संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|गिरिराजखण्डः| अध्यायः ०८ गिरिराजखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ गिरिराजखण्डः - अध्यायः ०८ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता गिरिराजविभूतिवर्णनम् Translation - भाषांतर श्रीबहुलाश्व उवाच -केषु केषु तदङ्गेषु किं किं तीर्थं समाश्रितम्॥वद देव महादेव त्वं परावरवित्तमः॥१॥श्रीनारद उवाच -यत्र यस्य प्रसिद्धिः स्यात्तदंगं परमं विदुः॥क्रमतो नास्त्यंगचयो गिरिराजस्य मैथिल॥२॥यथा सर्वगतं ब्रह्म सर्वांगानि च तस्य वै॥विभूतेर्भावतः शश्वत्तथा वक्ष्यामि मानद॥३॥शृङ्गारमण्डलस्याधो मुखं गोवर्धनस्य च॥यत्रान्नकूटं कृतवान् भगवान् व्रजवासिभिः॥४॥नेत्रे वै मानसी गंगा नासा चन्द्रसरोवरः॥गोविन्दकुण्डो ह्यधरश्चिबुकं कृष्णकुण्डकः॥५॥राधाकुण्डं तस्य जिह्वा कपोलौ ललितासरः॥गोपालकुण्डः कर्णश्च कर्णान्तः कुसुमाकरः॥६॥मौलिचिह्ना शीला तस्य ललाटं विद्धि मैथिल॥शिरश्चित्रशिला तस्य ग्रीवा वै वादनी शिला॥७॥कांदुकं पार्श्वदेशञ्च औष्णिषं कटिरुच्यते॥द्रोणतीर्थं पृष्ठदेशे लौकिकं चोदरे स्मृतम्॥८॥कदम्बखण्डमुरसि जीवः शृङ्गारमण्डलम्॥श्रीकृष्णपादचिह्नं तु मनस्तस्य महात्मनः॥९॥हस्तचिह्नं तथा बुद्धिरैरावतपदं पदम्॥सुरभेः पादचिह्नेषु पक्षौ तस्य महात्मनः॥१०॥पुच्छकुण्डे तथा पुच्छं वत्सकुंडे बलं स्मृतम्॥रुद्रकुण्डे तथा क्रोधं कामं शक्रसरोवरे॥११॥कुबेरतीर्थे चोद्योगं ब्रह्मतीर्थे प्रसन्नताम्॥यमतीर्थे ह्यहंकारं वदन्तीत्थं पुराविदः॥१२॥एवमंगानि सर्वत्र गिरिराजस्य मैथिल॥कथितानि मया तुभ्यं सर्वपापहराणि च॥१३॥गिरिराजविभूतिं च यः शृणोति नरोत्तमः॥स गच्छेद्धाम परमं गोलोकं योगिदुर्लभम्॥१४॥समुत्थितोऽसौ हरिवक्षसो गिरि-र्गोवर्धनो नाम गिरीन्द्रराजराट्॥समागतो ह्यत्र पुलस्त्यतेजसायद्दर्शनाज्जन्म पुनर्न विद्यते॥१५॥इति श्रीगर्गसंहितायां गिरिराजखण्डे श्रीनारदबहुलाश्वसंवादेगिरिराजविभूतीवर्णनं नामाष्टमोऽध्यायः ॥८॥हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP