अयोध्यामाहात्म्यम् - अध्याय ४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ अगस्त्य उवाच ॥
तस्माच्चंद्रहरिस्थानादाग्नेय्यां दिशि संस्थितः ॥
देवो धर्महरिर्न्नाम कलिकल्मषनाशकः ॥१॥
वेदवेदाङ्गतत्त्वज्ञः स्वकर्मपरिनिष्ठितः ॥
पुरा समागतो धर्मस्तीर्थयात्राचिकीर्षया ॥२॥
आगत्य च चकारोच्चैर्यात्रां तत्रादरेण सः ॥
दृष्ट्वा माहात्म्यमतुलमयोध्यायाः सविस्मयः ॥३॥
विधाय स्वभुजावूर्ध्वौ विप्रोऽवोचन्मुदान्वितः ॥
अहो रम्यमिदं तीर्थमहो माहात्म्यमुत्तमम् ॥४॥
अयोध्यासदृशी कापि दृश्यते नापरा पुरी ॥
या न स्पृशति वसुधां विष्णुचक्रस्थिताऽनिशम् ॥५॥
यस्यां स्थितो हरिः साक्षात्सेयं केनोपमीयते ॥
अहो तीर्थानि सर्वाणि विष्णुलोकप्रदानि वै ॥६॥
अहो विष्णुरहो तीर्थमयोध्याऽहो महापुरी ॥
अहो माहात्म्यमतुलं किं न श्लाघ्यमिहास्थितम् ॥७॥
इत्युक्त्वा तत्र बहुशो ननर्त प्रमदाकुलः ॥
धर्मो माहात्म्यमालोक्य अयोध्याया विशेषतः ॥८॥
तं तथा नर्तमानं वै धर्मं दृष्ट्वा कृपान्वितः ॥
आविर्बभूव भगवान्पीतवासा हरिः स्वयम् ॥
तं प्रणम्य च धर्मोऽथ तुष्टाव हरिमादरात् ॥९॥
॥ धर्म उवाच ॥
नमः क्षीराब्धिवासाय नमः पर्यंकशायिने ॥
नमः शंकरसंस्पृष्टदिव्यपादाय विष्णवे ॥१०॥
भक्त्यार्च्चितसुपादाय नमोऽजादिप्रियाय ते ॥
शुभांगाय सुनेत्राय माधवाय नमो नमः ॥११॥
नमोऽरविन्दपादाय पद्मनाभाय वै नमः ॥
नमः क्षीराब्धिकल्लोलस्पृष्टगात्राय शार्ङ्गिणे ॥१२॥
ॐ नमो योगनिद्राय योगर्क्षैर्भावितात्मने ॥
तार्क्ष्यासनाय देवाय गोविन्दाय नमोनमः ॥१३॥
सुकेशाय सुनासाय सुललाटाय चक्रिणे ॥
सुवस्त्राय सुवर्णाय श्रीधराय नमोनमः ॥१४॥
सुबाहवे नमस्तुभ्यं चारुजंघाय ते नमः ॥
सुवासाय सुदिव्याय सुविद्याय गदाभृते ॥१५॥
केशवाय च शांताय वामनाय नमोनमः ॥
धर्मप्रियाय देवाय नमस्ते पीतवाससे ॥१६॥
॥ अगस्त्य उवाच ॥
इति स्तुतो जगन्नाथो धर्मेण श्रीपतिर्मुदा ॥
उवाच स हृषीकेशः प्रीतो धर्ममुदारधीः ॥१७॥
॥ श्रीभगवानुवाच ॥
तुष्टोऽहं भवतो धर्म स्तोत्रेणानेन सुव्रत ॥
वरं वरय धर्मज्ञ यस्ते स्यान्मनसः प्रियः ॥१८॥
स्तोत्रेणानेन यः स्तौति मानवो मामतन्द्रितः ॥
सर्वान्कामानवाप्नोति पूजितः श्रीयुतःसदा ॥१९॥
॥ धर्म उवाच ॥
यदि तुष्टोसि भगवन्देवदेव जगत्पते ॥
त्वामहं स्थापयाम्यत्र निजनाम्ना जगद्गुरो ॥२०॥
॥ अगस्त्य उवाच ॥
एवमस्त्विति संप्रोच्याभवद्धर्महरिर्विभुः ॥
स्मरणादेव मुच्येत नरो धर्महरेर्विभोः ॥२१॥
सरयूसलिले स्नात्वा सुचिंताकुलमानसः ॥
देवं धर्महरिं पश्येत्सर्वपापैः प्रमुच्यते ॥२२॥
अत्र दानं तथा होमं जपो ब्राह्मणभोजनम् ॥
सर्वमक्षयतां याति विष्णुलोके निवासकृत् ॥२३॥
अज्ञानाज्ज्ञानतो वापि यत्किंचिद्दुष्कृतं भवेत् ॥
प्रायश्चित्तं विधातव्यं तन्नाशाय प्रयत्नतः ॥२४॥
प्रायश्चित्तेन विधिना पापं तस्य प्रणश्यति॥
तस्मादत्र प्रकर्त्तव्यं प्रायश्चित्तं विधानतः ॥२५॥
अज्ञानाज्ज्ञानतो वापि राजादेर्निग्रहात्तथा ॥
नित्यकर्मनिवृत्तिः स्याद्यस्य पुंसोऽवशात्मनः ॥
तेनाप्यत्र विधातव्यं प्रायश्चित्तं प्रयत्नतः ॥२६॥
अत्र साक्षात्स्वयं देवो विष्णुर्वसति सादरः ॥
तस्माद्वर्णयितुं शक्यो महिमा न हि मानवैः ॥२७॥
आषाढे शुक्ल पक्षस्य एकादश्यां द्विजोत्तम ॥
तस्य सांवत्सरी यात्रा कर्तव्या तु विधानतः ॥२८॥
स्वर्गद्वारे नरः स्नात्वा दृष्ट्वा धर्महरिं विभुम् ॥
सर्वपापविशुद्धात्मा विष्णुलोके वसेत्सदा ॥२९॥
तस्माद्दक्षिणदिग्भागे स्वर्णस्य खनिरुत्तमा ॥
यत्र चक्रे स्वर्णवृष्टिं कुबेरो रघुजाद्भयात् ॥३०॥
॥ व्यास उवाच ॥
भगवन्ब्रूहि तत्त्वज्ञ स्वर्णवृष्टिरभूत्कथम् ॥
कुबेरस्य कथं भीतिरुत्पन्ना रघुभूपतेः ॥३१॥
एतत्सर्वं समाचक्ष्व विस्तरान्मम सुव्रत ॥
श्रुत्वा कथारहस्यानि न तृप्यति मनो मम ॥३२॥
॥ अगस्त्य उवाच ॥
शृणु विप्र प्रवक्ष्यामि स्वर्णस्योत्पत्तिमुत्तमाम् ॥
यस्य श्रवणतो नृणां जायते विस्मयो महान् ॥३३॥
आसीत्पुरा रघुपतिरिक्ष्वाकुकुलवर्द्धनः ॥
रघुर्निजभुजोदारवीर्यशासितभूतलः ॥३४॥
प्रतापतापितारातिवर्गव्याख्यातसद्यशाः ॥
प्रजाः पालयता सम्यक्तेननीतिमता सता ॥३५॥
यशःपूरेण समलिप्ता दिशो दश सितत्विषा ॥
स चक्रे प्रौढविभवसाधनां विजयक्रमात् ॥३६॥
नानादेशान्समाक्रम्य चतुरंगबलान्वितः ॥
भूतानि वशमानीय वसु जग्राह दण्डतः॥३७॥
उत्कृष्टान्नृपतीन्वीरो दंडयित्वा बलाधिकान् ॥
रत्नानि विविधान्याशु जग्राहातिबलस्तदा ॥३८॥
स विजित्य दिशः सर्वा गृहीत्वा रत्नसंचयम्॥
अयोध्यामागतो राजा राजधानीं च तां शुभाम्॥ ३९॥
तत्रागत्य च काकुत्स्थो यज्ञायोत्सुकमानसः ॥
चकार निर्मलां बुद्धिं निजवंशोचितक्रियाम॥४०॥
वसिष्ठं मुनिमाज्ञाय वामदेवं च कश्यपम् ॥४१॥
अन्यानपि मुनिश्रेष्ठान्नानातीर्थसमाश्रितान् ॥
समानयद्विनीतेन द्विजवर्येण भूपतिः ॥४२॥
दृष्ट्वा स्थितान्स तान्सर्वान्प्रदीप्तानिव पावकान् ॥
तानागतान्विदित्वाथ रघुः परपुरंजयः ॥
निश्चक्राम यथान्यायं स्वयमेव महायशाः ॥४३॥
ततो विनीतवत्सर्वान्काकुत्स्थो द्विजसत्तमान् ॥
उवाच धर्मयुक्तं च वचनं यज्ञसिद्धये ॥४४॥
॥ रविरुवाच ॥
मुनयः सर्व एवैते यूयं शृणुत मद्वचः ॥
यज्ञं विधातुमिच्छामि तत्राज्ञां दातुमर्हथ ॥४५॥
सांप्रतं मामको यज्ञो युक्तः स्यान्मुनिसत्तमाः ॥
एतद्विचार्य्य तत्त्वेन ब्रूत यूयं मुनीश्वराः ॥४६॥
॥ मुनय ऊचुः ॥
राजन्विश्वजिदाख्यातो यज्ञानां यज्ञ उत्तमः ॥
सांप्रतं कुरु तं यत्नान्मा विलंबं वृथा कृथाः ॥४७॥
॥ अगस्त्य उवाच ॥
नृपश्चक्रे ततो यज्ञं विश्वदिग्जयसंज्ञितम् ॥
नानासंभारमधुरं कृतसर्वस्वदक्षिणम् ॥४८॥
नानाविधेन दानेन मुनिसंतोषहर्षकृत् ॥
सर्वस्वमेव प्रददौ द्विजेभ्यो बहुमानतः ॥४९॥
तेषु विश्वेषु यातेषु पूजितेषु गृहान्स्वकान् ॥
बन्धुष्वपि च तुष्टेषु मुनिषु प्रणतेषु च ॥५०॥
तेन यज्ञेन विधिवद्विहितेन नरेश्वरः ॥
शुशुभे शोभनाचारः स्वर्गे देवेंद्रवत्क्षणात् ॥५१॥
तत्रांतरे समभ्यायान्मुनिर्यमवतां वरः ॥
विश्वामित्रमुनेरंतेवासी कौत्स इति स्मृतः ॥५२॥
दक्षिणार्थं गुरोर्द्धीमान्पावितुं तं नरेश्वरम् ॥
चतुर्दशसुवर्णानां कोटीराहर सत्वरम् ॥५३॥
मद्दक्षिणेति गुरुणा निर्बन्धाद्याचितो रुषा ॥
आगतः स मुनिः कौत्सस्ततो याचितुमादरात् ॥
रघुं भूपालतिलकं दत्तसर्वस्वदक्षिणम् ॥५४॥
तमागतमभिप्रेत्य रघुरादरतस्तदा ॥
उत्थाय पूजयामास विधिवत्स परंतपः ॥
सपर्य्यासीत्तस्य सर्वा मृत्पात्रविहितक्रिया ॥५५॥
पूजासंभारमालोक्य तादृशं तं मुनीश्वरः ॥
विस्मितोऽभून्निरानन्दो दक्षिणाऽऽशां परित्यजन् ॥
उवाच मधुरं वाक्यं वाक्यज्ञानविशारदः ॥५६॥
॥ कौत्स उवाच ॥
राजन्नभ्युदयस्तेऽस्तु गच्छाम्यन्यत्र सांप्रतम् ॥५७॥
गुर्वर्थाहरणायैव दत्तसर्वस्वदक्षिणम् ॥
त्वां न याचे धनाभावादतोऽन्यत्र व्रजाम्यहम् ॥५८॥
॥ अगस्त्य उवाच ॥
इत्युक्तस्तेन मुनिना रघुः परपुरंजयः ॥
क्षणं ध्यात्वाऽब्रवीदेनं विनयाद्विहितांजलिः ॥५९॥
॥ रघुरुवाच ॥
भगवंस्तिष्ठ मे हर्म्ये दिनमेकं मुनिव्रत ॥
यावद्यतिष्ये भगवन्भवदर्थार्थमुच्चकैः ॥६०॥
॥ अगस्त्य उवाच ॥
इत्युक्त्वा परमोदारवचो मुनिमुदारधीः ॥
प्रतस्थे च रघुस्तत्र कुबेरविजिगीषया ॥६१॥
तमायांतं कुबेरोऽथ विज्ञाप्य वचनोदितैः ॥
प्रसन्नमनसं चक्रे वृष्टिं स्वर्णस्य चाक्षयाम् ॥६२॥
स्वर्णवृष्टिरभूद्यत्र सा स्वर्णखनिरुत्तमा ॥
स मुनिं दर्शयामास खनिं तेन निवेदिताम्॥ ६३॥
तस्मै समर्पयामास तां रघुः खनिमुत्तमाम् ॥
मुनीन्द्रोऽपि गृहीत्वाशु ततो गुर्वर्थमादरात् ॥६४॥
राज्ञे निवेदयामास सर्वमन्यद्गुणाधिकः ॥
वरानथ ददौ तुष्टः कौत्सो मतिमतां वरः ॥६५॥
॥ कौत्स उवाच ॥
राजँल्लभस्व सत्पुत्रं निजवंशगुणान्वितम् ॥
इयं स्वर्णखनिस्तूर्णं मनोभीष्टफलप्रदा ॥६६॥
भूयादत्र परं तीर्थं सर्वपापहरं सदा ॥
अत्र स्नानेन दानेन नृणां लक्ष्मीः प्रजायते ॥६७॥
वैशाखे शुक्लद्वादश्यां यात्रा सांवत्सरी स्मृता ॥
नानाभीष्टफलप्राप्तिर्भूयान्मद्वचसा नृणाम् ॥६८॥
॥ अगस्त्य उवाच ॥
इति दत्त्वा वरान्राज्ञे कौत्सः संतुष्टमानसः ॥
प्रतस्थे निजकार्यार्थे गुरोराश्रममुत्सुकः ॥६९॥
राजा स कृतकृत्योऽथ शेषं संगृह्य तद्धनम्॥
द्विजेभ्यो विधिवद्दत्त्वा पालयामास वै प्रजाः ॥७०॥
एवं स्वर्णखनेर्जातं माहात्म्यं च मुनीश्वरात् ॥७१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्ये धर्महरिस्वर्णखनिमाहात्म्यवर्णनंनाम चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : November 12, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP