संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|गिरिराजखण्डः| अध्यायः ०१ गिरिराजखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ गिरिराजखण्डः - अध्यायः ०१ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता श्रीगिरिराजपूजाविधिवर्णनम् Translation - भाषांतर बहुलाश्व उवाच -कथं दधार भगवान् गिरिं गोवर्धनं वरम् ।उच्छिलींध्रं यथा बालो ह्स्तेनैकेन लीलया ॥१॥परिपूर्णतमस्यास्य श्रीकृष्णस्य महात्मनः ।वदैतच्चरितं दिव्यमद्भुतं मुनिसत्तम ॥२॥श्रीनारद उवाच -वार्षिकं हि करं राज्ञे यथा शक्राय वै तथा ।बलिं ददुः प्रावृडन्ते गोपाः सर्वे कृषीवलाः ॥३॥महेन्द्रयागसंभारचयं दृष्ट्वैकदा हरिः ।नन्दं पप्रच्छ सदसि वल्लभानां च शृण्वताम् ॥४॥श्रीभगवानुवाच -शक्रस्य पूजनं ह्येतत्किं फलं चास्य विद्यते ।लौकिकं वा वदन्त्येतदथवा पारलौकिकम् ॥५॥श्रीनन्द उवाच -शक्रस्य पूजनं ह्येतद्भुक्तिमुक्तिकरं परम् ।एतद्विना नरो भूमौ जायते न सुखी क्वचित् ॥६॥श्रीभगवानुवाच -शक्रादयो देवगणाश्च सर्वतोभुंजन्ति ये स्वर्गसुखं स्वकर्मभिः ।विशन्ति ते मर्त्यपदं शुभक्षयेतत्सेवनं विद्धि न मुक्तिकारणम् ॥७॥भयं भवेद्वै परमेष्ठिने यतोवार्ता तु का कौ किल तत्कृतात्मनाम् ।तस्मात्परं कालमनंतमेव हिसर्वं बलिष्ठं सुबुधा विदुः परे ॥८॥ततस्तमाश्रित्य सुकर्मभिः परंभजेद्धरिं यज्ञपतिं सुरेश्वरम् ।विसृज्य सर्वं मनसा कृतेः फलंव्रजेत्परं मोक्षमसौ न चान्यथा ॥९॥गोविप्रसाध्वग्निसुराः श्रुतिस्तथाधर्मश्च यज्ञाधिपतेर्विभूतयः ।धिष्ण्येषु चैतेषु हरिं भजन्ति येसदा त्विहामुत्र सुखं व्रजन्ति ते ॥१०॥समुत्थितोऽसौ हरिवक्षसो गिरि-र्गोवर्धनो नाम गिरीन्द्रराजराट् ।समागतो ह्यत्र पुलस्त्यतेजसायद्दर्शनाज्जन्म पुनर्न विद्यते ॥११॥सम्पूज्य गोविप्रसुरान्महाद्रयेदातव्यमद्यैव परं ह्युपायनम् ।एष प्रियो मे मखराज एव हिन चेद्यथेच्छास्ति तथा कुरु व्रज ॥१२॥श्रीनारद उवाच -तेषां मध्येऽथ सन्नन्दो गोपो वृद्धोऽतिनीतिवित् ।अतिप्रसन्नः श्रीकृष्णमाह नन्दस्य शृण्वतः ॥१३॥सनंद उवाच -हे नन्दसूनो हे तात त्वं साक्षाज्ज्ञानशेवधिः ।कर्तव्या केन विधिना पूजाऽद्रेर्वद तत्त्वतः ॥१४॥श्रीभगवानुवाच -आलिप्य गोमयेनापि गिरिराजभुवं ह्यधः ।धृत्वाऽथ सर्वसम्भारं भक्तियुक्तो जितेन्द्रियः ॥१५॥सहस्रशीर्षामंत्रेणाद्रये स्नानं च कारयेत् ।गंगाजलेन यमुनाजलेनापि द्विजैः सह ॥१६॥शुक्लगोदुग्धधाराभिस्ततः पञ्चामृतैर्गिरिम् ।स्नापयित्वा गन्धपुष्पैः पुनः कृष्णाजलेन वै ॥१७॥वस्त्रं दिव्यं च नैवेद्यमासनं सर्वतोऽधिकम् ।मालालंकारनिचयं दत्त्वा दीपावलिं पराम् ॥१८॥ततः प्रदक्षिणां कुर्यान्नमस्कुर्यात्ततः परम् ।कृतांजलिपुटो भूत्वा त्विदमेतदुदीरयेत् ॥१९॥नमो वृन्दावनाङ्काय तुभ्यं गोलोकमौलिने ।पूर्णब्रह्मातपत्राय नमो गोवर्धनाय च ॥२०॥पुष्पांजलिं ततः कुर्यान्नीराजनमतः परम् ।घण्टकांस्यमृदङ्गाद्यैर्वादित्रैर्मधुरस्वनैः ॥२१॥वेदाहमेतं मंत्रेण वर्षलाजैः समाचरेत् ।तत्समीपे चान्नकूटं कुर्याच्छ्रद्धासमन्वितः ॥२२॥कचोलानां चतुःषष्टिपञ्चपंक्तिसमन्वितम् ।तुलसीदलमिश्रैश्च श्रीगंगायमुनाजलैः ॥२३॥षट्पञ्चाशत्तमैर्भागैः कुर्यात्सेवां समाहितः ।ततोऽग्नीन् ब्राह्मणान्पूज्य गाः सुरान् गन्धपुष्पकैः ॥२४॥भोजयित्वा द्विजवरान् सौगंधैर्मिष्टभोजनैः ।अन्येभ्यश्चाश्वपाकेभ्यो दद्याद्भोजनमुत्तमम् ॥२५॥गोपीगोपालवृन्दैश्च गवां नृत्यं च कारयेत् ।मंगलैर्जयशब्दैश्च कुर्याद्गोवर्द्धनोत्सवम् ॥२६॥यत्र गोवर्धनाभावस्तत्र पूजाविधिं शृणु ।गोमयैर्वर्द्धनं कुर्यात्तदाकारं परोन्नतम् ॥२७॥पुष्पव्यूहैर्लताजालैरिषिकाभिः समन्वितः ।पूजनीयः सदा मर्त्यैर्गिरिर्गोवर्धनो भुवि ॥२८॥शिलासमानं पुरटं क्षिप्त्वाऽद्रौ तच्छिलां नयेत् ।गृह्णीयाद्यो विना स्वर्णं स महारौरवं व्रजेत् ॥२९॥शालग्रामस्य देवस्य सेवनं कारयेत्सदा ।पातकं न स्पृशेत्तं वै पद्मपत्रं यथा जलम् ॥३०॥गिरिराजशिलासेवां यः करोति द्विजोत्तमः ।सप्तद्वीपमहीतीर्थावगाहफलमेति सः ॥३१॥गिरिराजमहापूजां वर्षे वर्षे करोति यः ।इह सर्वसुखं भुक्त्वाऽमुत्र मोक्षं प्रयाति सः ॥३२॥इति श्रीगर्गसंहितायां श्रीगिरिराजखण्डे श्रीनारद बहुलाश्व संवादेश्रीगिरिराजपूजाविधिवर्णनं नाम प्रथमोऽध्यायः ॥१॥हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP