अयोध्यामाहात्म्यम् - अध्याय २

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ सूत उवाच ॥
अगस्त्यमुनिरित्युक्त्वा चक्रतीर्थाश्रयां कथाम् ॥
विभोर्विष्णुहरेश्चापि पुनराह द्विजोत्तमाः ॥१॥
॥अगस्त्य उवाच ॥
पुरा ब्रह्मा जगत्स्रष्टा विज्ञाय हरिमच्युतम् ॥
अयोध्यावासिनं देवं तत्र चक्रे स्थितिं स्वयम् ॥२॥
आगत्य कृतवांस्तत्र यात्रां ब्रह्मा यथाविधि ॥
यज्ञं च विधिवच्चक्रे नानासंभारसंयुतम् ॥३॥
ततः स कृतवांस्तत्र ब्रह्मा लोकपितामहः ॥
कुण्डं स्वनाम्ना विपुलं नानादेवसमन्वितम् ॥४॥
विस्तीर्णजलकल्लोलकलितं कलुषापहम् ॥
कुमुदोत्पलकह्लारपुंडरीककुलाकुलम् ॥५॥
हंससारसचक्राह्व विहंगममनोहरम् ॥
तटांतविटपोल्लासि पतत्त्रिगणसंकुलम् ॥६॥
तत्र कुण्डे सुराः सर्वे स्नाताः शुद्धिसमन्विताः ॥
बभूवुरद्धा विगतरजस्का विमलत्विषः ॥७॥
तदाश्चर्य्यं महद्दृष्ट्वा ते सर्वे सहसा सुराः ॥
ब्रह्माणं प्रणिपत्योचुर्भक्त्या प्रांजलयस्तदा ॥८॥
॥ देवा ऊचुः ॥
भगवन्ब्रूहि तत्त्वेन माहात्म्यं कमलासन ॥
अस्य कुण्डस्य सकलं खातस्य विमलत्विषः ॥९॥
अत्र स्नानेन सर्वेषामस्माकं विगतं रजः ॥
महदाश्चर्यमेतस्य दृष्ट्वा कुंडस्य विस्मिताः ॥
सर्वे वयं सुरश्रेष्ठ कृपया त्वमतो वद ॥१०॥
॥ ब्रह्मोवाच ॥
शृण्वन्तु सर्वे त्रिदशाः सावधानाः सविस्मयाः ॥
कुण्डस्यैतस्य माहात्म्यं नानाफलसमन्वितम् ॥११॥
अत्र स्नानेन विधिवत्पापात्मानोऽपि जंतवः ॥
विमानं हंससंयुक्तमास्थाय रुचिरांबराः ॥
निवसंति ब्रह्मलोके यावदाभूतसंप्लवम् ॥१२॥
अत्र दानेन होमेन यथाशक्त्या सुरोत्तमाः ॥
तुलाश्वमेधयोः पुण्यं प्राप्नुयुर्मुनिसत्तम ॥१३॥
ममास्मिन्सरसि श्रीमाञ्जायते स्नानतो नरः ॥
तस्मादत्र विधानेन स्नानं दानं जपादिकम् ॥१४॥
सर्वयज्ञसमं स्याद्वै महापातकनाशनम्॥
ब्रह्मकुण्डमिति ख्यातिमितो यास्यत्यनुत्तमाम्॥१५॥
अस्मिन्कुण्डे च सांनिध्यं भविष्यति सदा मम ॥
कार्त्तिके शुक्लपक्षस्य चतुर्दश्यां सुरोत्तमाः ॥१६॥
यात्रा भविष्यति सदा सुराः सांवत्सरी मम ॥
शुभप्रदा महापापराशिनाशकरी तदा ॥१७॥
स्वर्णं चैव सदा देयं वासांसि विविधानि च ॥
निजशक्त्या प्रकर्तव्या सुरास्तृप्तिर्द्विजन्मनाम्॥१८॥
॥ अगस्त्य उवाच ॥
इत्युक्त्वा देवदेवोऽयं ब्रह्मा लोकपितामहः ॥
अन्तर्दधे सुरैः सार्द्धं तीर्थं दृष्ट्वा तपोधन ॥१९॥
तदाप्रभृति तत्कुण्डं विख्यातं परमं भुवि ॥
चक्रतीर्थाच्च पूर्वस्यां दिशि कुण्डं स्थितं महत् ॥२०॥
॥सूत उवाच ॥
इत्युक्त्वा स तपोराशिरगस्त्यः कुंभसंभवः ॥
पुनः पृष्टो मुनिवरो व्यासायावीवदत्कथाम् ॥२१॥
॥ अगस्त्य उवाच ॥
अन्यच्छृणु महाभाग तीर्थं दुष्कृतिदुर्ल्लभम् ॥
ऋणमोचनसंज्ञं तु सरयूतीरसंगतम् ॥२२॥
ब्रह्मकुण्डान्मुनिवर धनुःसप्तशतेन च ॥
पूर्वोत्तरदिशाभागे संस्थितं सरयूजले ॥२३॥
तत्र पूर्वं मुनिवरो लोमशो नाम नामतः ॥
तीर्थयात्राप्रसंगेन स्नानं चक्रे विधानतः ॥२४॥
ततः स ऋणनिर्मुक्तो बभूव गतकल्मषः ॥
तदाश्चर्यं महद्दृष्ट्वा मुनीन्सानन्दमब्रवीत् ॥२५॥
पश्यन्त्वेतस्य महतो गुणांस्तीर्थवरस्य वै ॥
भुजावूर्ध्वं तथा कृत्वा हर्षेणाहाऽश्रुलोचनः ॥२६॥
॥ लोमश उवाच ॥
ऋणमोचनसंज्ञं तु तीर्थमेतदनुत्तमम् ॥
यत्र स्नानेन जंतूनामृणनिर्यातनं भवेत् ॥२७॥
ऐहिकं पारलौकिक्यं यदृणत्रितयं नृणाम् ॥
तत्सर्वं स्नानमात्रेण तीर्थेऽस्मिन्नश्यति क्षणात् ॥२८॥
सर्वतीर्थोत्तमं चैतत्सद्यः प्रत्ययकारकम् ॥
मया चास्य फलं सम्यगनुभूतमृणादिह ॥२९॥
तस्मादत्र विधानेन स्नानं दानं च शक्तितः ॥
कर्त्तव्यं श्रद्धया युक्तैः सर्वदा फलकांक्षिभिः ॥३०॥
स्नातव्यं च सुवर्णं च देयं वस्त्रादि शक्तितः ॥३१॥
॥अगस्त्य उवाच ॥
इत्युक्त्वा तीर्थमाहात्म्यं लोमशो मुनिसत्तमः ॥
अन्तर्दधे मुनिश्रेष्ठः स्तुवंस्तीर्थगुणान्मुदा ॥३२॥
इत्येतत्कथितं विप्र ऋणमोचनसंज्ञकम् ॥
यत्र स्नानेन जन्तूनामृणं नश्यति तत्क्षणात् ॥
ऋणमोचनतीर्थं तु पूर्वतः सरयूजले ॥३३॥
धनुर्द्विशत्या तीर्थं च पापमोचनसंज्ञकम्॥
सर्वपापविशुद्धात्मा तत्र स्नानेन मानवः ॥
जायते तत्क्षणादेव नात्र कार्या विचारणा ॥३४॥
मया तत्र मुनिश्रेष्ठ दृष्टं माहात्म्यमुत्तमम् ॥३५॥
पांचालदेशसंभूतो नाम्ना नरहरिर्द्विजः ॥
असत्संगप्रभावेन पापात्मा समजायत ॥३६॥
नाना विधानि पापानि ब्रह्महत्यादिकानि च ॥
कृतवान्पापिसंगेन त्रयीमार्गविनिन्दकः ॥३७॥
स कदाचित्साधुसंगात्तीर्थयात्राप्रसंगतः ॥
अयोध्यामागतो विप्र महापातककृद्द्विजः ॥३८॥
पापमोचनतीर्थे तु स्नातः सत्संगतो द्विजः ॥
पापराशिर्विनष्टोऽस्य निष्पापः समभूत्क्षणात् ॥३९॥
दिवः पपात तन्मूर्ध्नि पुष्पवृष्टिर्मुनीश्वर ॥
दिव्यं विमानमारुह्य विष्णुलोके गतो द्विजः ॥४०॥
तद्दृष्ट्वा महदाश्चर्यं मया च द्विजपुंगव ॥
श्रद्धया परया तत्र कृतं स्नानं विशेषतः ॥४१॥
माघकृष्णचतुर्दश्यां तत्र स्नानं विशेषतः ॥
दानं च मनुजैः कार्य्यं सर्वपापविशुद्धये ॥४२॥
अन्यदा(?) तु कृते स्नाने सर्वपापक्षयो भवेत् ॥४३॥
पापमोचनतीर्थे तु पूर्वं तु सरयूजले ॥
धनुःशतप्रमाणेन वर्त्तते तीर्थमुत्तमम् ॥४४॥
सहस्रधारासंज्ञं तु सर्वकिल्बिषनाशनम् ॥
यस्मिन्रामाज्ञया वीरो लक्ष्मणः परवीरहा ॥
प्राणानुत्सृज्य योगेन ययौ शेषात्मतां पुरा ॥४५॥
सार्द्धंहस्तत्रयेणैव प्रमाणं धनुषो विदुः ॥
चतुर्भिर्हस्तकैः संख्या दण्ड इत्यभिधीयते ॥४६॥
॥ सूत उवाच ॥
इत्थं तदा समाकर्ण्य कुम्भयोनिमुनेस्तदा ॥
कृष्णद्वैपायनो व्यासः पुनः पप्रच्छ कौतुकात् ॥४७॥
॥ व्यास उवाच ॥
सहस्रधारामाहात्म्यं विस्तराद्वद सुव्रत ॥
शृण्वंस्तीर्थस्य माहात्म्यं न तृप्यति मनो मम ॥४८॥
॥ अगस्त्य उवाच ॥
सावधानः शृणु मुने कथां कथयतो मम ॥
सहस्रधारातीर्थस्य समुत्पत्तिं महोदयात् ॥४९॥
पुरा रामो रघुपतिर्देवकार्यं विधाय वै ॥
कालेन सह संगम्य मंत्रं चक्रे नरेश्वरः ॥५०॥
आवां मन्त्रयमाणौ हि यः पश्येदन्तिकागतः॥४९॥
मया त्याज्यो भवेत्क्षिप्रमित्थं चक्रे स संविदम् ॥५१॥
तस्मिन्मंत्रयमाणे हि द्वारे तिष्ठति लक्ष्मणे ॥
आगतः स तपोराशिर्दुर्वासास्तेजसां निधिः ॥५२॥
आगत्य लक्ष्मणं शीघ्रं प्रीत्योवाच क्षुधाऽऽकुलः॥ ५३॥
॥ दुर्वासा उवाच ॥
सौमित्रे गच्छ शीघ्रं त्वं रामाग्रे मां निवेदय ॥
कार्यार्थिनमिदं वाक्यं नान्यथा कर्तुमर्हसि ॥५४॥
॥ अगस्त्य उवाच ॥
शापाद्भीतः स सौमित्रिर्द्रुतं गत्वा तयोः पुरः ॥
मुनिं निवेदयामास रामाग्रे दर्शनार्थिनम् ॥
दुर्वाससं तपोराशिमत्रिनन्दनमागतम् ॥५५॥
रामोऽपि कालमामंत्र्य प्रस्थाप्य च बहिर्ययौ ॥
दृष्ट्वा मुनिं तं प्रणतः संभोज्य प्रभुरादरात् ॥५६॥
दुर्वाससं मुनिवरं प्रस्थाप्य स्वयमादरात् ॥
सत्यभंगभयाद्वीरो लक्ष्मणं त्यक्तवांस्तदा ॥५७॥
लक्ष्मणोऽपि तदा वीरः कुर्वन्नवितथं वचः ॥
भ्रातुर्ज्येष्ठस्य सुमतिः सरयूतीरमाययौ ॥५८॥
तत्र गत्वाथ च स्नात्वा ध्यानमास्थाय सत्वरम् ॥
चिदात्मनि मनः शान्तं संगम्यावस्थितस्तदा ॥५९॥
ततः प्रादुरभूत्तत्र सहस्रफणमण्डितः ॥
शेषश्चक्षुःश्रवाः श्रेष्ठः क्षितिं भित्त्वा सहस्रधा ॥
सुरलोकात्सुरेन्द्रोऽपि समागादमरैः सह ॥६०॥
ततः शेषात्मतां यातं लक्ष्मणं सत्यसंगरम् ॥
उवाच मधुरं शक्रः सुराणां तत्र पश्यताम् ॥६१॥
॥इन्द्र उवाच ॥
लक्ष्मणोत्तिष्ठ शीघ्रं त्वमारोह स्वपदं स्वकम् ॥
देवकार्यं कृतं वीर त्वया रिपुनिषूदन ॥६२॥
वैष्णवं परमं स्थानं प्राप्नुहि त्वं सनातनम् ॥
भवन्मूर्तिः समायातः शेषोऽपि विलसत्फणः ॥६३॥
सहस्रधा क्षितिं भित्त्वा सहस्रफणमण्डलैः ॥
क्षितेः सहस्रच्छिद्रेषु यस्माद्भित्त्वा समुद्गताः ॥६४॥
फणसाहस्रमणिभिर्दग्धाः शेषस्य सुव्रत ॥
तस्मादेतन्महातीर्थं सरयूतीरगं शुभम् ॥
ख्यातं सहस्रधारेति भविष्यति न संशयः ॥६५॥
एतत्क्षेत्रप्रमाणं तु धनुषां पञ्चविंशतिः ॥
अत्र स्नानेन दानेन श्राद्धेन श्रद्धयान्वितः ॥
सर्वपापविशुद्धात्मा विष्णुलोकं व्रजेन्नरः ॥६६॥
अत्र स्नातो नरो धीमाञ्छेषं संपूज्य चाव्ययम् ॥
तीर्थं संपूज्य विधिवद्विष्णुलोकमवाप्नुयात् ॥६७॥
तस्मादत्र प्रकर्तव्यं स्नानं विधिपुरःसरम् ॥
शेषरूपाहिवद्ध्येयाः पूज्या विप्रा विशेषतः ॥६८॥
स्वर्णं चान्नं च वासांसि देयानि श्रद्धयान्वितैः ॥
स्नानं दानं हरेः पूजा सर्वमक्षयतां व्रजेत् ॥६९॥
तस्मादेतन्महातीर्थं सर्वकामफलप्रदम् ॥
क्षितौ भविष्यति सदा नात्र कार्या विचारणा ॥७०॥
श्रावणे शुद्धपक्षस्य या तिथिः पञ्चमी भवेत् ॥
तस्यामत्र प्रकर्तव्यो नागानुद्दिश्य यत्नतः ॥७१॥
उत्सवो विपुलः सद्भिः शेषपूजापुरःसरम् ॥
उत्सवे तु कृते तत्र तीर्थे महति मानवैः ॥७२॥
सन्तोष्य च द्विजान्भक्त्या नागपूजापुरस्सरम् ॥
सन्तुष्टाः फणिनः सर्वे पीडयन्ति न मानुषान् ॥७३॥
वैशाखमासे ये स्नानं कुर्वंत्यत्र समाहिताः ॥
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥७४॥
तस्मादत्र प्रकर्तव्यं माधवे यत्नतो नरैः ॥
स्नानं दानं हरिः पूज्यो ब्राह्मणाश्च विशेषतः ॥
तीर्थे कृतेऽत्र मनुजैः सर्वकामफलप्रदः ॥७५॥
विष्णुमुद्दिश्य यो दद्यात्सालंकारां पयस्विनीम् ॥
सवत्सामत्र सत्तीर्थे सत्पात्राय द्विजन्मने ॥७६॥
तस्य वासो भवेन्नित्य विष्णुलोके सनातने ॥
अक्षयं स्वर्गमाप्नोति तीर्थ स्नानेन मानवः ॥७७॥
अत्र पूज्यौ विशेषेण नरैः श्रद्धासमन्वितः ॥
वैशाखे मास्यलंकारैर्वस्त्रैश्च द्विजदंपती ॥७८॥
लक्ष्मीनारायणप्रीत्यै लक्ष्मीप्रात्यै विशेषतः ॥
वैशाखे मासि तीर्थानि पृथिवीसंस्थितानि वै ॥७९॥
सर्वाण्यपि च संगत्य स्थास्यंत्यत्र न संशयः ॥
तस्मादत्र विशेषेण वैशाखे स्नानतो नृणाम् ॥
सर्वतीर्थावगाहस्य भविष्यति फलं महत् ॥८०॥
॥ अगस्त्य उवाच ॥
इत्युक्त्वा मुनिराजेंद्रो लक्ष्मणं सुरसं गतम् ॥
शेषं संस्थाप्य तत्तीर्थे भूभारहरणक्षमम् ॥
लक्ष्मणं यानमारोप्य प्रतस्थे दिवमादरात् ॥८१॥
तदाप्रभृति तत्तीर्थं विख्यातिं परमां ययौ ॥
वैशाखे मासि तीर्थस्य माहात्म्यं परमं स्मृतम् ॥८२॥
पञ्चम्यामपि शुक्लायां श्रावणस्य विशेषतः ॥
अन्यदा पर्वणि श्रेष्ठं विशेषं स्नानमाचरेत् ॥
सहस्रधारातीर्थे च नरः स्वर्गमवाप्नुयात्॥ ८३॥
विधिवदिह हि धीमान्स्नानदानानि तीर्थे नरवर इह शक्त्या यः करोत्यादरेण ॥
स इह विपुलभोगान्निर्मलात्मा च भक्त्या भजति भुजगशायिश्रीपतेरात्मनैक्यम् ॥८४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्ये ब्रह्मकुण्डसहस्रधारातीर्थमाहात्म्यवर्णनंनाम द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : November 12, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP