गिरिराजखण्डः - अध्यायः ०३
गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.
श्रीनारद उवाच -
अथ मन्मुखतः श्रुत्वा स्वात्मयागस्य नाशनम् ।
गोवर्धनोत्सवं जातं कोपं चक्रे पुरन्दरः ॥१॥
सांवर्तकं नाम गणं प्रलये मुक्तबंधनम् ।
इन्द्रो व्रजविनाशाय प्रेषयामास सत्वरम् ॥२॥
अथ मेघगणाः क्रुद्धा ध्वनंतश्चित्रवर्णिनः ।
कृष्णाभाः पीतभाः केचित्केचिच्च हरितप्रभाः ॥३॥
इन्द्रगोपनिभाः केचित्केचित्कर्पूरवत्प्रभाः ।
नानाविधाश्च ये मेघा नीलपंकजसुप्रभाः ॥४॥
हस्तितुल्यान्वारिबिन्दून् ववृषुस्ते मदोद्धताः ।
हस्तिशुंडासमाभिश्च धाराभिश्चंचलाश्च ये ॥५॥
निपेतुः कोटिशश्चाद्रिकूटतुल्योपला भृशम् ।
वाता ववुः प्रचण्डाश्च क्षेपयन्तस्तरून् गृहान् ॥६॥
प्रचण्डा वज्रपातानां मेघानामन्तकारिणाम् ।
महाशब्दोऽभवद्भूमौ मैथिलेन्द्र भयंकरः ॥७॥
ननाद तेन ब्रह्माण्डं सप्तलोकैर्बिलैः सह ।
विचेलुर्दिग्गजास्तारा ह्यपतन्भूमिमण्डलम् ॥८॥
भयभीता गोपमुख्याः सकुटुम्बा जिगीषवः ।
शिशुन्स्वान्स्वान्पुरस्कृत्य नन्दमन्दिरमाययुः ॥९॥
श्रीनन्दनन्दनं नत्वा सबलं परमेश्वरम् ।
उचुर्व्रजौकसः सर्वे भयार्ताः शरणं गताः ॥१०॥
गोपा उचुः -
राम राम महाबाहो कृष्ण कृष्ण व्रजेश्वर ।
पाहि पाहि महाकष्टादिन्द्रदत्तान्निजान्जनान् ॥११॥
हित्वेन्द्रयागं त्वद्वाक्यात्कृतो गोवर्धनोत्सवः ।
अद्य शक्रे प्रकुपिते कर्तव्यं किं वदाशु नः ॥१२॥
श्रीनारद उवाच -
व्याकुलं गोकुलं वीक्ष्य गोपीगोपालसंकुलम् ।
सवत्सकं गोकुलं च गोपानाह निराकुलः ॥१३॥
श्रीभगवानुवाच -
मा भैष्ट याताद्रितटं सर्वैः परिकरैः सह ।
वः पूजा प्रहृता येन स रक्षां संविधास्यति ॥१४॥
श्रीनारद उवाच -
इत्युक्त्वा स्वजनैः सार्द्धमेत्य गोवर्धनं हरिः ।
समुत्पाट्य दधाराद्रिं हस्तेनैकेन लीलया ॥१५॥
यथोच्छिलींध्रं शिशुरश्रमो गजः
स्वपुष्करेणैव च पुष्करं गिरिम् ।
धृत्वा बभौ श्रीव्रजराजनन्दनः
कृपाकरोऽसौ करुणामयः प्रभुः ॥१६॥
अथाह गोपान्विशताद्रिगर्तं
हे तात मातर्व्रजवल्लभेशाः ।
सोपस्करैः सर्वधनैश्च गोभि-
रत्रैव शक्रस्य भयं न किंचित् ॥१७॥
इत्थं हरेर्वचः श्रुत्वा गोपा गोधनसंयुताः ।
सकुटुम्बोपस्करैश्च विविशुः श्रीगिरेस्तलम् ॥१८॥
वयस्या बालकाः सर्वे कृष्णोक्ताः सबला नृप ।
स्वान्स्वांश्च लगुडानद्रेरवष्टंभान्प्रचक्रिरे ॥१९॥
जलौघमागतं वीक्ष्य भगवांस्तद्गिरेरधः ।
सुदर्शनं तथा शेषं मनसाऽऽज्ञां चकार ह ॥२०॥
कोटिसूर्यप्रभं चाद्रेरूर्ध्वं चक्रं सुदर्शनम् ।
धारासंपातमपिबदगस्त्य इव मैथिल ॥२१॥
अधोऽधस्तं गिरेः शेषः कुण्डलीभूत आस्थितः ।
रुरोध तज्जलं दीर्घं यथा वेला महोदधिम् ॥२२॥
सप्ताहं सुस्थिरस्तस्थौ गोवर्धनधरो हरिः ।
श्रीकृष्णचंद्रं पश्यंतश्चकोरा इव ते स्थिताः ॥२३॥
मत्तमैरावतं नागं समारुह्य पुरन्दरः ।
ससैन्यः क्रोधसंयुक्तो व्रजमण्डलमाययौ ॥२४॥
दूराच्चिक्षेप वज्रं स्वं नंदगोष्ठजिघांसया ।
स्तंभयामास शक्रस्य सवज्रं माधवो भुजम् ॥२५॥
भयभीतस्तदा शक्रः सांवर्तकगणैः सह ।
दुद्राव सहसा देवैर्यथेभः सिंहताडितः ॥२६॥
तदैवार्कोदयो जातो गता मेघा इतस्ततः ।
वाता उपरताः सद्यो नद्यः स्वल्पजला नृप ॥२७॥
विपंकं भूतलं जातं निर्मलं खं बभूव ह ।
चतुष्पदाः पक्षिणश्च सुखमापुस्ततस्ततः ॥२८॥
हरिणोक्तास्तदा गोपा निर्ययुर्गिरिगर्ततः ।
स्वं स्वं धनं गोधनं च समादाय शनैः शनैः ॥२९॥
निर्यातेति वयस्यांश्च प्राह गोवर्धनोद्धरः ।
ते तमाहुश्च निर्गच्छ धारयामोऽद्रिमोजसा ॥३०॥
इति वादपरान् गोपान् गोवर्धनधरो हरिः ।
तदर्द्धं च गिरेर्भारं प्रादात्तेभ्यो महामनाः ॥३१॥
पतितास्तेन भारेण गोपबालाश्च निर्बलाः ॥३२॥
करेण तान् समुत्थाप्य स्वस्थाने पूर्ववद्गिरिम् ।
सर्वेषां पश्यतां कृष्णः स्थापयामास लीलया ॥३३॥
तदैव गोपीगणगोपमुख्याः
सम्पूज्य कृष्णं नृप नन्दसूनुम् ।
गन्धाक्षताद्यैर्दधिदुग्धभोगै-
र्ज्ञात्वा परं नेमुरतीव सर्वे ॥३४॥
नन्दो यशोदा नृप रोहिणी च
बलश्च सन्नन्दमुखाश्च वृद्धाः।
आलिंग्य कृष्णं प्रददुर्धनानि
शुभाशिषा संयुयुजुर्घृणार्ताः ॥३५॥
संश्लाघ्य तं गायनवाद्यतत्परा
नृत्यन्त आरान्नृप नन्दनन्दनम् ।
आजग्मुरेव स्वगृहान्व्रजौकसो
हरिं पुरस्कृत्य मनोरथं गताः ॥३६॥
तदैव देवा ववृषुः प्रहर्षिताः
पुष्पैः शुभैः सुन्दरनन्दनोद्भवैः ।
जगुर्यशः श्रीगिरिराजधारिणो
गन्धर्वमुख्या दिवि सिद्धसङ्घाः ॥३७॥
इति श्रीगर्गसंहितायां श्रीगिरिराजखण्डे श्रीनारदबहुलाश्वसंवादे
गोवर्धनोद्धरणं नाम तृतीयोऽध्यायः ॥३॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥
N/A
References : N/A
Last Updated : May 19, 2021
TOP