गिरिराजखण्डः - अध्यायः ०२

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीनारद उवाच -
श्रुत्वा वचो नन्दसुतस्य साक्षा-
च्छ्रीनन्दसन्नन्दवरा व्रजेशाः ।
सुविस्मिताः पूर्वकृतं विहाय
प्रचक्रिरे श्रीगिरिराजपूजाम् ॥१॥
नीत्वा बलीन्मैथिल नन्दराजः
सुतौ समानीय च रामकृष्णौ ।
यशोदया श्रीगिरिपूजनार्थं
समुत्सको गर्गयुतः प्रसन्नः ॥२॥
त्वरं समारुह्य महोन्नतं गजं
विचित्रवर्णं धृतहेमशृङ्खलम् ।
गोवर्धनान्तं प्रययौ गवां गणैः
शरद्घनैः शक्र इव प्रियायुतः ॥३॥
नन्दोपनन्दा वृषभानवश्च
पुत्रैश्च पौत्रैश्च सहांगनाभिः ।
समाययुः श्रीगिरिराजपार्श्वं
सर्वं समानीय च यज्ञभारम् ॥४॥
सहस्रबालार्कपरिस्फुरद्द्युति-
मारुह्य राधा शिबिकां सखीगणैः ।
शचीव दिव्याम्बररत्‍नभूषणा
बभौ चकोरीभ्रमरीसमाकुला ॥५॥
समागते पार्श्वगते स्वलंकृते
राजन्सखीकोटिसमावृते परे ।
सख्यौ विभाते ललिताविशाखे
चन्द्रानने चालितचारुचामरे ॥६॥
एवं रमा वै विरजा च माधवी
माया च कृष्णा नृप जह्नुनंदिनी ।
द्वात्रिंशदष्टौ च तथा हि षोडश
सख्यश्च तासां किल यूथ आगतः ॥७॥
श्रीमैथिलानां किल कोसलानां
तथा श्रुतीनां ऋषिरूपकाणाम् ।
तथा त्वयोध्यापुरवासिनीनां
श्रीयज्ञसीतावनवासिनीनाम् ॥८॥
रमादिवैकुण्ठनिवासिनीनां
तथोर्ध्ववैकुण्ठनिवासिनीनाम् ।
महोज्ज्वलद्वीपनिवासिनीनां
ध्रुवादिलोकाचलवासिनीनाम् ॥९॥
समुद्रजादिव्यगुणत्रयाणा-
मदिव्यवैमानिकजौषधीनाम् ।
जालंधरीणां च समुद्रकन्या-
बर्हिष्मतीजासुतलस्थितानाम् ॥१०॥
तथाप्सरःसर्वफणीन्द्रजाना-
मासां च यूथाव्रजवासिनीनाम् ।
समाययुः श्रीगिरिराजपार्श्वं
स्वलंकृताः पाणिबलिप्रदीपाः ॥११॥
गोपाश्च वृद्धाः शिशवो युवानः
पीताम्बरोष्णीषकबर्हमंडिताः ।
श्रीहारगुंजावनमालिकाभी
रेजुः समेता नवयष्टिवेणुभिः ॥१२॥
श्रुत्वोत्सवं शैलवरस्य मन्मुखा-
द्‌गङ्गाधरो बद्धकपर्दमंडलः।
कपालभृन्नस्थिजभस्मरूषितः
सर्पालिमालावलयैर्विभूषितः ॥१३॥
धत्तूरभंगाविषपानविह्वलो
हिमाद्रिपुत्रीसहितो गणावृतः ।
आरुह्य नन्दीश्वरमादिवाहनं
समाययौ श्रीगिरिराजमण्डलम् ॥१४॥
राजर्षिविप्रर्षिसुरर्षयश्च
सिद्धेशयोगेश्वरहंसमुख्याः ।
आजग्मुराराद्‌गिरिदर्शनार्थं
सहस्रशो विप्रगणा समेताः ॥१५॥
गोवर्धनो रत्‍नशिलामयोऽभू-
त्सुवर्णशृङ्गैः परितः स्फुरद्‌भिः ।
मत्तालिभिर्निर्झरसुन्दरीभि-
र्दरीभिरुच्चांगकरीव राजन् ॥१६॥
तदैव शैलाः किल मूर्तिमंतः
सोपायना मेरुहिमाचलाद्याः ।
नेमुर्गिरिं मंगलपाणयस्तं
गोवर्धनं रूपधरं गिरीन्द्राः ॥१७॥
द्विजैश्च गोवर्धनदेवपूजनं
कृत्वाऽच्युतोक्तं द्विजवह्निगोधनम् ।
सम्पूज्य धृत्वा सुधनं महाधनं
बलिं ददौ श्रीगिरये व्रजेश्वरः ॥१८॥
नन्दोपनन्दैर्वृषभानुभिश्च
गोपीगणैर्गोपगणैः प्रहर्षितः ।
गायद्‌भिरानर्तनवाद्यतत्परै-
श्चकार कृष्णोऽद्रिवरप्रदक्षिणाम् ॥१९॥
देवेषु वर्षत्सु च पुष्पवर्षं
जनेषु वर्षत्सु च लाजसङ्घम् ।
रेजे महाराज इवाध्वरे जनै-
र्गोवर्धनो नाम गिरीन्द्रराजराट् ॥२०॥
कृष्णोऽपि साक्षाद्‌व्रजशैलमध्या-
द्धृत्वाऽतिदीर्घं किल चान्यरूपम् ।
शैलोऽस्मि लोकानिति भाषयन्सन्
जघास सर्वं कृतमन्नकूटम् ॥२१॥
गोपालगोपीगणवृन्दमुख्या
ऊचुः स्वयं वीक्ष्य गिरेः प्रभावम् ।
दातुं वरं तत्र समुद्यतं तं
सुविस्मिता हर्षितमानसास्ते ॥२२॥
ज्ञातोऽसि गोपैर्गिरिराजदेवः
प्रदर्शितो नन्दसुतेन साक्षात् ।
नो गोधनं वा किल बन्धुवर्यो
वृद्धिं समायातु दिने दिने कौ ॥२३॥
तथाऽस्तु चोक्त्वा गिरिराजराजो
गोवर्धनो दिव्यवपुर्दधानः ।
किरीटकेयूरमनोहराङ्गः
क्षणेन तत्रान्तरधीयतारात् ॥२४॥
नन्दोपनन्दा वृषभानवश्च
बलः सुचन्द्रो वृषभानुराजः ।
श्रीनन्दराजश्च हरिश्च गोपा
गोप्यश्च सर्वा निजगोधनैश्च ॥२५॥
द्विजाश्च योगेश्वरसिद्धसङ्घाः
शिवादयश्चान्यजनाश्च सर्वे ।
नत्वाऽथ सम्पूज्य गिरिं प्रसन्नाः
स्वं स्वं गृहं जग्मुरनिच्छया च ॥२६॥
श्रीकृष्णचन्द्रस्य परं चरित्रं
गिरीन्द्रराजस्य महोत्सवं च ।
मया तवाग्रे कथितं विचित्रं
नॄणां महापापहरं पवित्रम् ॥२७॥

इति श्रीगर्गसंहितायां श्रीगिरिराजखण्डे श्रीनारदबहुलाश्वसंवादे
गिरिराजमहोत्सववर्णनं नाम द्वितीयोऽध्यायः ॥२॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥

N/A

References : N/A
Last Updated : May 19, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP