अयोध्यामाहात्म्यम् - अध्याय ६
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ अगस्त्य उवाच ॥
तस्मात्संगमतो विप्र पश्चिमे दिक्तटे स्थितम् ॥
सीताकुण्डमितिख्यातं सर्वकामफलप्रदम् ॥१॥
यत्र स्नात्वा नरो विप्र सर्वपापैः प्रमुच्यते ॥
सीतया किल तत्कुण्डं स्वयमेव विनिर्मितम् ॥
रामेण वरदानाच्च महाफलनिधीकृतम् ॥२॥
॥ श्रीराम उवाच ॥
शृणु सीते प्रवक्ष्यामि माहात्म्यं भुवि यादृशम् ॥
त्वत्कुण्डस्यास्य सुभगे त्वत्प्रीत्या कथयाम्यहम्॥ ३॥
अत्र स्नानं च दानं च जपो होमस्तपोऽथवा॥
सर्वमक्षयतां याति विधानेन शुचिस्मिते ॥४॥
मार्गकृष्णचतुर्दश्यां तत्र स्नानं विशेषतः ॥
सर्वपापहरं देवि सर्वदा स्नायिनां नृणाम् ॥५॥
इति रामो वरं प्रादात्सीतायै च प्रजाप्रियः ॥
तदाप्रभृति सर्वत्र तत्तीर्थं भुवि वर्त्तते ॥६॥
सीताकुण्डमिति ख्यातं जनानां परमाद्भुतम् ॥
तस्मिंस्तीर्थे नरः स्नात्वा नूनं राममवाप्नुयात् ॥७॥
तत्र स्नानेन दानेन तपसा च विशेषतः ॥
गन्धैर्माल्यैर्धूपदीपैर्न्नानाविभवविस्तरैः ॥
रामं संपूज्य सीतां च मुक्तः स्यान्नात्र संशयः ॥८॥
मार्गे मासि च स्नातव्यं गर्भवासो न जायते ॥
अन्यदापि नरः स्नात्वा विष्णुलोकं स गच्छति ॥९॥
विभोर्विष्णुहरेर्विप्र रम्ये पश्चिमदिक्तटे ॥
देवश्चक्रहरिर्नाम सर्वाभीष्टफलप्रदः ॥१०॥
तस्य चक्रहरेर्विप्र महिमा न हि मानवैः ॥
शक्यो वर्णयितुं धीरैरपि बुद्धिमतां वरैः॥११॥
ततः पश्चिमदिग्भागे नाम्ना पुण्यं हरिस्मृति ॥
विष्णोरायतनं ख्यातं परमार्थफलप्रदम्॥
यस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते ॥१२॥
तयोर्दर्शनतो यांति तेषां पापानि देहिनाम् ॥
तानि पापानि यावंति कुर्वते भुवि ये नराः ॥१३॥
पुरा देवासुरे जाते संग्रामे भृशदारुणे ॥
दैत्यैर्वरमदोत्सिक्तैर्देवा युधि पराजिताः ॥१४॥
तेषां पलायमानानां देवानामग्रणीर्हरः ॥
संस्तभ्य चैव तान्सर्वान्पुरस्कृत्यांबुजासनम् ॥१५॥
क्षीरोदशायिनं विष्णुं शेषपर्य्यंकशायिनम् ॥
लक्ष्म्योपविष्टं पार्श्वे च चरणांबुजहस्तया ॥१६॥
नारदाद्यैर्मुनिवरैरुद्गीतगुगौरवम् ॥
गरुडेन पुरःस्थेनानिशमंजलिना स्तुतम् ॥१७॥
क्षीराब्धिजलकल्लोलमदबिन्द्वंकिताम्बरम् ॥
तारकोत्करविस्फारतारहारविराजितम् ॥१८॥
पीतांबरमतिस्मेरविकाशद्भावभावितम् ॥
बिभ्रतं कुण्डलं स्थूलं कर्णाभ्यां मौक्तिकोज्ज्वलम् ॥१९॥
रत्नवल्लीमिव स्वच्छां श्वेतद्वीपनिवासिनीम् ॥
किरीटं पद्मरागाणां वलयं दधतं परम् ॥२०॥
मित्रस्य राहुवित्रासनिवर्त्तनमिवापरम् ॥
सकौस्तुभप्रभाचक्रं बिभ्राणं प्रवलारुणम् ॥२१॥
परां चतुर्मुखोत्पत्तिकल्पसंकल्पनामिव ॥
शरणं स जगामाशु विनीतात्मा स्तुवन्निति ॥२२॥
तस्मिन्नवसरे शंभुः सर्वदेवगणैः सह ॥
तुष्टाव प्रयतो भूत्वा विष्णुं जिष्णुं सुरद्विषाम् ॥२३॥
॥ ईश्वर उवाच ॥
संसारार्णवसंतारसुपर्णसुखदायिने ॥
मोह तीव्रतमो हारि चन्द्राय हरये नमः ॥२४॥
स्फुरत्संविन्मणिशिखां चित्तसंगतिचंद्रिकाम् ॥
प्रपद्ये भगवद्भक्तिमानसोद्यानवाहिनीम् ॥२५॥
हेलोल्लसत्समुत्साहशक्तिं व्याप्तजगत्त्रयाम् ॥
या पूर्वकोटिर्भावानां सत्त्वानां वैष्णवीति वा ॥२६॥
पवनांदोलितांभोजदलपर्वांतवर्त्तिनाम् ॥
पततामिव जन्तूनां स्थैर्यमेका हरिस्मृतिः ॥२७॥
नमः सूर्य्यात्मने तुभ्यं संवित्किरणमालिने ॥
हृत्कुशेशयकोषश्रीसमुन्मेषविधायिने ॥२८॥
नमस्तस्मै यमवते योगिनां गतये सदा ॥
परमेशाय वै पारे महसां तमसां तथा ॥२९॥
यज्ञाय भुक्तहविष ऋग्यजुःसामरूपिणे ॥
नमः सरस्वतीगीतदिव्यसद्गणशालिने ॥३०॥
शांताय धर्मनिधये क्षेत्रज्ञायामृतात्मने ॥
शिष्ययोगप्रतिष्ठाय नमो जीवैकहेतवे ॥
घोराय मायाविधये सहस्रशिरसे नमः ॥३१॥
योगनिद्रात्मने नाभिपद्मोद्भूतजगत्सृजे ॥
नमः सलिलरूपाय कारणाय जगत्स्थितेः ॥३२॥
कार्यमेयाय बलिने जीवाय परमात्मने ॥
गोप्त्रे प्राणाय भूतानां नमो विश्वाय वेधसे ॥३३॥
दृप्ताय सिंहवपुषे दैत्यसंहारकारिणे ॥
वीर्यायानंतमनसे जगद्भावभृते नमः ॥३४॥
संसारकारणाज्ञानमहासंतमसच्छिदे ॥
अचिन्त्यधाम्ने गुह्याय रुद्रायात्युद्विजे नमः ॥३५॥
शान्ताय शान्तकल्लोलकैवल्यपददायिने ॥
सर्वभावातिरिक्ताय नमः सर्वमयात्मने ॥३६॥
इन्दीवरदलश्यामं स्फूर्जत्किंजल्कविभ्रमम्॥
बिभ्राणं कौस्तुभं विष्णुं नौमि नेत्ररसायनम् ॥३७॥
॥ अगस्त्य उवाच ॥
इति स्तुतः प्रसन्नात्मा वरदो गरुडध्वजः ॥
ववर्ष दृष्टिसुधया सर्वान्देवान्कृपान्वितः ॥
उवाच मधुरं वाक्यं प्रश्रयावनतान्सुरान् ॥३८॥
॥ श्रीभगवानुवाच ॥
जानामि विबुधाः सर्वमभिप्रायं समाधितः ॥
दैतेयैर्विक्रमाक्रान्तं पदं समरदर्पितैः ॥३९॥
सबलैर्बलहीनानां प्रतापो विजितः परैः ॥
सांप्रतं तु विधास्यामि तपो युष्मद्बलाय वै ॥४०॥
अयोध्यानगरे गत्वा करिष्ये तप उत्तमम् ॥
गुप्तो भूत्वा भवत्तेजोविवृद्ध्यै दैत्यशान्तये ॥४१॥
भवन्तोऽपि तपस्तीव्रं कुर्वंत्वमलमानसाः ॥
अयोध्यां प्राप्यतां देवा दैत्यनाशाय सत्वरम् ॥४२॥
॥ अगस्त्य उवाच ॥
इत्युक्त्वांतर्दधे देवान्देवो गरुडवाहनः ॥
अयोध्यामागतः क्षिप्रं चकार तप उत्तमम् ॥४३॥
गुप्तो भूत्वा यदा विद्वन्सुरतेजोभिवृद्धये ॥
तेन गुप्तहरिर्नाम देवो विख्यातिमागतः ॥४४॥
आगतस्य हरेः पूर्वं यत्र हस्ततलाच्च्युतम् ॥
सुदर्शनाख्यं तच्चक्रं तेन चक्रहरिः स्मृतः ॥४५॥
तयोर्दर्शनमात्रेण सर्वपापैः प्रमुच्यते ॥
हरस्तेन प्रभावेण देवाः प्रबलतेजसः ॥४६॥
जित्वा दैत्यान्रणैः सर्वान्संप्राप्य स्वपदान्यथ ॥
रेजिरे विपुलानंदैरसुरानार्दयंस्ततः ॥४७॥
ततः सर्वे समेत्याशु बृहस्पतिपुरस्सराः ॥
देवाः सर्वेऽनमन्मौलिमालार्च्चित पदाम्बुजम् ॥
हरिं द्रष्टुमथागच्छन्नयोध्यायां समुत्सुकाः ॥४८॥
आगत्य च ततः श्रुत्वा नानाविधगुणादरम् ॥
भावैः पुण्यैः समभ्यर्च्य नत्वा प्रांजलयस्तदा ॥
हरिमेकाग्रमनसा ध्यायन्तो ध्याननिष्ठिताः ॥४९॥
तानागतान्समालोक्य पदभक्त्या कृतानतीन् ॥
प्रसन्नः प्राह विश्वात्मा पीतवासा जनार्दनः ॥५०॥
॥ श्रीभगवानुवाच ॥
भोभो देवा भवन्तश्च चिराद्दिष्टयाद्यसंगताः ॥
अधुना भवतामिच्छां कां करोमि सुरा अहम् ॥
तद्ब्रूत त्वरिता मह्यं किं विलंबेन निर्भयाः ॥५१॥
देवा ऊचुः ॥
भगवन्देवदेवेश त्वया संप्रति सर्वशः ॥
सर्वं समभवत्कार्यं निष्पन्नं वै जगत्पते ॥५२॥
तथापि सर्वदा भाव्यं नित्यं देव त्वया विभो ॥
अस्मद्रक्षार्थमत्रैव विजितेन्द्रियवर्त्मना ॥५३॥
एवमेव सदा कार्यं शत्रुपक्षविनाशनम् ॥५४॥
॥ श्रीभगवानुवाच ॥
एवमेतत्करिष्यामि भवतामरिसंजयम् ॥
श्रीमतां तेजसो वृद्धिं करिष्यामि सदासुराः ॥
कथेयं च सदा ख्यातिं लोके यास्यति चोत्तमाम् ॥५५॥
अयं नाम्ना गुप्तहरिर्देवो भुवनविश्रुतः ॥
मदीयं परमं गुह्यं स्थानं ख्यातिं समेष्यति ॥५६॥
अत्र यः प्राणिनां श्रेष्ठः पूजायज्ञजपादिकम् ॥
करोति परया भक्त्या स याति परमां गतिम्॥ ५७॥
अत्र यः कुरुते दानं यथाशक्त्या जितेन्द्रियः ॥
स स्वर्गमतुलं प्राप्य न शोचति कदाचन ॥५८॥
अत्र मत्प्रीतये देवाः प्राणिभिर्धर्मकांक्षिभिः ॥
दातव्या गौः प्रयत्नेन सवत्सा विधिपूर्वकम् ॥५९॥
स्वर्णशृंगी रौप्यखुरी वस्त्रद्वयसमावृता ॥
कांस्योपदोहना ताम्रपृष्ठी बहुगुणान्विता॥६०॥
रत्नपुच्छा दुग्धवती घंटाभरणभूषिता ॥
अर्चिता गंधपुष्पाद्यैः सुप्रसन्नाऽमृतप्रजा ॥६१॥
द्विजाय वेदविज्ञाय गुणिने निर्मलात्मने ॥
विष्णुभक्ताय विदुषे आनृशंस्यरताय च ॥६२॥
ब्राह्मणाय च गौर्देया सर्वत्रसुखमश्नुते ॥
न देया द्विजमात्राय दातारं सोऽवपातयेत् ॥६३॥
मत्प्रीतयेऽत्र दातव्या निर्मलेनांतरात्मना ॥६४॥
स्नातं यैश्च विशुद्ध्यर्थमत्र मद्भक्तितत्परैः ॥
तेषां स्वर्गतयो नित्यं मुक्तिः करतले स्थिता ॥६५॥
तथा चक्रहरेः पीठे मत्प्रीत्यै दानमुत्तमम् ॥
जपहोमादिकं चापि कर्त्तव्यं यत्नतो नरैः ॥६६॥
भवन्तोऽपि विधानेन यात्रां कुर्वंतु सत्तमाः ॥
अस्माद्गुप्तहरेः स्थानान्निकटे संगमे शुभे ॥६७॥
प्रत्यग्भागे गोप्रताराद्योजनत्रयसंमिते ॥
घर्घरांबुतरंगिण्या सरयूः संगता यतः ॥६८॥
अत्र स्नात्वा विधानेन द्रष्टव्योऽत्र प्रयत्नतः ॥
देवो गुप्तहरिर्नाम सर्वकामार्थसिद्धिदः ॥६९॥
॥ अगस्त्य उवाच ॥
इत्युक्त्वांतर्दधे देवः पीताम्बरधरोऽच्युतः ॥
देवा अपि विधानेन कृत्वा यात्रां प्रयत्नतः ॥
अयोध्यायां स्थिता नित्यं हरेर्गुणविमोहिताः ॥७०॥
तदाप्रभृति विप्रेंद्र तत्स्थानं भुवि पप्रथे ॥
कार्तिक्यां तु विशेषेण यात्रा सांवत्सरी भवेत् ॥७१॥
विभोर्गुप्तहरेस्तत्र संगमस्नानपूर्विका ॥
गोप्रतारे च तीर्थेऽस्मिन्सरयूघर्घराश्रिते ॥
स्नात्वा देवोऽर्चनीयोऽयं सर्वकामफलप्रदः ॥७२॥
तथा चक्रहरेर्यात्रा कर्त्तव्या सुप्रयत्नतः ॥
मार्गशार्षस्य विशदे पक्षे हरितिथौ नरैः ॥७३॥
एवं यः कुरुते यात्रां विष्णुलोके स मोदते ॥७४॥
॥ श्रीसूत उवाच ॥
एवमुक्त्वा तु विरते मुनौ कलशजन्मनि ॥
कृष्णद्वैपायनो व्यासः पुनराह सविस्मयः ॥७५॥
॥ व्यास उवाच ॥
अत्याश्चर्य्यमयीं ब्रह्मन्कथामेतां तपोधन ॥
उक्तवानसि येनैतत्साश्चर्य्यं मम मानसम् ॥७६॥
विस्तरेण मम ब्रूहि माहात्म्यं परमाद्भुतम् ॥७७॥
शृणु संगममाहात्म्यं विप्रेंद्र परमाद्भुतम् ॥
स्कन्ददेवाच्छ्रुतं सम्यक्कथयामि तथा तव ॥७८॥
दशकोटिसहस्राणि दशकोटिशतानि च ॥
तीर्थानि सरयूनद्या घर्घरोदकसंगमे ॥
निवसंति सदा विप्र स्कन्दादवगतं मया ॥७९॥
देवतानां सुराणां च सिद्धानां योगिनां तथा ॥
ब्रह्मविष्णुशिवानां च सान्निध्यं सर्वदा स्थितम् ॥८०॥
तस्मिन्संगमसलिले नरः स्नात्वा समाहितः ॥
संतर्प्य पितृदेवांश्च दत्त्वा दानं स्वशक्तितः ॥८१॥
हुत्वा वैष्णवमंत्रेण शुचिर्यत्फलमाप्नुयात् ॥
तदिहैकमना विप्र शृणु यत्कथयामि ते ॥८२॥
अश्वमेधसहस्रस्य वाजपेयशतस्य च ॥
कुरुक्षेत्रे महाक्षेत्रे राहुग्रस्ते दिवाकरे ॥८३॥
सुवर्णदाने यत्पुण्यमहन्यहनि तद्भवेत् ॥८४॥
अमावास्यां पौर्णमास्यां द्वादश्योरुभयोरपि ॥
अयने च व्यतीपाते स्नानं वैष्णवलोकदम् ॥८५॥
तिष्ठेद्युगसहस्रं तु पादेनैकेन यः पुमान् ॥
विधिवत्संगमे स्नायात्पौष्यां तदविशेषतः ॥८६॥
लंबतेऽवाक्छिरा यस्तु युगानामयुतं पुमान् ॥
स्नातानां शुचिभिस्तोयैः संगमे प्रयतात्मनाम् ॥८७॥
व्युष्टिर्भवति या पुंसां न सा क्रतुशतैरपि ॥८८॥
पौषे मासि विशेषेण स्नानं बहुफलप्रदम् ॥८९॥
पौषे मासि विशेषेण यः कुर्यात्स्नानमादृतः ॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा वर्णसंकरः ॥
स याति ब्रह्मणः स्थानं पुनरावृत्तिवर्जितम् ॥९०॥
पौषे मासे तु यो दद्याद्घृताढ्यं दीपमुत्तमम् ॥
विधिवच्छ्रद्धया विप्र शृणु तस्यापि यत्फलम् ॥९१॥
नानाजन्मार्जितं पापं स्वल्पं बह्वपि वा भवेत् ॥
तत्सर्वं नश्यति क्षिप्रं तोयस्थं लवणं यथा ॥९२॥
आयुरारोग्यमैश्वर्यं संततीः सौख्यमुत्तमम् ॥
प्राप्नोति फलदं नित्यं दीपदः पुण्यभाङ्नरः ॥९३॥
यस्तु शुक्लत्रयोदश्यां पौषेऽत्र प्रयतो व्रती ॥
जागरं कुरुते धीरः स गच्छेद्भवनं हरेः ॥९४॥
जागरं विदधद्रात्रौ दीपं दत्त्वा तु सर्वशः ॥
होमं च कारयेद्विप्रो नियतात्मा शुचिव्रतः ॥९५॥
वैष्णवो विष्णुपूजां च कुर्वञ्छृण्वन्हरेः कथाम् ॥
गीतवादित्रनृत्यैश्च विष्णुतोषणकारकैः ॥
कथाभिः पुण्ययुक्ताभिर्जागृयाच्छर्वरीं नरः ॥९६॥
ततः प्रभाते विमले स्नात्वा विधिवदादरात् ॥
विष्णुं संपूज्य विप्रांश्च देयं स्वर्णादि शक्तितः ॥९७॥
स्वर्णं चान्नं च वासांसि यो दद्याच्छ्रद्धयाऽन्वितः ॥
संगमे विधिवद्विद्वान्स याति परमां गतिम् ॥९८॥
वर्षेवर्षे तु कर्तव्यो जागरः पुण्यतत्परैः ॥९९॥
हरिः पूज्यो द्विजाः सम्यक्संतोष्याः शक्तितो नरैः ॥
तेन विष्णोः परा तुष्टिः पापानि विफलानि च ॥
भवंति निर्विषाः सर्पा यथा तार्क्ष्यस्य दर्शनात् ॥१००॥
तत्र स्नातो दिवं याति अत्र स्नातः सुखी भवेत ॥१०१॥
त्रिषु लोकेषु ये केचित्प्राणिनः सर्व एव ते ॥
तर्प्यमाणाः परां तृप्तिं यांति संगमजैर्जलैः ॥१०२॥
भूतानामिह सर्वेषां दुःखोपहतचेतसाम् ॥
गतिमन्वेषमाणानां न संगमसमा गतिः ॥१०३॥
सप्तावरान्सप्तपरान्पुरुषश्चात्मनासह ॥
पुंसस्तारयते सर्वान्संगमे स्नानमाचरन् ॥१०४॥
जात्यंधैरिह ते तुल्यास्तथा पंगुभिरेव च ॥
समेत्यात्र च न स्नान्ति सरयूघर्घरसंगमे ॥१०५॥
वर्णानां ब्राह्मणो यद्वत्तथा तीर्थेषु संगमः ॥
सरयूघर्घरायोगे वैष्णवस्थो नरः सदा ॥१०६॥
अत्र स्नानेन दानेन यथा शक्त्या जितेंद्रियः ॥
होमेन विधिपुक्तेन नरः स्वर्गमवाप्नुयात् ॥१०७॥
