संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|गिरिराजखण्डः| अध्यायः ०६ गिरिराजखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ गिरिराजखण्डः - अध्यायः ०६ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता गोपकृत कृष्णविभूतिपरीक्षा Translation - भाषांतर श्रीनारद उवाच -वृषभानुवरस्येदं वचःश्रुत्वा व्रजौकसः।ऊचुः पुनः शान्तिगता विस्मिता मुक्तसंशयाः ॥१॥गोपा ऊचुः -समीचीनं वरो राजन् राधेयं तु हरिप्रिया ।तत्प्रभावेण ते दीर्घं वैभवं दृश्यते भुवि ॥२॥सहस्रशो गजा मत्ताः कोटिशोऽश्वाश्च चंचलाः ।रथाश्च देवधिष्ण्याभाः शिबिकाः कोटिशः शुभाः ॥३॥कोटिशः कोटिशो गावो हेमरत्नमनोहराः ।मन्दिराणी विचित्राणि रत्नानि विविधानि च ॥४॥सर्वं सौख्यं भोजनादि दृश्यते साम्प्रतं तव ।कंसोऽपि धर्षितो जातो दृष्ट्वा ते बलमद्भुतम् ॥५॥कान्यकुब्जपतेः साक्षाद्भलन्दननृपस्य च ।जामाता त्वं महावीर कुबेर इव कोशवान् ॥६॥त्वत्समं वैभवं नास्ति नन्दराजगृहे क्वचित् ।कृषीवलो नन्दराजो गोपतिर्दीनमानसः ॥७॥यदि नन्दसुतः साक्षात्परिपूर्णतमो हरिः ।सर्वेषां पश्यतां नस्तत्परिक्षां कारय प्रभो ॥८॥श्रीनारद उवाच -तेषां वाक्यं ततः श्रुत्वा वृषभानुवरो महान् ।चकार नन्दराजस्य वैभवस्य परीक्षणम् ॥९॥कोटिदामानि मुक्तानां स्थूलानां मैथिलेश्वर ।एकैका येषु मुक्ताश्च कोटिमौल्याः स्फुरत्प्रभाः ॥१०॥निधाय तानि पात्रेषु वृणानैः कुशलैर्जनैः ।प्रेषयामास नन्दाय सर्वेषां पश्यतां नृप ॥११॥नन्दराजसभां गत्वा वृणानाः कुशला भृशम् ।निधाय दामपात्राणि नन्दमाहुः प्रणम्य तम् ॥१२॥वृणाना ऊचुः -विवाहयोग्यां नवकंजनेत्रांकोटीन्दुबिम्बद्युतिमादधानाम् ।विज्ञाय राधां वृषभानुमुख्य-श्चक्रे विचारं सुवरं विचिन्वन् ॥१३॥तवांगजं दिव्यमनंगमोहनंगोवर्द्धनोद्धारणदोःसामुद्भटम् ।संवीक्ष्य चास्मान्वृषभानुवंदितःसंप्रेषयामास विशाम्पते प्रभो ॥१४॥वरस्य चांके भरणाय पूर्वंमुक्ताफलानां निचयं गृहाण ।इतश्च कन्यार्थमलं प्रदेहिसैषा हि चास्मत्कुलजा प्रसिद्धिः ॥१५॥श्रीनारद उवाच -दृष्ट्वा द्रव्यं परो नन्दो विस्मितोऽपि विचारयन् ।प्रष्टुं यशोदां तत्तुल्यं नीत्वा चान्तःपुरं ययौ ॥१६॥चिरं दध्यौ तदा नन्दो यशोदा च यशस्विनी ।एतन्मुक्तासमानं तु द्रव्यं नास्ति गृहे मम ॥१७॥लोके लज्जा गता सर्वा हासः स्याच्चेद्धनोद्धृतम् ।