यामृतवाहिनी ॥९१॥
अंगप्रभासुवर्णेन सितमौक्तिकशोभिता ॥
तारुण्यरुचिरत्वेन तारुण्येन विभूषिता ॥९२॥
विलोमलोचनापांगतरंगधवलत्विषा ॥
नवपल्लवसच्छायं कल्पयन्ती निजाधरम् ॥९३॥
कर्णोपलम्बिसंघुष्यद्भृङ्गाढ्यचूतमञ्जरी ॥
सुधागर्भसमुद्भूता पारिजातलता यथा ॥९४॥
तनुमध्या पृथुश्रोणिर्वर्णोद्भिन्नपयोधरा ॥
निःशाणितशरस्येव शक्तिः कुसुमधन्वनः ॥९५॥
अपश्यदाश्रमे तस्मिन्मुनिरायतलोचनाम् ॥
नयनानलदाहेन विदग्धेन मनोभुवा ॥९६॥
त्रिनेत्रवंचनायैव कल्पितां ललनातनुम् ॥
तामाश्रमलतापुष्पकांचीरचितकुण्डलाम् ॥९७॥
विलोक्य तां विशालाक्षीं मुनिर्व्याकुलितेन्द्रियः ॥
बभूव रोषसंतप्तः शशाप च बहु ज्वलन् ॥९८॥
॥ रैभ्य उवाच ॥
कुरूपतां व्रज क्षिप्रं या त्वं सौंदर्यगर्विता ॥
समागता तपोविघ्नहेतवे मम सन्निधौ ॥९९॥
॥ अगस्त्य उवाच ॥
इति शप्ता रुषा तेन मुनिना सा शुभेक्षणा ॥
उवाच वनिता भूत्वा प्रांजलिर्मुनिमादरात् ॥१००॥
॥ उर्वश्युवाच ॥
भगवन्मे प्रसीद त्वं पराधीना यतस्त्वहम् ॥
त्वच्छापस्य कथं मुक्तिर्भविता नियतव्रत ॥१०१॥
॥ रैभ्य उवाच ॥
अयोध्यायामस्ति तीर्थं पावनं परमं महत् ॥
तत्र स्नानं कुरुष्वाद्य सौंदर्यं परमाप्नुहि ॥१०२॥
त्वन्नाम्नैव च विख्यातिं तोयं यास्यति तद्ध्रुवम् ॥१०३॥
॥ अगस्त्य उवाच ॥
एवं सा विप्रवचसा विदधे सर्वमादरात् ॥
सुन्दरी साऽभवत्क्षिप्रं तत्स्थानं ख्यातिमाययौ ॥१०४॥
अत्र स्नानं मुनिश्रेष्ठ यः कुर्याद्विधिवज्जनः ॥
सौंदर्यं परमं तस्य भवेत्तत्र न संशयः ॥१०५॥
भाद्रे शुक्लतृतीयायां यात्रा सांवत्सरी भवेत् ॥
विष्णुरत्र जनैः पूज्यः सर्वकामार्थसिद्धये ॥१०६॥
एवं कुर्वन्नरो विद्वान्विष्णुलोके वसेत्सदा ॥
नरो वा यदि वा नारी सर्वान्कामानवाप्नुयात् ॥१०७॥
घोषार्ककुंडं परममुर्वशीकुंडदक्षिणे ॥
वर्तते मुनिशार्दूल सर्वपापापहं सदा ॥१०८॥
यत्र स्नानेन दानेन सूर्यलोके महीयते ॥
एतत्तीर्थस्य सदृशं नापरं विद्यते क्वचित् ॥१०९॥
व्रणी कुष्ठी दरिद्री वा दुःखाक्रांतोऽपि यो नरः ॥
करोति विधिवत्स्नानं सर्वान्कामानवाप्नुयात् ॥११०॥
रविवारे विशेषेण कर्त्तव्यं स्नानमादरात् ॥
भाद्रे मासि तथा माघे शुक्लषष्ठ्यां प्रयत्नतः ॥१११॥
कर्त्तव्यं विधिवत्स्नानं सूर्यलोकाभिकांक्षया ॥
पौषे मासि तथा स्नानं सूर्यवारे विशेषतः ॥११२॥
सप्तम्यां रवियुक्तायां स्नानं बहुफलप्रदम् ॥
घोषाभिधोऽभवत्पूर्वं सूर्यवंशे नरेश्वरः ॥११३॥
समुद्रमेखलामेकः पृथिवीं समपालयत् ॥
यस्य कीर्त्या प्रकाशंते त्रिलोकीमंडलानि वै ॥११४॥
यः प्रतापात्स्फुरन्भाति प्रभाकर इवापरः ॥
प्रचंडतरदोर्दंडखंडितारातिमंडलः ॥११५॥
स कदाचित्प्रजापालो मंत्त्रिविन्यस्तभूतलः ॥
बभ्राम मृगयासक्तो वनेऽतिगहनद्रुमे ॥११६॥
स राजा पूर्वजन्मोत्थपापैरशुभसूचकैः ॥
कृमिव्याप्तकरांभोजः सुन्दरोपि गतस्मयः ॥११७॥
मृगयायामभूदेकः कदाचित्पर्यटन्वने ॥
वराहसिंहहरिणान्निघ्नन्गच्छन्नितस्ततः ॥११८॥
तृषाक्रान्तो म्लानतनुः सरोऽपश्यत्पुरो नृपः ॥
ददर्श तत्र च मुनीन्स्नानसंध्यादितत्परान् ॥११९॥
ततो विधिवदाचम्य स्नानं चक्रे नरेश्वरः ॥
ततो दिव्यशरीरोऽभूदानंदामलमानसः ॥१२०॥
मुनिभिस्तीर्थमाज्ञाय चक्रे सूर्य्यस्तुतिं प्रियाम् ॥१२१॥
॥ राजोवाच ॥
भगवन्देवदेवेश नमस्तुभ्यं चिदात्मने ॥
नमः सवित्रे सूर्याय जगदानंददायिने ॥१२२॥
प्रभागेहाय देवाय त्रयीभूताय ते नमः ॥
विवस्वते नमस्तुभ्यं योगज्ञाय सदात्मने ॥१२३॥
पराय परमेशाय त्रिलोकीतिमिरच्छिदे ॥
अचिन्त्याय सदा तुभ्यं नमो भास्करतेजसे ॥१२४॥
योगप्रियाय योगाय योगज्ञाय सदा नमः ॥
ॐकाराय वषट्काररूपिणे ज्ञानरूपिणे ॥१२५॥
यज्ञाय यज्ञमानाय हविषे ऋत्विजे नमः ॥
रोगघ्नाय स्वरूपाय कमलानंददायिने ॥१२६॥
अतिसौम्यातितीक्ष्णाय सुराणां पतये नमः ॥
सत्राशाय नमस्तुभ्यं भक्तत्राय प्रियात्मने ॥१२७॥
प्रकाशकाय सततं लोकानां हितकारिणे ॥
प्रसीद प्रणतायाद्य मह्यं भक्तिकृते स्वयम् ॥१२८॥
॥ अगस्त्य उवाच ॥
इत्येवं ब्रुवतस्तस्य स प्रसन्नो रविः स्वयम् ॥
आविर्बभूव सहसा भक्तस्य प्रियकाम्यया ॥
उवाच मधुरं वाक्यं प्रश्रयानतमूर्द्धजम् ॥१२९॥
॥ रविरुवाच ॥
वरं वरय राजेंद्र प्रसन्नोऽस्मि तवाग्रतः ॥
ददामि तद्वरं तेऽद्य यत्त्वया मनसेप्सितम् ॥१३०॥
॥ राजोवाच ॥
भगवन्भास्करानंत प्रयच्छसि वरं यदि ॥
मन्नाम्ना कृतमूर्त्तिस्ते तिष्ठत्वत्र सदा विभो ॥१३१॥
॥ रविरुवाच ॥
एवमस्तु मनुष्येंद्र तव वांछा मनोहरा ॥
एतत्स्तोत्रं त्वयोक्तं मे ये पठिष्यंति मानवाः ॥१३२॥
तेभ्यस्तुष्टः प्रदास्यामि सर्वान्कामान्नरेश्वर ॥
एतत्स्थानं परां ख्यातिं त्वन्नाम्ना यास्यति क्षितौ ॥१३३॥
सर्वान्कामानवाप्नोति योऽत्र स्नानं समाचरेत्॥
मद्भक्तेन सदा राजन्कर्त्तव्यं स्नानमत्र वै ॥१३४॥
यंयं काममिहेच्छेत तंतं काममवाप्नुयात् ॥१३५॥
॥ अगस्त्य उवाच ॥
इति दत्त्वा वरं देवः कृपया परया युतः ॥
भास्वान्सहस्रकिरणस्तदान्तर्द्धानमाययौ ॥१३६॥
राजा भास्करदेहोत्थां रविमूर्त्तिमनुत्तमाम् ॥
तत्र संस्थापयामास पूजयामास च स्वयम् ॥१३७॥
घोषार्ककुण्डं तन्नाम्ना तत्र ख्यातिं जगाम ह ॥
यत्र स्नानान्नरो राजन्सूर्य्यलोके वसेत्सदा ॥१३८॥
इति रुचिरविधानैस्तूर्णमादित्यमूर्त्तिं विमलपरमभक्त्या पूजयित्वाऽऽदरेण ॥
तदमृतमयकुण्डे स्नानमादौ विधाय प्रचुरविमलकीर्तिः सूर्यलोके वसेत्सः ॥१३९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्ये बृहस्पतिकुण्डरुक्मिणीकुण्डधनयक्षतीर्थ वसिष्ठकुण्डसागरकुण्ड योगिनीकुण्डोर्वशीकुण्डघोषार्ककुंड माहात्म्यवर्णनंनाम सप्तमोऽध्यायः ॥७॥छ ॥
N/A
References : N/A
Last Updated : November 12, 2024
TOP