नरो वा यदि वा नारी विधिवत्स्नानमाचरेत् ॥
स्वर्गलोकनिवासो हि भवेत्तस्य न संशयः ॥१०८॥
यथा वह्निर्दहेत्सर्वं शुष्कमार्द्रमथापि वा ॥
भस्मीभवंति पापानि तत्समागममज्जनात् ॥१०९॥
एकतः सर्वतीर्थानि नानाविधिफलानि वै ॥
सरयूघर्घरोत्पन्नसंगमस्त्वधिको भवेत् ॥११०॥
सर्वतीर्थावगाहस्य फलं यादृक्स्मृतं श्रुतौ ॥
तादृक्फलं नृणां सम्यग्भवेत्संगममज्जनात् ॥१११॥
गोप्रताराभिधं तीर्थमपरं वर्ततेऽनघ ॥
सन्निधौ संगमस्यैव महापातकनाशनम् ॥११२॥
यत्र स्नानेन दानेन न शोचति नरः क्वचित् ॥
गोप्रतारसमं तीर्थं न भूतं न भविष्यति ॥११३॥
वाराणस्यां यथा विद्वन्वर्त्तते मणिकर्णिका ॥
उज्जयिन्यां यथा विप्र महाकालनिकेतनम् ॥११४॥
नैमिषे चक्रवापी तु यथा तीर्थतमा स्मृता ॥
अयोध्यायां तथा विप्र गोप्रताराभिधं महत् ॥११५॥
यत्र रामाज्ञया विद्वन्साकेतनगरीजनाः ॥
अवापुः स्वर्गमतुलं निमज्ज्य परमांभसि ॥११६॥
॥ व्यास उवाच ॥
अवापुस्ते कथं स्वर्गं साकेतनगरीजनाः ॥
कथं च राघवो विद्वन्नेतत्कथय सुव्रत ॥११७॥
॥ अगस्त्य उवाच ॥
सावधानः शृणु मुने कथामेतां सुविस्तरात् ॥
यथाजगाम रामोऽसौ स्वर्गं स च पुरीजनः ॥११८॥
पुरा रामो विधायैव देवकार्य्यमतंद्रितः ॥
स्वर्गं गंतुं मनश्चक्रे भ्रातृभ्यां सह वीरधीः ॥११९॥
ततो निशम्य चारेण वानराः कामरूपिणः ॥
ऋक्षगोपुच्छरक्षांसि समुत्पेतुरनेकशः ॥१२०॥
देवगंधर्वपुत्राश्च ऋषिपुत्राश्च वानराः ॥
रामक्षयं विदित्वा तु सर्व एव समागताः ॥१२१॥
ते राममनुगत्योचुः सर्वे वानरयूथपाः ॥
तवानुगमने राजन्संप्राप्ताः स्म इहानघ ॥१२२॥
यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषर्षभ ॥
सर्वे खलु हताः स्याम दण्डेन महता नृप ॥१२३॥
श्रुत्वा तु वचनं तेषामृक्षवानररक्षसाम्॥
विभीषणमुवाचाथ राघवस्तत्क्षणं गिरा ॥२२४॥
यावत्प्रजा धरिष्यंति तावदेव विभीषण ॥
कारयस्व महद्राज्यं लंकां त्वं पालयिष्यसि ॥१२५॥
शाधि राज्यं च खल्वेतन्नान्यथा मे वचः कुरु ॥
प्रजास्त्वं रक्ष धर्मेण नोत्तरं वक्तुमर्हसि ॥१२६॥
एवमुक्त्वा तु काकुत्स्थो हनुमंतमथाब्रवीत् ॥
वायुपुत्र चिरं जीव मा प्रतिज्ञां वृथा कृथाः ॥१२७॥
यावल्लोका वदिष्यंति मत्कथां वानरर्षभ ॥
तावत्त्वं धारय प्राणान्प्रतिज्ञां प्रतिपालयन् ॥१२८॥
मैन्दश्च द्विविदश्चैव अमृतप्राशनावुभौ ॥
यावल्लोका धरिष्यंति तावदेतौ धरिष्यतः ॥१२९॥
पुत्रपौत्राश्च येऽस्माकं तान्रक्षन्त्विह वानराः ॥
एवमुक्त्वा तु काकुत्स्थः सर्वानथ च वानरान् ॥
मया सार्धं प्रयातेति तदा तान्राघवोऽब्रवीत् ॥१३०॥
प्रभातायां तु शर्वर्य्यां पृथुवक्षा महाभुजः ॥
रामः कमलपत्राक्षः पुरोधसमथाब्रवीत् ॥१३१॥
अग्निहोत्राणि यांत्वग्रे दीप्यमानानि सर्वशः ॥
वाजपेयातिरात्राणि निर्यातु च ममाग्रतः ॥१३२॥
ततो वसिष्ठस्तेजस्वी सर्वं निश्चित्य चेतसा ॥
चकार विधिवत्कर्म महाप्रास्थानिकं विधिम् ॥१३३॥
ततः क्षौमाम्बरधरो ब्रह्मचर्यसमन्वितः ॥
कुशानादाय पाणिभ्यां महाप्रस्थानमुद्यतः ॥१३४॥
न व्याहरच्छुभं किंचिदशुभं वा नरेश्वरः ॥
निष्क्रम्य नगरात्तस्मात्सागरादिव चंद्रमाः ॥१३५॥
रामस्य सव्यपार्श्वे तु सपद्मा श्रीः समाश्रिता ॥
दक्षिणे ह्रीर्विशालाक्षी व्यवसायस्तथाग्रतः ॥१३६॥
नानाविधायुधान्यत्र धनुर्ज्याप्रभृतीनि च ॥
अनुव्रजंति काकुत्स्थं सर्वे पुरुष विग्रहाः ॥१३७॥
वेदो ब्राह्मणरूपेण सावित्री सव्यदक्षिणे ॥
ॐकारोऽथ वषङ्कारः सर्वे रामं तदाऽव्रजन् ॥१३८॥
ऋषयश्च महात्मानः सर्वे चैव महीधराः ॥
अनुगच्छन्ति काकुत्स्थं स्वर्गद्वारमुपस्थितम् ॥१३९॥
तथानुयांति काकुत्स्थमंतःपुरगताः स्त्रियः ॥
सवृद्धाबालदासीकाः सपर्षद्द्वाररक्षकाः ॥१४०॥
सान्तःपुरश्च भरतः शत्रुघ्नसहितो ययौ ॥
रामं व्रजंतमागम्य रघुवंशमनुव्रताः ॥१४१॥
ततो विप्रा महात्मानः साग्निहोत्राः समंततः ॥
सपुत्रदाराः काकुत्स्थमनुगच्छति सर्वशः ॥१४२॥
मंत्रिणो भृत्ययुक्ताश्च सपुत्राः सहबांधवाः ॥
सर्वे ते सानुगाश्चैव ह्यनु गच्छंति राघवम् ॥१४३॥
ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताः ॥
गच्छंतमनुगच्छंतिराघवं गुणरंजिताः ॥१४४॥
तथा प्रजाश्च सकलाः सपुत्राश्च सवबांधवाः ॥
राघवस्यानुगाश्चासन्दृष्ट्वा विगतकल्मषम् ॥१४५॥
स्नाताः शुक्लाम्बरधराः सर्वे प्रयतमानसाः ॥
कृत्वा किलकिलाशब्दमनुयाताश्च राघवम् ॥१४६॥
न कश्चित्तत्र दीनोऽभून्न भीतो नातिदुःखितः ॥
प्रहृष्टा मुदिताः सर्वे वभूवुः परमाद्भुताः ॥१४७॥
द्रष्टुकामाश्च निर्वाणं राज्ञो जनपदास्तथा ॥
संप्राप्तास्तेऽपि दृष्ट्वैव नभोमार्गेण चक्रिणम् ॥१४८॥
ऋक्षवानररक्षांसि जनाश्च पुरवासिनः ॥
आगत्य परया भक्त्या पृष्ठतः समुपाययुः ॥१४९॥
तानि भूतानि नगरे ह्यन्तर्धानगतान्यपि ॥
राघवं तेऽप्यनुययुः स्वर्गद्वारमुपस्थितम् ॥१५०॥
यानि पश्यंति काकुत्स्थं स्थावराणि चराणि च ॥
सत्त्वानि स्वर्गगमने मतिं कुर्वंति तान्यपि ॥१५१॥
नासीत्सत्त्वमयोध्यायां सुसूक्ष्ममपि किंचन ॥
यद्राघवं नानुयाति स्वर्गद्वारमुपस्थितम् ॥१५२॥
अथार्द्धयोजनं गत्वा नदीं पश्चान्मुखो ययौ ॥
सरयूं पुण्यसलिलां ददर्श रघुनंदनः ॥१५३॥
अथ तस्मिन्मुहूर्ते तु ब्रह्मा लोकपितामहः ॥
सर्वैः परिवृतो देवैर्ऋषिभिश्च महात्मभिः ॥
आययौ तत्र काकुत्स्थं स्वर्गद्वारमुपस्थितम् ॥१५४॥
विमानशतकोटीभिर्दिव्याभिः सर्वतो वृतः ॥
दीपयन्सर्वतो व्योम ज्योतिर्भूतमनुत्तमम् ॥१५५॥
स्वयंप्रभैश्च तेजोभिर्महद्भिः पुण्यकर्मभिः ॥
पुण्या वाता ववुस्तत्र गन्धवंतः सुखप्रदाः ॥१५६॥
सपुण्यपुष्पवर्षं च वायुयुक्तं महाजवम् ॥
गन्धर्वैरप्सरोभिश्च तस्मिन्सूर्यउपस्थितः ॥१५७॥
शरयूसलिलं रामः पद्भ्यां स समुपास्पृशत् ॥
ततो ब्रह्मा सुरैर्युक्तः स्तोतुं समुपचक्रमे ॥१५८॥
त्वं हि लोकपतिर्देव न त्वां जानाति कश्चन ॥
अहं ते वै विशालाक्ष भूतपूर्वपरिग्रहः ॥१५९॥
त्वमचिंत्यं महद्भूतमक्षयं लोकसंग्रहे ॥
यामिच्छसि महावीर्य तां तनुं प्रविश स्वकाम् ॥१६०॥
पितामहस्य वचनादिदमेवाविशत्स्वयम् ॥
सुदिव्यं वैष्णवं तेजः संसारं स सहानुजः ॥
ततो विष्णुतनुन्देवाः पूजयन्तः सुरोत्तमम् ॥१६१॥
साध्या मरुद्गणाश्चैव सेन्द्राः साग्निपुरोगमाः ॥
ये च दिव्या ऋषिगणा गन्धर्वाप्सरसस्तथा ॥
सुपर्णा नागयक्षाश्च दैत्यदानवराक्षसाः ॥१६२॥
देवाः प्रहृष्टा मुदिताः सर्वे पूर्णमनोरथाः ॥
साधुसाध्विति ते सर्वे त्रिदिवस्था बभाषिरे ॥१६३॥
अथ विष्णुर्महातेजाः पितामहमुवाच ह ॥
एषां लोकं जनौघानां दातुमर्हसि सुव्रत ॥१६४॥
इमे तु सर्वे मत्स्नेहादायाताः सर्वमानवाः ॥
भक्ताश्च भक्तिमन्तश्च त्यक्तात्मानोऽपि सर्वशः ॥१६५॥
तच्छ्रुत्वा विष्णुकथितं सर्वलोकेश्वरोऽब्रवीत् ॥
लोकं सन्तानिकं नाम संस्थास्यंति हि मानवाः ॥१६६॥
स्वर्गद्वारेऽत्र वै तीर्थे राममेवानुचिन्तयन् ॥
प्राणांस्त्यजति भक्त्या वै स संतानं परं लभेत् ॥१६७॥
सर्वे संतानिकंनाम ब्रह्मलोकादनन्तरम् ॥
वानराश्च स्वकां योनिं राक्षसाश्चापि राक्षसीम्॥१६८॥
यस्या विनिःसृता ये वै सुरासुरतनूद्भवाः ॥
आदित्यतनयश्चैव सुग्रीवः सूर्यमण्डलम् ॥१६९॥
ऋषयो नागयक्षाश्च प्रयास्यन्ति स्वकारणम् ॥
तथा ब्रुवति देवेशे गोप्रतारमुपस्थितम् ॥१७०॥
तज्जलं सरयूं भेजे परिपूर्णं ततो जलम् ॥
अवगाह्य जलं सर्वे प्राणांस्त्यक्त्वा प्रहृष्टवत् ॥१७१॥
मानुषं देहमुत्सृज्य ते विमानान्यथारुहन् ॥
तिर्यग्योनिगता ये च प्रविश्य सरयूं तदा ॥१७२॥
देहत्यागं च ते तत्र कृत्वा दिव्यवपुर्द्धराः ॥
तथान्यान्यपि सत्त्वानि स्थावराणि चराणि च ॥१७३॥
प्राप्य चोत्तमदेहं वै देवलोकमुपागमन् ॥
तस्मिंस्तत्र समापन्ने वानरा ऋक्षराक्षसाः ॥
तेऽपि प्रविविशुः सर्वे देहान्निक्षिप्य वै तदा ॥१७४॥
तदा स्वर्गं गताः सर्वे स्मृत्वा लोकगुरुं विभुम् ॥
जगाम त्रिदशैः सार्द्धं रामो हृष्टो महामतिः ॥१७५॥
अतस्तद्गोप्रताराख्यं तीर्थं विख्यातिमागतम् ॥
गोप्रतारे परो मोक्षो नान्यतीर्थेषु विद्यते ॥१७६॥
जन्मान्तरशतैर्विप्र योगोऽयं यदि लभ्यते ॥
मुक्तिर्भवति तत्त्वेकजन्मना लभ्यते न वा ॥१७७॥
गोप्रतारे न सन्देहो हरिर्भक्त्या सुनिष्ठितः ॥
एकेन जन्मनान्योऽपि योगमोक्षं च विन्दति ॥१७८॥
गोप्रतारे नरो विद्वान्योऽपि स्नाति सुनिश्चितः ॥
विशत्यसौ परं स्थानं योगिनामपि दुर्लभम् ॥१७९॥
कार्तिक्यां च विशेषेण स्नातव्यं विजितेन्द्रियैः ॥
कार्तिके मासि विप्रर्षे सर्वे देवाः सवासवाः ॥
स्नातुमायान्त्ययोध्यायां गोप्रतारे विशेषतः ॥१८०॥
गोप्रतारसमं तीर्थं न भूतं न भविष्यति ॥
यत्र प्रयागराजोऽपि स्नातुमायाति कार्तिके ॥१८१॥
निष्पापः कलुषं त्यक्त्वा शुक्लांगः सितकंचुकः ॥
शुद्ध्यर्थं साधुकामोऽसौ प्रयागे मुनिसत्तमः ॥१८२॥
यानि कानि च तीर्थानि भूमौ दिव्यानि सुव्रत ॥
कार्तिक्यां तानि सर्वाणि गोप्रतारे वसन्ति वै ॥१८३॥
गोप्रतारे जपो होमः स्नानं दानं च शक्तितः ॥
सर्वमक्षयतां याति श्रद्धया नियमव्रतम् ॥१८४॥
कार्तिके प्राप्य तद्यन्ति तीर्थानि सकलान्यपि ॥
गोप्रतारं गमिष्यामः पापं त्यक्तुमितीच्छया ॥१८५॥
गोप्रतारे कृतं स्नानं सर्वपापप्रणाशनम् ॥
गोप्रतारे नरः स्नात्वा दृष्ट्वा गुप्तहरिं विभुम् ॥
सर्वपापैः प्रमुच्येत नात्र कार्या विचारणा ॥१८६॥
विष्णुमुद्दिश्य विप्राणां पूजनं च विशेषतः ॥
कर्त्तव्यं श्रद्धया युक्तैः स्नानपूर्वं यतव्रतैः ॥१८७॥
पयस्विनी च गौर्देया सालंकारा च शक्तितः ॥
विप्राय वेदविदुषे नियमव्रतशालिने ॥
ब्राह्मणायातिशुचये विष्णुप्रीत्यै यतात्मना ॥१६८॥
अन्नं बहुविधं हेम वासांसि विविधानि च ॥
दातव्यानि हरेः प्राप्त्यै भक्त्या परमया युतैः ॥१८९॥
सूर्यग्रहे कुरुक्षेत्रे नर्मदायां शशिग्रहे ॥
तुलादानस्य यत्पुण्यं तदत्र दीपदानतः ॥१९०॥
घृतेन दीपको यस्य तिलतैले न वा पुनः ॥
ज्वलते मुनिशार्दूल हयमेधेन तस्य किम् ॥१९१॥
तेनेष्टं क्रतुभिः सर्वैः कृतं तीर्थावगाहनम् ॥
दीपदानं कृतं येन कार्त्तिके केशवाग्रतः ॥१९२॥
नानाविधानि तीर्थानि भुक्तिमुक्तिप्रदानि च ॥
गोप्रतारस्य तान्यत्र कलां नार्हंति षोडशीम् ॥१९३॥
स्वर्णमल्पं च यो दद्याद्ब्राह्मणे वेदपारगे ॥
शुभां गतिमवाप्नोति ह्यग्निवच्चैव दीप्यते ॥१९४॥
गोप्रताराभिधे तीर्थे त्रिलोकीविश्रुते द्विज ॥
दत्त्वान्नं च विधानेन न स भूयोऽभिजायते ॥१९५॥
तत्र स्नानं तु यः कुर्याद्विप्रान्संतर्पयेन्नरः ॥
सौत्रामणेश्च यज्ञस्य फलं प्राप्नोति मानवः ॥१९६॥
एकाहारस्तु यस्तिष्ठेन्मासं तत्र यतव्रतः ॥
यावज्जीवकृतं पापं सहसा तस्य नश्यति ॥१९७॥
अग्निप्रवेशं ये कुर्युर्गोप्रतारे विधानतः ॥
ते विशंति पदं विष्णोर्निःसंदग्धं तपोधन ॥१९८॥
कुर्वंत्यनशनं येऽत्र विष्णुभक्त्या सुनिश्चिताः ॥
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥१९९॥
अर्चयेद्यस्तु गोविंदं गोप्रतारे हि मानवः ॥
दशसौवर्णिकं पुण्यं गोप्रतारे प्रकथ्यते ॥२००॥
अग्निहोत्रफलो धूपो गोविंदस्य समर्पितः ॥
भूमिदानेन सदृशं गंधदानफलं स्मृतम् ॥२०१॥
अत्यद्भुतमिदं विद्वन्स्थानमेतत्प्रकीर्तितम् ॥
कार्त्तिक्यां तु विशेषेण अत्र स्नात्वा शुचिव्रतः ॥२०२॥
स्वर्गद्वारे नरः स्नात्वा दशस्वर्णफलं लभेत् ॥
स्वर्णदः स्वर्गवासी च यो दद्याच्छ्रद्धयान्वितः ॥२०३॥
सुतीर्थे पर्वणि श्रेष्ठे दशस्वर्णफलप्रदे ॥
ज्येष्ठशुक्लचतुर्दश्यां रात्रौ जागरणं चरेत् ॥२०४॥
उपोषितः शुचिः स्नातो विष्णुपूजनतत्परः ॥
दीपं दद्यात्प्रयत्नेन नानाफलविधायिनम् ॥२०५॥
तावद्गर्जंति पुण्यानि स्वर्गे मर्त्ये रसातले ॥
यावद्दद्याज्जले दीपं कार्त्तिके केशवाग्रतः ॥२०६॥
पौर्णमास्यां प्रभाते तु स्नात्वा निर्मलमानसः ॥
हरिं संपूज्य विधिवद्विधाय श्राद्धमादरात् ॥२०७॥
दत्त्वान्नं च यथाशक्त्या संतोष्य ब्राह्मणांस्ततः ॥
वस्त्रादिभिरलंकारैः संपूज्य द्विजदंपती ॥२०८॥
विभुं गुप्तहरिं दृष्ट्वा संपूज्य तु विशेषतः ॥
नमस्कृत्यानु तत्तीर्थं शुचिस्तद्गतमानसः ॥२०९॥
स्वर्गद्वारे च विधिवन्मध्याह्ने स्नानमाचरेत् ॥
सर्वपापविशुद्धात्मा विष्णुलोके महीयते ॥२१०॥
इति परमविधानैर्गोप्रतारे विधाय प्रथितसुकृतमूर्त्तिः स्नानमुच्चैः प्रयत्नात् ॥
कलितनिखिलपापः पूजयित्वादरेणाच्युतममलविकाशो विष्णुसायुज्यमेति ॥२११॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्ये स्वर्गद्वारगोप्रतारतीर्थमाहात्म्यवर्णनंनाम षष्ठोऽध्यायः ॥६॥
N/A
References : N/A
Last Updated : November 12, 2024
TOP