अयोध्यामाहात्म्यम् - अध्याय ३
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सूत उवाच ॥
इति श्रुत्वा वचो धीमानादरात्कुंभजन्मनः ॥
प्रोवाच मधुरं वाक्यं कृष्णद्वैपायनो मुनिः ॥१॥
॥ व्यास उवाच ॥
भगवन्नद्भुतमिदं तीर्थमाहात्म्यमुत्तमम्॥
श्रुत्वा त्वत्तो मम मनः परमानंदमाययौ ॥२॥
अन्यत्तीर्थवरं ब्रूहि तत्त्वेन मम शृण्वतः ॥
न तृप्तिरस्ति मनसः शृण्वतो मम सुव्रत ॥३॥
॥अगस्त्य उवाच ॥
शृणु विप्र प्रवक्ष्यामि तीर्थमन्यदनुत्तमम् ॥
स्वर्गद्वारमिति ख्यातं सर्वपापहरं सदा ॥४॥
स्वर्गद्वारस्य माहात्म्यं विस्तराद्वक्तुमीश्वरः ॥
नहि कश्चिदतो वत्स संक्षेपाच्छृणु सुव्रत ॥५॥
सहस्रधारामारभ्य पूर्वतः सरयूजले ॥
षट्त्रिंशदधिका प्रोक्ता धनुषां षट्शती मितिः ॥६॥
स्वर्गद्वारस्य विस्तारः पुराणज्ञैर्विशारदैः ॥
स्वर्गद्वारसमं तीर्थं न भूतं न भविष्यति ॥७॥
सत्यंसत्यं पुनः सत्यं नासत्यं मम भाषितम्॥
स्वर्गद्वारसमं तीर्थं नास्ति ब्रह्माण्डगोलके ॥८॥
हित्वा दिव्यानि भौमानि तीर्थानि सकलान्यपि ॥
प्रातरागत्य तिष्ठन्ति तत्र संश्रित्य सुव्रत ॥९॥
तस्मादत्र प्रकर्तव्यं प्रातः स्नानं विशेषतः ॥
सर्वतीर्थावगाहस्य फलमात्मन ईप्सता ॥१०॥
त्यजंति प्राणिनः प्राणान्स्वर्गद्वारांतरे द्विज ॥
प्रयांति परमं स्थानं विष्णोस्ते नात्र संशयः ॥११॥
मुक्तिद्वारमिदं पश्य स्वर्गप्राप्तिकरं नृणाम् ॥
स्वर्गद्वारमिति ख्यातं तस्मात्तीर्थमनुत्तमम् ॥१२॥
स्वर्गद्वारं सुदुष्प्राप्यं देवैरपि न संशयः ॥
यद्यत्कामयते तत्र तत्तदाप्नोति मानवः ॥१३॥
स्वर्गद्वारे परा सिद्धिः स्वर्गद्वारे परा गतिः ॥
जप्तं दत्तं हुतं दृष्टं तपस्तप्तं कृतं च यत् ॥
ध्यानमध्ययनं सर्वं दानं भवति चाक्षयम् ॥१४॥
जन्मांतरसहस्रेण यत्पापं पूर्वसंचितम्॥
स्वर्गद्वारप्रविष्टस्य तत्सर्वं व्रजति क्षयम् ॥१५॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वै वर्णसंकराः॥
कृमिम्लेच्छाश्च ये चान्ये संकीर्णाः पापयोनयः१६॥
कीटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः॥
कालेन निधनं प्राप्ताः स्वर्गद्वारे शृणु द्विज ॥१७॥
कौमोदकीकराः सर्वे पक्षिणो गरुडध्वजाः ॥
शुभे विष्णुपुरे विष्णुर्जायते तत्र मानवाः ॥१८॥
अकामो वा सकामो वा अपि तीर्थगतोपि वा ॥
स्वर्गद्वारे त्यजन्प्राणान्विष्णुलोके महीयते ॥१९॥
मुनयो देवताः सिद्धाः साध्या यक्षा मरुद्गणाः ॥
यज्ञोपवीतमात्रेण विभागं चक्रिरे तु ये ॥२०॥
मध्याह्नेऽत्र प्रकुर्वंति सान्निध्यं देवतागणाः ॥
तस्मात्तत्र प्रकुर्वंति मध्याह्ने स्नानमादरात् ॥२१॥
कुर्वंत्यनशनं ये तु स्वर्गद्वारे जितेंद्रियाः ॥
प्रयांति परमं स्थानं ये च मासोपवासिनः ॥२२॥
अन्नदानरता ते च रत्नदा भूमिदा नराः ॥
गोवस्त्रदाश्च विप्रेभ्यो यांति ते भवनं हरेः ॥२३॥
यत्र सिद्धा महात्मानो मुनयः पितरस्तथा ॥
स्वर्गं प्रयांति ते सर्वे स्वर्गद्वारं ततः स्मृतम् ॥२४॥
चतुर्द्धा च तनुं कृत्वा देवदेवो हरिः स्वयम् ॥
अत्र वै रमते नित्यं भ्रातृभिः सह राघवः ॥२५॥
ब्रह्मलोकं परित्यज्य चतुर्वक्त्रः सनातनः ॥
अत्रैव रमते नित्यं देवैः सह पितामहः ॥२६॥
कैलासनिलयावासी शिवस्तत्रैव संस्थितः ॥२७॥
मेरुमन्दरमात्रोऽपि राशिः पापस्य कर्मणः ॥
स्वर्गद्वारं समासाद्य स सर्वो व्रजति क्षयम् ॥२८॥
या गतिर्ज्ञानतपसां या गतिर्यज्ञयाजिनाम्॥
स्वर्गद्वारे मृतानां तु सा गतिर्विहिता शुभा ॥२९॥
ऋषिदेवासुरगणैर्जपहोमपरायणैः ॥
यतिभिर्मोक्षकामैश्च स्वर्गद्वारो निषेव्यते ॥३०॥
षष्टिवर्षसहस्राणि काशीवासेषु यत्फलम् ॥
तत्फलं निमिषार्द्धेन कलौ दाशरथीं पुरीम् ॥३१॥
या गतिर्योगयुक्तानां वाराणस्यां तनुत्यजाम्॥
सा गतिः स्नानमात्रेण सरय्वां हरिवासरे ॥३२॥
स्वर्गद्वारे मृतः कश्चिन्नरकं नैव पश्यति ॥
केशवानुगृहीता हि सर्वे यांति परां गतिम् ॥३३॥
भूलोके चांतरिक्षे च दिवि तीर्थानि यानि वै ॥
अतीत्य वर्तते तानि तीर्थान्येतद्द्विजोत्तम ॥३४॥
विष्णुभक्तिं समासाद्य रमन्ते तु सुनिश्चिताः ॥
संहृत्य शक्तितः कामं विषयेषु हि संस्थितम् ॥३५॥
शक्तितः सर्वतो युक्त्वा शक्तिस्तपसि संस्थिता ॥
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥३६॥
हन्यमानोऽपि यो विद्वान्वसेच्छस्त्रशतैरपि ॥
स याति परमं स्थानं यत्र गत्वा न शोचति ॥३७॥
स्वर्गद्वारे वियुज्येत स याति परमां गतिम् ॥
उत्तरं दक्षिणं वापि अयनं न विकल्पयेत् ॥३८॥
सर्वस्तेषां शुभः कालः स्वर्गद्वारं श्रयंति ये ॥
स्नानमात्रेण पापानि विलयं यांति देहिनाम् ॥३९॥
यावत्पापानि देहेन ये कुर्वंति जनाः क्षितौ ॥
अयोध्या परमं स्थानं तेषामीरितमादरात् ॥४०॥
ज्येष्ठे मासि सिते पक्षे पंचदश्यां विशेषतः ॥
तस्य सांवत्सरी यात्रा देवैश्चन्द्रहरेः स्मृता ॥४१॥
तस्मिन्नुद्यापनं चन्द्रसहस्रं व्रतयोगिभिः ॥
कार्यं प्रयत्नतो विप्र सर्वयज्ञफलाधिकम् ॥४२॥
तस्मिन्कृते महापापक्षयात्स्वर्गो भवेन्नृणाम् ॥४३॥
॥ श्रीव्यास उवाच ॥
भगवन्ब्रूहि तत्त्वेन तस्य चन्द्रहरेः शुभाम्॥
उत्पत्तिं च तथा चंद्रव्रतस्योद्यापने विधिम् ॥४४॥
॥ अगस्त्य उवाच ॥
अयोध्यानिलयं विष्णुं नत्वा शीतांशुरुत्सुकः ॥
आगच्छत्तीर्थमाहात्म्यं साक्षात्कर्तुं सुधानिधिः ॥
अत्रागत्य च चन्द्रोऽथ तीर्थयात्रां चकार सः ॥४५॥
क्रमेण विधिपूर्वं च नानाश्चर्यसमन्वितः ॥
समाराध्य ततो विष्णुं तपसा दुश्चरेण वै ॥४६॥
तत्प्रसादं समासाद्य स्वाभिधानपुरस्सरम् ॥
हरिं संस्थापयामास तेन चंद्रहरिः स्मृतः ॥४७॥
वासुदेवप्रसादेन तत्स्थानं जातमद्भुतम् ॥
तद्धि गुह्यतमं स्थानं वासुदेवस्य सुव्रत ॥४८॥
सर्वेषामिव भूतानां भर्तुर्मोक्षस्य सर्वदा ॥
अस्मिन्सिद्धाः सदा विप्र गोविंदव्रतमास्थिताः ॥४९॥
नानालिंगधरा नित्यं विष्णुलोकाभिकांक्षिणः ॥
अभ्यस्यंति परं योगं मुक्तात्मानो जितेंद्रियाः ॥५०॥
यथा धर्ममवाप्नोति अन्यत्र न तथा क्वचित् ॥
दानं व्रतं तथा होमः सर्वमक्षयतां व्रजेत ॥५१॥
सर्वकामफलप्राप्तिर्जायते प्राणिनां सदा ॥
तस्मादत्र विधातव्यं प्राणिभिर्यत्नतः क्रमात् ॥
दानादिकं विप्रपूजा दंपत्योश्च विशेषतः ॥५२॥
सर्वयज्ञाधिकफलं सर्वतीर्थावगाहनम् ॥
सर्वदेवावलोकस्य यत्पुण्यं जायते नृणाम् ॥५३॥
तत्सर्वं जायते पुण्यं प्राणिनामस्य दर्शनात् ॥
तस्मादेतन्महाक्षेत्रं पुराणादिषु गीयते ॥५४॥
उद्यापनविधिश्चात्र नृभिर्द्विजपुरस्सरम् ॥
अग्रे चंद्रहरेश्चन्द्र सहस्रव्रतसंज्ञकः ॥५५॥
गते वर्षद्वये सार्द्धे पंचपक्षे दिनद्वये ॥
दिवसस्याऽष्टमे भागे पतत्येकोऽधिमासकः ॥५६॥
त्र्यधिके वा अशीत्यब्दे चतुर्मासयुते ततः ॥
भवेच्चन्द्रसहस्रं तु तावज्जीवति यो नरः ॥
उद्यापनं प्रकर्त्तव्यं तेन यात्रा प्रयत्नतः ॥५७॥
यत्पुण्यं परमं प्रोक्तं सततं यज्ञयाजिनाम्॥
सत्यवादिषु यत्पुण्यं यत्पुण्यं हेमदायिनि ॥
तत्पुण्यं लभते विप्र सहस्राब्दस्य जीविभिः ॥५८॥
सर्वसौख्यप्रदं तादृक्पुण्यव्रतमिहोच्यते ॥५९॥
चतुर्दश्यां शुचिः स्नात्वा दन्तधावनपूर्वकम् ॥
चरितब्रह्मचर्य्यश्च जितवाक्कायमानसः ॥
पौर्णमास्यां तथा कृत्वा चंद्रपूजां च कारयेत् ॥६०॥
पूर्वं च मातरः पूज्या गौर्यादिकक्रमेण च ॥
ऋत्विजः पूजयेद्भक्त्या वृद्धिश्राद्धपुरस्सरम् ॥६१॥
प्रयतैः प्रतिमा कार्या चंद्रमंडलसन्निभा ॥
सहस्रसंख्या ह्यथवा तदर्द्धं वा तदर्द्धकम् ॥
निजवित्तानुमानेन तदर्धेन तदर्द्धिकम् ॥६२॥
ततः श्रद्धानुमानाद्वा कार्या वित्तानुमानतः ॥
अथवा षोडश शुभा विधातव्याः प्रयत्नतः ॥६३॥
चंद्रपूजां ततः कुर्यादागमोक्तविधानतः ॥
माषैः षोडशभिः कार्या प्रत्येकं प्रतिमा शुभा ॥६४॥
सोममंत्रेण होमस्तु कार्यो वित्तानुमानतः ॥
प्रतिमास्थापनं कुर्यात्सोममंत्रमुदीरयेत् ॥६५॥
सोमोत्पत्तिं सोमसूक्तं पाठयेच्च प्रयत्नतः ॥
चंद्रपूजां ततः कुर्यादागमोक्तविधानतः ॥६६॥
चंद्रन्यासं कलान्यासं कारयेन्मंडले जलम् ॥
एकादशेंद्रियन्यासं तथैव विधिपूर्वकम् ॥६७॥
चंद्रबिंबनिभं कार्य्यं मंडलं शुभतंडुलैः॥
मध्ये च कलशः स्थाप्यो गव्येन पयसाप्लुतः ॥६८॥
चतुरस्रेषु संपूर्णान्कलशान्स्थापयेद्बहिः ॥
मंडले चंद्रपूजा च कर्तव्या नामभिः क्रमात् ॥६९॥
हिमांशवे नमश्चैव सोमचंद्राय वै नमः ॥५४॥
चंद्राय विधवे नित्यं नमः कुमुदबंधवे ॥७०॥
सुधांशवे च सोमाय ओषधीशाय वै नमः ॥
नमोऽब्जाय मृगांकाय कलानां निधये नमः ॥७१॥
नमो नक्षत्रनाथाय शर्वरीपतये नमः ॥
जैवातृकाय सततं द्विजराजाय वै नमः ॥७२॥
एवं षोडशभिश्चंद्रः स्तोतव्यो नामभिः क्रमात् ॥७३॥
ततो वै प्रयतो दद्याद्विधिवन्मंत्रपूर्वकम् ॥
शंखतोयं समादाय सपुष्पं फलचंदनम् ॥७४॥
नमस्ते मासमासांते जायमान पुनःपुनः ॥
गृहाणार्घ्यं शशांक त्वं रोहिण्या सहितो मम ॥७५॥
एवं संपूज्य विधिवच्छशिनं प्रणतो भवेत् ॥
षोडशान्ये च कलशा दुग्धपूर्णाः सरत्नकाः ॥७६॥
सवस्त्राच्छादनाः शांत्यै दातव्यास्ते द्विजन्मने ॥
अभिषेकं ततः कुर्यात्पायसेन जलेन तु ॥७७॥
ऋत्विजां मनसस्तुष्टिः कार्या वित्तानुमानतः ॥
ब्राह्मणं भोजयेत्तत्र सकुटुंबं विशेषतः ॥७८॥
पूजनीयौ प्रयत्नेन वस्त्रैश्च द्विजदंपती ॥
कर्तव्यं च ततो भूरिदक्षिणादानमुत्तमम् ॥७९॥
प्रतिमाश्च प्रदातव्या द्विजेभ्यो धेनुपूर्विकाः ॥
सुवर्णं रजतं वस्त्रं तथान्नं च विशेषतः ॥
दातव्यं चंद्रसुप्रीत्यै हर्षादेवं द्विजन्मने ॥८०॥
उपवासविधानेन दिनशेषं नयेत्सुधीः ॥
अनंतरे च दिवसे कुर्याद्भगवदर्चनम् ॥
बांधवैः सह भुञ्जीत नियमं च विसर्ज्जयेत् ॥८१॥
एवं च कुरुते चंद्रसहस्रं व्रतमुत्तमम् ॥
ब्रह्मघ्नोऽपि सुरापोऽपि स्तेयी च गुरुतल्पगः ॥
व्रतेनानेन शुद्धात्मा चंद्रलोकं व्रजेन्नरः ॥८२॥
यादृशश्च भवेद्विप्र प्रियो नारायणस्य च ॥
एवं करोति नियतं कृतकृत्यो भवेन्नरः ॥८३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्ये चन्द्रसहस्रव्रतोद्यापनविधिवर्णनं नाम तृतीयोऽध्यायः ॥३॥
N/A
References : N/A
Last Updated : November 12, 2024
TOP