किं कर्तव्यं तत्प्रति यच्छ्रीकृष्णोद्वाहकर्मणि ॥१८॥ततोऽयोग्यं तद्ग्रहणं पश्चात्कार्यं धनागमे ।एवं चिन्तयतस्तस्य नन्दस्यैव यशोदया ॥१९॥अलक्ष्य आगतस्तत्र भगवान्वृजिनार्दनः ।नीत्वा दामशतं तेषु बहिःक्षेत्रेषु सर्वतः ॥२०॥मुक्ताफलानि चैकैकम्प्राक्षिपत्स्वकरेण वै ।यथा बीजानि चान्नानां स्वक्षेत्रेषु कृषीवलः ॥२१॥अथ नन्दोऽपि गणयन् कलिकानिचयं पुनः ।शतं न्यूनं च तद्दृष्ट्वा सन्देहं स जगाम ह ॥२२॥श्रीनन्द उवाच -नास्ति पूर्वं यत्समानं तत्रापि न्यूनतां गतम् ।अहो कलंको भविता ज्ञातिषु स्वेषु सर्वतः ॥२३॥अथवा क्रीडनार्थ हि कृष्णो यदि गृहीतवान् ।बलदेवोऽथवा बालस्तौ पृच्छे दीनमानसः ॥२४॥श्रीनारद उवाच -इत्थं विचार्य नन्दोऽपि कृष्णं पप्रच्छ सादरम् ।प्रहसन् भगवान्नन्दं प्राह गोवर्धनोद्धरः ॥२५॥श्रीभगवानुवाच -कृषीवला वयं गोपाः सर्वबीजप्ररोहकाः ।क्षेत्रे मुक्ताप्रबीजानि विकीर्णीकृतवाहनम् ॥२६॥श्रीनारद उवाच -श्रुत्वाथ स्वात्मजेनोक्तं तं निर्भर्त्स्य व्रजेश्वरः ।तानि नेतुं तत्सहितस्तत्क्षेत्राणि जगाम ह ॥२७॥तत्र मुक्ताफलानां तु शाखिनः शतशः शुभाः ।दृश्यन्ते दीर्घवपुषो हरित्पल्लवशोभिताः ॥२८॥मुक्तानां स्तबकानां तु कोटिशः कोटिशो नृप ।संघा विलंबिता रेजुर्ज्योतींषीव नभःस्थले ॥२९॥तदाऽतिहर्षितो नन्दो ज्ञात्वा कृष्णं परेश्वरम् ।मुक्ताफलानि दिव्यानि पूर्वस्थूलसमानि च ॥३०॥तेषां तु कोटिभाराणि निधाय शकटेषु च ।ददौ तेभ्यो वृणानेभ्यो नन्दराजो व्रजेश्वरः ॥३१॥ते गृहीत्वाऽथ तत्सर्वं वृषभानुवरं गताः ।सर्वेषां शृण्वतां नन्दवैभवं प्रजगुर्नृप ॥३२॥तदाऽतिविस्मिताः सर्वे ज्ञात्वा नन्दसुतं हरिम् ।वृषभानुवरं नेमुर्निःसन्देहा व्रजौकसः ॥३३॥राधा हरेः प्रिया ज्ञाता राधायाश्च प्रियो हरिः ।ज्ञातो व्रजजनैः सर्वैस्तद्दिनान्मैथिलेश्वर ॥३४॥मुक्ताक्षेपः कृतो यत्र हरिणा नन्दसूनुना ।मुक्तासरोवरस्तत्र जातो मैथिल तीर्थराट् ॥३५॥एकं मुक्ताफलस्यापि दानं तत्र करोति यः ।लक्षमुक्तादानफलं समाप्नोति न संशयः ॥३६॥एवं ते कथितो राजन् गिरिराजमहोत्सवः ।भुक्तिमुक्तिप्रदो नॄणां किं भूयः श्रोतुमिच्छसि ॥३७॥इति श्रीगर्गसंहितायां गिरिराजखण्डे श्रीनारदबहुलाश्वसंवादेहरिपरीक्षणं नाम षष्ठोऽध्यायः ॥६॥हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP