द्वितीयः भागः - वातव्याध्यधिकारः
भावप्रकाशसंहिता
अथ चतुर्विंशो वातव्याध्यधिकारः ॥२४॥
कषायकटुतिक्तकप्रमितरुक्षलघ्वन्नतः पुरः पवनजागरप्रतरणाभिघातश्रमैः हिमादनशनात्तथा निधुवनाच्च
धातुक्षयान्मलादिरयधारणान्मदनशोकचिन्ताभयैः ॥१॥
अतिक्षतजमोक्षणाद्गदकृतातिमांसक्षयादतीववमनान्नृणामति विरेचनादामतः पयोदसमये दिनक्षण दयोस्तृतीयांश योर्ज रामति गतेऽशिते शिशिरसञ्ज्ञकालेऽपिच ॥२॥
देहेस्रोतांसि रिक्तानि पूरयित्वाऽनिलो बली
करोति विविधान् रोगान्सर्वाङ्गैकाङ्गसंश्रयान् ॥३॥
शिरोग्रहोऽल्पकृशता जृम्भाऽत्यर्थं हनुग्रहः
जिह्वास्तम्भो गद्गदत्वं मिन्मिनत्वञ्च मूकता ॥४॥
वाचालता प्रलापञ्च रसानामनभिज्ञता
बाधिर्यं कर्णनादश्च स्पर्शाज्ञत्वं तथाऽदितम् ॥५॥
मन्यास्तम्भोऽत्र गणितो बाहुशोषोऽपबाहुकः
वर्णिता चैव विश्वाची ऊर्द्ध्ववात उदीरितः ॥६॥
आध्मानञ्च प्रत्याध्मानं वाताष्ठीला प्रतिष्ठीला
तूनी च प्रतितूनी च वह्निवैषम्यमेव च ॥७॥
आटोपः पार्श्वशूलञ्च त्रिकशूलं तथैव च
मुहुश्च मूत्रणं मूत्रनिग्रहो मलगाढता ॥८॥
पुरीषस्याप्रवृत्तिश्च गृध्रसी च ततः परा
कलायखञ्जता चापि खञ्जता पङ्गुता तथा ॥९॥
क्रोष्टुशीर्षकखल्ल्यौ च वातकण्टक एव च
पादहर्षः पाददाह आक्षेपो दण्डकाभिधः ॥१०॥
वातपित्तकृताक्षेपस्तथा दण्डापतानकः
अभिघातकृताक्षेप आयामो द्विविधः स्मृतः ॥११॥
आन्तरश्च तथा बाह्यो धनुर्वातश्च कुब्जकः
अपतन्त्रोऽपतानश्च पक्षाघातः खिलाङ्गकः ॥१२॥
कम्पः स्तम्भो व्यथा तोदो भेदश्च स्फुरणं तथा
रौक्ष्यं कार्श्यञ्च कार्ष्ण्यञ्च शैत्यं लोम्नश्च हर्षणम् ॥१३॥
अङ्गमर्दोऽङ्गविभ्रंशः शिरासंकोच एव च
अङ्गशोषश्च भीरुत्वं मोहश्च चलचित्तता ॥१४॥
निद्रा नाशः स्वेदनाशो बलहानिस्तथैव च
शुक्रक्षयो रजोनाशो गर्भनाशः परिभ्रमः ॥१५॥
एत एवाशीतिसंख्या रोगा योगेन रूढितः
वातव्याधीतिनामानो मुनिभिःपरिकीर्त्तिताः ॥१६॥
मधुरलवणसाम्लस्निग्धस्योष्णनिद्रा गुरुरविकरवस्तिस्वेदसन्तर्पणानि
दहनजलदशोषाभ्यङ्गसम्मर्दनानि प्रकुपितपवनानां शान्तिमेतानिकुर्युः ॥१७॥
अथ विशिष्टानां वातव्याधीनां लक्षणानि चिकित्सा च
रक्तमाश्रित्य पवनः कुर्यान्मूर्द्धधराः शिराः
रुक्षाः सवेदनाः कृष्णाः सोऽसाध्यः स्याच्छिरोग्रहः ॥१८॥
शिरोग्रहे तु कर्त्तव्या शिरोगतमरुत्क्रिया
दशमूलीकषायेण मातुलुङ्गरसेन च
शृतेन तैलेनाभ्याङ्गः शिरोबस्तिश्च युज्यते ॥१९॥
पीत्वैकं श्वासमनिलः पुनस्त्यजति वेगवान्
आलस्यनिद्रा युक्तश्च स जृम्भ इति कथ्यते ॥२०॥
शुण्ठी पिप्पल्यूषणं दीप्यकञ्च सिन्धूद्भूतं चेति सर्वे पृथग्वा
तद्रू पं वा सूक्ष्मचूर्णीकृतं वा जृम्भाऽरम्भस्तम्भकृत्स्यात्तदेव ॥२१॥
जृम्भावेगे समुत्पन्ने शोभने शयने नरम्
स्वापयेत्तेन नियमाज्जृम्भावेगः प्रशाम्यति ॥२२॥
जृम्भावेगःक्षयं याति कटुतैलेन मर्दनात्
भोजनात्स्वादुभोज्यानां तथा ताम्बूलभक्षणात् ॥२३॥
जिह्वानिर्लेखनाच्छुष्क भक्षणादभिघाततः
कुपितो हनुमूलस्थः स्रंसयित्वानिलो हनुम् ॥२४॥
करोति विवृतास्यत्वमथ वा संवृतास्यताम्
हनुग्रहः स तेन स्यात्कृच्छ्राच्चर्वणभाषणम् ॥२५॥
संवृतं चिबुकं स्निग्धं स्विन्नमुन्नमयेद्भिषक्
विवृतं नमयित्वा तु कुर्यात्प्राप्तामिह क्रियाम् ॥२६॥
पिप्पलीमार्द्र कञ्चापि सञ्चर्व्य च मुहुर्मुहुः
निष्ठीवेत्तप्ततोयेन शोधयेद्वदनान्तरम् ॥२७॥
निष्कुष्य लशुनं सम्यक्संक्षुद्य तिलतैलवत्
सैन्धवेनान्वितं खादेद्धनुस्तम्भार्दितो नरः ॥२८॥
रसोनगुटिकामाषविदलं परिपेष्य च
याजयेत्पिष्टिकां ताञ्च सैन्धवार्द्र कहिङ्गुभिः ॥२९॥
ततस्तु वटकान्कृत्वा तिलतैले पचेच्छनैः
भक्षयेत्तान्यथावह्निं हनुस्तम्भात्सुखी भवेत् ॥३०॥
अभ्यज्य पक्वतैलेन स्वेदयेन्मृदुनाग्नि
वस्तिं विधारयेन्मूर्ध्नि तैलेन परिपूरितम् ॥३१॥
समूलपत्रशाखायाः प्रसारण्याः शतं पलैः
सम्यक्संक्षुद्य सलिले द्रो णमात्रे पचेद्भिषक् ॥३२॥
सलिलस्य चतुर्थाशं क्वाथं समवशेषयेत्
ततः पलशते तैले तं कषायं पुनः पचेत् ॥३३॥
पचेत्पलशतं मस्तु काञ्जिकं मस्तुनः समम्
ततः शुद्धं पचेद् दुग्धं गव्यं तैलाच्चतुर्गुणम् ॥३४॥
चित्रकं पिप्पलीमूलं मधुकं सैन्धवं वचा
शतपुष्पा देवदारु रास्ना च गजपिप्पली ॥३५॥
प्रसारणीभवं मूलं मांसी रक्तञ्च चन्दनम्
तथा वातारिमूलञ्च बलामूलञ्च नागरम् ॥३६॥
तैलस्य चाष्टमांशेन सर्वकल्कानि साधयेत्
नाम्ना प्रसारणीतैलं विख्यातं तत्प्रयुज्यते ॥३७॥
पाने नस्ये शिरोवस्तौ मर्दने स्वेदने तथा
प्रयुक्तं वातजान् रोगान्सर्वानपि विनाशयेत् ॥३८॥
विशेषतो हनुस्तम्भं जिह्वास्तम्भं तथाऽदितम्
गद्गदत्वञ्च विश्वाचीं मन्यास्तम्भापबाहुकौ ॥३९॥
त्रिकशूलं गृध्रसीञ्च खञ्जतां पङ्गुतां तथा
कलायखञ्जतां खल्लीं स्तम्भं सङ्कोचमेव च ॥४०॥
आन्तरं बाह्यमायामं तथा दण्डापतानकम्
धनुर्वातञ्च कुब्जत्वं व्यपोहति न संशयः ॥४१॥
क्षीणानां स्थविराणाञ्च वातसङ्कोचितात्मनाम्
प्रसारयेद्यतोऽङ्गानि तदुक्तैषा प्रसारणी ॥४२॥
वाग्वाहिनीशिरासंस्थो जिह्वां स्तम्भयतेऽनिलः
जिह्वास्तम्भः स तेनाद्मपानवाक्येष्वनीशता ॥४३॥
जिह्वास्तम्भे यथाऽवस्थं वातव्याधिचिकित्सितम्
सामान्योक्ता क्रिया चात्रार्दितस्यापि हिता मता ॥४४॥
आघृत्य वायुः सकफो धमनीः शब्दवाहिनीः
नरान्करोत्यवचनान्मूकमिन्मिनगद्गदान् ॥४५॥
अथ गद्गदमिन्मिनमूकानां चिकित्सा
प्रस्थं घृतस्य पलिकैः शिग्रुवचालवणधातकीलोघ्रैः
आजे पयसि सपाठैः सिद्धं सारस्वतं नाम्ना ॥४६॥
विधिवदुपयुज्यमानं जडगद्गदमूकतां क्षणाज्जित्वा
स्मृतिमतिमेधाप्रतिभाः कुर्यात्सुस्पष्टवाग्भवति ॥४७॥
सहरिद्रा वचा कुष्ठं पिप्पली विश्वभेषजम्
अजाजी चाजमोदा च यष्टीमधुकसैन्धवम् ॥४८॥
एतानि समभागानि सूक्ष्मचूर्णानि कारयेत्
तच्चूर्णं सर्पिषा लेह्यं प्रत्यहं भक्षयेन्नरः ॥४९॥
एकविशंतिरात्रेण भवेच्छुतिधरो नरः
मेघदुन्दुभिनिर्घोषो मत्तकोकिलनिस्वनः ॥५०॥
स्वहेतुकुपिताद्वातादसम्बद्धं निरर्थकम्
वचनं यन्नरो ब्रूते स प्रलापः प्रकीर्त्तितः ॥५१॥
सतगरवरतिक्तारेवताम्भोदतिक्तानलदतुरगगन्धा भारतीहारहूराः मलयजदशमूलीशङ्खपुष्प्यः सुपक्वाः प्रलपनमपहन्युः पानतो नातिदूरात् ॥५२॥
भुञ्जानस्य नरस्यान्नं मधुरप्रभृतीन् रसान्
रसज्ञा यन्न जानाति रसाज्ञानं तदुच्यते ॥५३॥
घर्षेज्जिह्वां जडां सिन्धुत्र्यूषणैः साम्लवेतसैः
अम्लवेतसकाभावे चुक्रं दातव्यमीरितम् ॥५४॥
किराततिक्तका कट्वी कुटजस्य फलं त्वचा
ब्राह्मी फलञ्च पालाशं सर्जिका कृष्णजीरकम् ॥५५॥
पिप्पली पिप्पलीमूलं चित्रं नागरमूषणम्
एषां कल्कैर्मुहुर्घर्षेज्जिह्विकामार्द्रि कारसैः ॥५६॥
तेन सम्यग्विजानाति रसना सकलान् रसान्
कल्कः किराततिक्तादिर्जिह्वायाःशून्यतां हरेत् ॥५७॥
स्पृश्यमाना त्वचा या तु शीतोष्णं मृदु कर्कशम्
न जानाति बुधैस्त्वक् सा शून्येति परिकीर्त्तिता ॥५८॥
सुप्तवाते त्वसृङ्मोक्षं कारयेद् बहुशो भिषक्
दद्याच्च लवणाङ्गारधूमैस्तैलसमन्वितैः ॥५९॥
उच्चैर्व्याहरतोऽत्यर्थं खादतः कठिनानि च
हसतो जृम्भतो भाराद्विषमाच्छयनासनात् ॥६०॥
शिरोनासौष्ठचिबुकललाटेक्षणसन्धिगः
अर्दयत्यनिलो वक्त्रमर्दितं जनयेत्ततः ॥६१॥
वक्रीभवति वक्त्रार्द्धं ग्रीवा चाप्यपवर्त्तते
शिरश्चलति वाक्सङ्गो नेत्रादीनाञ्च वैकृतम् ॥६२॥
ग्रीवाचिबुकदन्तानां तस्मिन्पार्श्वे च वेदना
तमर्दितमिति प्राहुर्व्याधिं व्याधिविशारदाः ॥६३॥
वातात्पित्तात्कफाच्च स्यात्त्रिविधं तत्समासतः
लालास्रावो व्यथा कम्पः स्फुरणं हनुवाग्ग्रहः ॥६४॥
ओष्ठयोः श्वयथुः शूलं चार्दिते वातजे भवेत् ॥६५॥
पीतमास्यं ज्वरस्तृष्णापित्तजे मोहधूपने
गण्डे गिरसि मन्यायां शोथः स्तम्भः कफात्मके ॥६६॥
क्षीणस्यानिमिषाक्षस्य प्रसक्ताव्यक्तभाषिणः
न सिध्यत्यर्दितं गाढं त्रिवर्षं वेपनस्य च ॥६७॥
स्नेहपानानि नस्यश्च भोज्यान्यनिलहन्ति च
उपनाहाश्च शस्यन्ते नावनं वस्तयोऽदिते ॥६८॥
बलया पञ्चमूल्या वा क्षीरं वातात्मके हितम्
दशमूलकषायेण मातुलुङ्गरसेन वा ॥६९॥
पिष्टं मांसघृतं जग्ध्वा नवनीतेन सोऽदिती
क्षीरमांसरसैर्भुक्त्वा दशमूलीरसं पिबेत् ॥७०॥
अर्दिते पित्तजे शीतान्स्नेहांश्चैव विनिर्दिशेत्
घृतवस्तिप्रसेकञ्च क्षीरमेकं तथैव च ॥७१॥
जिह्मीभूताननो मूको दाहवान्योऽदिती भवेत्
कुर्यात्प्रतिक्रियां तस्य वातपित्तविनाशिनीम् ॥७२॥
श्लेष्मभागे क्षयं नीते बृंहणैः समुपाचरेत्
अर्दिते शोथसंयुक्ते वमनं च प्रशस्यते ॥७३॥
रसोनकल्कं तिलतैलमिश्रं खादेन्नरो योऽदितरोगयुक्तः
तस्यार्दितं नाशमुपैति शीघ्रं वृन्दं घनानामिव वायुवेगात् ॥७५॥
दिवास्वप्नासनस्थानविकृतोर्ध्वनिरीक्षणैः
मन्यास्तम्भं प्रकुरुते स एव श्लेष्मणाऽवृतः ॥७५
दशमूलीकृतं क्वाथं पञ्चमूल्याऽपि कल्पितम्
रुक्षं स्वेदं तथा नस्यं मन्यास्तम्भे प्रयोजयेत् ॥७६॥
तैलेनाज्येन वा ग्रीवामभ्यज्यार्कदलैरथ
एरण्डपत्रैराच्छाद्य स्वेदयेद् बहुशो भिषक् ॥७७॥
कुक्कुटाण्डद्र वैरुष्णैः सैन्धवाज्यसमन्वितैः
ग्रीवां सम्मर्दयेत्तेन मन्यास्तम्भः प्रशाम्यति ॥७८॥
अंसदेशे स्थितो वायुः शोषयेदंसबन्धनम्
अंसबन्धनशोषात्स्याद् बाहुशोषः सवेदनः ॥७९॥
बाहुशोषे पिबेद् भुक्त्वा सर्पिः कल्याणकं महत्
बलामूलशृतं तोयं सैन्धवेन समन्वितम्
बाहुशोषकरे वाते मन्यास्तम्भे च शस्यते ॥८०॥
शिराः सङ्कोच्य बाहुस्थः स कुर्यादपबाहुकम् ॥८१॥
परमौषधमपबाहु कमन्यास्तम्भोर्ध्वजत्रुगतरोगे
शीतलजलेन नस्यं तदुपशमं जिङ्गिनी च पुरः ॥८२॥
मूलं बलायास्त्वथ पारिभद्र जं तथाऽत्मगुप्तास्वरसं पिबेद्वा
युञ्जीत यो माषरसेन नस्यं भवेदसौ वज्रसमानबाहुः ॥८३॥
माषातसीयवकुरण्टककण्टकारी गोकण्टटुण्टुकजटाकपिकच्छतोयैः
कार्पासकास्थिशणबीजकुलत्थकोलक्वाथेन बस्तपिशितस्य रसेन चापि ॥८४॥
शुण्ठ्या समागधिकया शतपुष्पया च सैरण्डमूलकपुनर्नवया सरण्या
रास्नाबलाऽमृतलताकटुकैर्विपक्वं माषाख्यमेतदपबाहुहरं हि तैलम् ॥८५॥
तलं प्रत्यङ्गुलीनां याः कण्डरा बाहुपृष्ठतः
बाह्वोः कर्मक्षयकरी विश्वाची सा निगद्यते ॥८६॥
दशमूलीबलामाषक्वाथं तैलाज्यमिश्रितम्
सायं भुक्त्वा पिबेन्नस्यं विश्वाच्यामपबाहुके ॥८७॥
माषसिन्धुबलारास्ना दशमूलकहिङ्गुभिः
वचाशिवजटाऽख्याभिः सिद्धं तैलं सनागरम् ॥८८॥
ऊर्ध्वं भक्ताशनाद्धन्याद् बाहुशोषापबाहुकौ
विश्वाचीमुद्धतां चापि पक्षाघातं तथाऽदितम् ॥८९॥
अधःप्रतिहतो वायुः श्लेष्मणा मारुतेन च
करोत्युद्गारबाहुल्यमूर्ध्ववातः स उच्यते ॥९०॥
भागा दश विश्वायास्तत्तुल्या वृद्धदारकस्यापि
त्रय एव च पथ्यायाश्चतुरंशं हिङ्गु सम्भृष्टम् ॥९१॥
एकः सैन्धवभागस्तत्तुल्यं चित्रकं चात्र
संवृद्धमूर्ध्ववातं हन्त्येतच्चूर्णितं भुक्तम् ॥९२॥
साटोपमत्युग्ररुजमाध्मातमुदरं भृशम्
आध्मानमिति जानीयाद्धोरं वातनिरोधजम् ॥९३॥
आध्माने लङ्घनं पूर्वं दीपनं पाचनं ततः
फलवर्तिक्रियां कुर्याद्वस्तिकर्म च शोधनम् ॥९४॥
कर्षमात्रा भवेत्कृष्णा त्रिवृता स्यात्पलोन्मिता
खण्डादपि पलं ग्राह्यं चूर्णमेकत्र कारयेत्
मधुनाऽक्षमितं लिह्याच्चूर्णमाध्माननाशनम् ॥९५॥
दारुहैमवतीकुष्ठशताह्वा हिङ्गुसैन्धवैः
लिम्पेदुष्णैरम्लपिष्टैः शूलाध्मानयुतोदरम् ॥९६॥
अभयाऽरग्वधो धात्री दन्ती तिक्ता स्नुही त्रिवृत्
मुस्ता प्रत्येकमेतानि ग्राह्याणि पलमात्रया ॥९७॥
तानि सङ्कुट्य सर्वाणि जलाढकयुगे पचेत्
तत्र तोयेऽष्टमं भागं कषायमवशेषयेत् ॥९८॥
निस्त्वग्जैपालबीजानि नवानि पलमात्रया
तनुवस्त्रधृतान्येव तस्मिन्क्वाथे शनैः पचेत् ॥९९॥
ज्वालयेदनलं मन्दं यावत्क्वाथो घनो भवेत्
तत खल्वे क्षिपेद्भागानष्टौ जैपालबीजतः ॥१००॥
भागांस्त्रीन्नागराद् द्वौ च मरिचाद् द्वौ च पारदात्
गन्धकाद् द्वौ च तानीह यावद्यामं विमर्दयेत् ॥१०१॥
रसो नाराचनामाऽय भक्षितो रक्तिकामितः
जलेन शीतलेनैव रोगानेतान्विनाशयेत् ॥१०२॥
आध्मानं शूलमानाहं प्रत्याध्मानं तथैव च
उदावर्त्तं तथा गुल्ममुदराणि हरत्यसौ ॥१०३॥
वेगे शान्ते तु भुञ्जीत शर्करासहितं दधि
ततस्तत्सैन्धवेनापि ततो दध्योदनं मनाक् ॥१०४॥
विमुक्तपार्श्वहृदयं तदेवामाशयोत्थितम्
प्रत्याध्मानं विजानीयात्कफव्याकुलितानिलम् ॥१०५॥
प्रत्याध्माने समुत्पन्ने कुर्याद्वमनलङ्घने
दीपनादीनि युञ्जीत पूर्ववद्वस्तिकर्म च ॥१०६॥
नाभेरधस्तात्सञ्जातः सञ्चारी यदि वाऽचलः ॥१०७॥
अष्ठीलावद्घनो ग्रन्थिरुर्ध्वमायत उन्नतः
वाताष्ठीलां विजानीयाद् वहिर्मार्गनिरोधिनीम् ॥१०८॥
एतामेव रुजायुक्तां वातविण्मूत्ररोधिनीम्
प्रत्यष्ठीलामिति वदेज्जठरे तिर्यगुत्थिताम् ॥१०९॥
अष्ठीलायाः क्रिया कार्या गुल्मस्यान्तरविद्र धेः
चूर्णं हिङ्ग्वादिकं चात्र पिबेदुष्णेन वारिणा ॥११०॥
हिङ्गुग्रन्थिक धान्यजीरकवचाचव्याग्निपाठाशटी
वृक्षाम्लं लवणत्रयं त्रिकटुकं क्षारद्वयं दाडिमम्
पथ्यापौष्करवेतसाम्लहपुषायोज्यंतदेभिः कृतं
चूर्णं भावितमेतदार्द्र करसैः स्याद् बीजपूरद्र वैः ॥१११॥
अधो या वेदना याति वर्चोमूत्राशयोत्थिता
भिन्दन्तीव गुदोपस्थं सा तूनी नामतो मता ॥११२॥
गुदोपस्थोत्थिता सैव प्रतिलोमं विधाविता
वेगैः पक्वाशयं याति प्रतितूनीति सोच्यते ॥११३॥
तून्याञ्च प्रतितून्याञ्च प्रशस्ताः स्नेहवस्तयः
पिबेद्वा स्नेहलवणं पिप्पल्यादिमथाम्बुना
उष्णेन रामठं क्षारं प्रगाढमथ वा घृतम् ॥११४॥
स्फिगस्थ्नोः पृष्ठवंशास्थ्नोर्यः सन्धिस्तत्त्रिकं मतम्
तत्र वातेन या पीडा त्रिकशूलं तदुच्यते ॥११५॥
कारयेद्वालुकास्वेदं त्रिकशूलेप्रयत्नतः
यद्वाऽधस्तात्करीषाग्निं धारयेत्सततं नरः ॥११६॥
आभाऽश्वगन्धा हपुषागुडूची शतावरी गोक्षुरकश्च रास्ना
श्यामा शताह्वा च शटी यवानी सनागरा चेति समं विचूर्ण्य ॥११७॥
सर्वैः समं गुग्गुलुमत्र दद्यात्क्षिपेदिहाज्यञ्च तदर्द्धभागम्
तद्भक्षयेदर्द्धपिचुप्रमाणं प्रभातकाले पयसाऽथ यूषैः ॥११८॥
मद्येन वा कोष्णजलेन चापि क्षीरेण वा मांसरसेन वाऽपि
त्रिकग्रहे जानुहनुग्रहे च वाते भुजस्थे चरणस्थिते च ॥११९॥
सन्धिस्थिते चास्थिगते च तस्मिन्मज्जस्थिते स्नायुगते च कोष्ठे
रोगान् हरेद्वातकफानुविद्धान् वातेरितान् हृद्ग्रहयोनिदोषान् ॥१२०॥
भग्नास्थिविद्धेषु च खञ्जतायां सगृध्रसीके खलु पक्षघाते
महौषधं गुग्गुलुमेतमाहुस्त्रयोदशाङ्गं भिषजः पुराणाः ॥१२१॥
मारुतेऽविगुणे वस्तौ मूत्रं सम्यक्प्रवर्त्तते
विकारा विविधाश्चापि तस्मिन्दुष्टे भवन्ति हि ॥१२२॥
बलामूर्वात्वचश्चूर्णं ससितं कर्षसम्मितम्
पिबेत्कुडवदुग्धेन मुहुर्मूत्रणशान्तये ॥१२३॥
पथ्याबिभीतधात्रीणां चूर्णं चूर्णं मृतायसः
मधुना सह संलीढं मुहुर्मूत्रणशान्तिकृत् ॥१२४॥
यवक्षारस्य चूर्णस्तु संयोज्य सितया सह
भक्षयेन्नियतं तस्य प्रशाम्येन्मूत्रनिग्रहः ॥१२५॥
कूष्माण्डस्य तु बीजानि बीजानि त्रपुषस्य च
वस्तौ सन्धारयेत्तेन प्रशाम्येन्मूत्रनिग्रहः ॥१२६॥
आमलक्याश्च कल्केन वस्तिभागं प्रलेपयेत्
तेन प्रशाम्यति क्षिप्रं नियमान्मूत्रनिग्रहः ॥१२७॥
मेहनस्याथ योनेर्वा मुखस्याभ्यन्तरे शनैः
घनसारयुतां वर्त्तिं धारयेन्मूत्रनिग्रहे ॥१२८॥
स्फिक्पूर्वोरुकटीपृष्टजानुजङ्घापदं क्रमात्
गृध्रसी स्तम्भरुक्तोदैर्गृह्णाति स्पन्दते मुहुः ॥१२९॥
वाताद्वातकफाभ्यां सा विज्ञेया द्विविधा पुनः
वातजायां भवेत्तोदो देहस्यातीव वक्रता ॥१३०॥
जानुजङ्घोरुसन्धीनां स्फुरणं स्तम्भता भृशम् ॥१३१॥
वातश्लेष्मोद्भवायान्तु गौरवं वह्निमार्दवम्
तन्द्रा मुखप्रसेकश्च भक्तद्वेषस्तथैव च ॥१३२॥
गृध्रस्यार्त्तं नरं सम्यग् रेकेण वमनेन वा
ज्ञात्वा निरामं दीप्ताग्निं वस्तिभिः समुपाचरेत् ॥१३३॥
नादौ वस्तिविधिं कुर्याद्यावदूर्ध्वं न शुध्यति
स्नेहो निरर्थकः स स्याद्भस्मन्येव हुतं यथा ॥१३४॥
तैलमेरण्डजं प्रातर्गोमूत्रेण पिबेन्नरः
मासमेकं प्रयोगोऽय गृध्रस्यूरुग्रहापहः ॥१३५॥
तैलं घृतं चार्द्र कमातुलुङ्गरसं सचुक्रं सगुडं पिबेद्वा
कट्युरुपृष्ठत्रिकशूलगुल्मगृध्रस्युदावर्त्तहरः प्रयोगः ॥१३६॥
निष्कुष्यैरण्डबीजानि पिष्ट्वा क्षीरे विपाचयेत्
तत्पानन्तु कटीशूले गृध्रस्यां परमौषधम् ॥१३७॥
एरण्डमूलं बिल्वञ्च बृहती कण्टकारिका
कषायोरुचकोपेतः पीतो वङ्क्षणवस्तिजम्
गृध्रसीजं हरेच्छूलं चिरकालानुबन्धि च ॥१३८॥
गोमूत्रैरण्डतैलाभ्यां कृष्णाचूर्णं पिबेन्नरः
दीर्घकालोत्थितां हन्ति गृध्रसीं कफवातजाम् ॥१३९॥
सिंहास्यदन्तीकृतमालकानां पिबेत्कषायं रुबुतैलमिश्रम्
यो गृध्रसीनष्टगतिः प्रसुप्तः स शीघ्रगः स्याद्धि किमत्र चित्रम् ॥१४०॥
बृहन्निम्बतरोः सारो वारिणा परिपेषितः
स पीतो नाशयेत्क्षिप्रमसाध्यामपि गृध्रसीम् ॥१४१॥
शेफालिकादलैः क्वाथो मृद्वग्निपरिपाचितः
दुर्वारं गृध्रसीरोगं पीतमात्रः प्रणाशयेत् ॥१४२॥
रास्नायास्तु पलं चैकं पञ्चकर्षाणि गुग्गुलोः
सर्पिषावटिकां कृत्वा भक्षयेद् गृध्रसीहरीम् ॥१४३॥
रास्नामृतारग्वधदेवदारुत्रिकण्टकैरण्डपुनर्नवानाम्
क्वाथं पिबेन्नागरचूर्णमिश्रं जङ्घोरुपृष्ठत्रिकपार्श्वशूली ॥१४४॥
पथ्याबिभीतामलकीफलानां शतं क्रमेण द्विगुणाभिवृद्धम्
प्रस्थेन युक्तञ्च पलङ्कषाणां द्रो णे जले संस्थितमेकरात्रम् ॥१४५
अर्धावशिष्टं क्वथितं कषायं भाण्डे पचेत्तत्पुनरेव लौहे
अमूनि वह्नेरवतार्य दद्याद् द्र व्याणि सञ्चूर्ण्य पलार्द्धकानि ॥१४५॥
विडङ्गदन्तीत्रिफलागुडूची कृष्णात्रिवृन्नागरकोषणानि
यथेष्टचेष्टस्य नरस्य शीघ्रं हिमाम्बुपानानि च भोजनानि ॥१४७॥
निषेव्यमाणो विनिहन्ति रोगान्सगृध्रसीं नूतनखञ्जताञ्च
प्लीहानमुग्रं जठराग्निगुल्मं पाण्डुत्वकण्डूवमिवातरक्तम् ॥१४८॥
पथ्यादिको गुग्गुलुरेष नाम्ना ख्यातः क्षितावप्रमितप्रभावः
बलेन नागेन समं मनुष्यं जवेन कुर्यात्तुरगेण तुल्यम् ॥१४९॥
आयुः प्रकर्षं विदधाति चक्षुर्बलं तथा पुष्टिकरो विषघ्नः
क्षतस्य सन्धानकरो विशेषाद्रो गेषु शस्तः सकलेषु तज्ज्ञैः ॥१५०॥
वायुः कट्याश्रितः सक्थ्नः कण्डरामाक्षिपेद्यदा
खञ्जस्तदाभवेज्जन्तुः पङ्गुः सक्थ्नोर्द्वयोर्वधात् ॥१५१॥
उपाचरेदभिनवं खञ्जं पङ्गुमथापि च
विरेकास्थापनस्वेदगुग्गुलुस्नेहवस्तिभिः ॥१५२॥
कम्पते गमनारम्भे खञ्जन्निव च लक्ष्यते
कलायखञ्जं तं विद्यान्मुक्तसन्धिप्रबन्धनम् ॥१५३॥
क्रमः कलायखञ्जस्य खञ्जपङ्ग्वोरिव स्मृतः
विशेषात्स्नेहनं कर्म कार्यमत्र विचक्षणैः ॥१५४॥
वातशोणितजः शोथो जानुमध्ये महारुजः
ज्ञेयः क्रोष्टुकशीर्षस्तु स्थूलः क्रोष्टुकशीर्षवत् ॥१५५॥
गुग्गुलुं क्रोष्टुशीर्षे तु गुडूचीत्रिफलाऽम्भसा
क्षीरेणैरण्ड तैलं वा पिबेद्वा वृद्धदारकम् ॥१५६॥
रसैस्तित्तिरमांसस्य पीतेर्गुग्गुलुसंयुतैः
वातरक्तक्रियाभिश्च जयेज्जम्बूकमस्तकम् ॥१५७॥
खल्लीतु पादजङ्घोरुकरमूलावमोटिनी ॥१५८॥
कुष्ठसैन्धवयोः कल्कश्चुक्रतैलसमन्वितः
सुखोष्णो मर्दने योज्यः खल्लीशूलनिवारणः ॥१५९॥
रुक् पादे विषमे न्यस्ते श्रमाद्वा जायते यदा
वातेन गुल्फमाश्रित्य तमाहुर्वातकण्टकम् ॥१६०॥
रक्तावसेचनं कुर्यादभीक्ष्णं वातकण्टके
पिबेदैरण्डतैलं वा दहेत्सूचीभिरेव च ॥१६१॥
पादयोः कुरुते दाहं पित्तासृक्सहितोऽनिलः
विशेषतश्चङ्क्रमणे पाददाहं तमादिशेत् ॥१६२॥
वातरक्तक्रमं कुर्यात्पाददाहे विशेषतः
मसूरविदलैः पिष्टैः शृतशीतेन वारिणा
चरणौ लेपयेत्सम्यग्पाददाहप्रशान्तये ॥१६३॥
नवनीतेन संलिप्तौ वह्निना परिता पितौ
मुच्येते चरणौ क्षिप्रं परितापात्सुदारुणात् ॥१६४॥
हृष्येते चरणौ यस्य भवतश्च प्रसुप्तकौ
पादहर्षः स विज्ञेयः कफवातप्रकोपजः ॥१६५॥
पादहर्षे तु कर्त्तव्यः कफवातहरो विधिः ॥१६६॥
यदा तु धमनीः सर्वाः कुपितोऽभ्येति मारुतः
तदा क्षिपत्याशु मुहुर्मुहुर्देहं मुहुश्चलः
मुहुराक्षेपणाद्वायुराक्षेपक इति स्मृतः ॥१६७॥
पित्तश्लेष्मान्वितो वायुर्वायुरेव च केवलः
कुर्यादाक्षेपकं चान्यं चतुर्थमभिघातजम् ॥१६८॥
पाणिपादशिरः पृष्ठश्रोणीः स्तभ्नाति मारुतः
दण्डवत्स्तब्धगात्रस्य दण्डकः सोऽनुपक्रमः ॥१६९॥
कफावृतो यदा वायुर्धमनीष्वेव तिष्ठति
स दण्डवत्स्तम्भयति कृच्छ्रो दण्डापतानकः ॥१७०॥
बलामूलकषायस्य दशमूलीशृतस्य च
यवकोलकुलत्थानां क्वाथस्य पयसस्तथा ॥१७१॥
अष्टावष्टौ स्मृता भागास्तैलादेकस्तदेकतः
पचेदवाप्य मधुरं गणं सैन्धवसंयुतम् ॥१७२॥
तथाऽगुरुं सर्जरसं सरलं देवदारु च
मञ्जिष्ठां पद्मकं कुष्ठमेलां कालानुसारिवाम् ॥१७३॥
मांसीं शैलेयकं पत्रं तगरं सारिवां वचाम्
शतावरीमश्वगन्धां शतपुष्पां पुनर्नवाम् ॥१७४॥
तत्साधुसिद्धं सौवर्णे राजते मृण्मयेऽपि वा
प्रक्षिप्य कलशे सम्यक्स्वनुगुप्तं निधापयेत् ॥१७५॥
एतन्महाबलातैलं प्रयुक्तमविलम्बितम्
सर्वानाक्षेपकादींस्तु वातव्याधीन्व्यपोहति ॥१७६॥
हिक्कां श्वासमधीमन्थं गुल्मं कासं सुदुस्तरम्
षण्मासादुपयुक्तं तदन्त्रवृद्धिञ्च नाशयेत् ॥१७७॥
यथाबलमतो मात्रां सूतिकायै च दापयेत्
या च गर्भार्थिनी नारी क्षीणशुक्रश्च यः पुमान् ॥१७८॥
क्षीणवाते मर्महते ह्यभिघातहते तथा
भग्ने श्रमाभिपन्ने च सर्वथैतत्प्रयुज्यते ॥१७९॥
एतद्धि राज्ञा कर्त्तव्यं कर्त्तव्यं राजपूजितैः
सुखिभिः सुकुमारैश्च धनिभिर्मानवैः सदा ॥१८०॥
अङ्गुलीगुल्फजठरहृद्व क्षोगलसंश्रितः
स्नायुप्रतानमनिलस्तदाऽक्षिपतिवेगवान् ॥१८१॥
विष्टब्धाक्षः स्तब्धहनुर्भग्नपार्श्वः कफं वमन् ॥१८२॥
अभ्यन्तरे धनुरिव यदा नमति मानवः
तदा सोऽभ्यन्तरायामं कुरुते मारुतो बली ॥१८३॥
महाहेतुर्बली वायुःसशिराः स्नायुकण्डराः
मन्यापृष्ठाश्रिता बाह्यः संशोष्यानामयेद् बहिः ॥१८४॥
यत्र तं बहिरायामं प्रवदन्ति भिषग्वराः
तमसाध्यं बुधाः प्राहुर्वक्षः कट्यूरुभञ्जनम् ॥१८५॥
बाह्यायामेऽन्तरायामे विधेयाऽदितवत्क्रिया ॥१८६॥
धनुस्तुल्यो नमेद्यस्तु स धनुः स्तम्भसञ्ज्ञितः
विवर्णो बद्धवदनः स्रस्ताङ्गो नष्टचेतनः
प्रस्विद्यंश्च धनुःस्तम्भी दशरात्रं न जीवति ॥१८७॥
हृदयं यदि वा पृष्ठमुन्नतं क्रमतः सरुक्
क्रुद्धो वायुर्यदा कुर्यात्तदा तं कुब्जमादिशेत् ॥१८८॥
बाह्यायामेऽन्तरायामे धनुःस्तंभे च कुब्जके
योज्यं प्रसारणीतैलं तेन तेषां शमो भवेत् ॥१८९॥
वातव्याधिषु सामान्या याः क्रियाः कथिताः पुरा
कर्त्तव्या एव ताः सर्वास्तैलमेतद्विशेषतः ॥१९०॥
क्रुद्धः स्वैः कोपनैर्वायुः स्थानादूर्ध्वं प्रपद्यते
पीडयन्हृदयं गत्वा शिरः शङ्खौ च पीडयन् ॥१९१॥
धनुर्वन्नमयेद्गात्राण्या क्षिपेन्मोहयेत्तथा
स कृच्छ्रादुच्छ्वसेदुच्चैः स्तब्धाक्षोऽथ निमीलकः
कपोत इव कूजेच्च निः संज्ञः सोऽपतन्त्रकः ॥१९२॥
अथापतन्त्रकेणार्त्तमातुरं नापतर्पयेत्
निरूहवस्तिं वमनं सेवयेन्न कदाचन ॥१९३॥
श्वसनाः कफवाताभ्यां रुद्धास्तस्य विमोक्षयेत्
तीक्ष्णैः प्रधमनैः संज्ञां तासु मुक्तासु विन्दति ॥१९४॥
मरिचं शिग्रुबीजानि विडङ्गश्च फणिज्जकम्
एतानिसूक्ष्मचूर्णानि दद्याच्छीर्षविरेचने ॥१९५॥
हरीतकी वचा रास्ना सैन्धवं साम्लवेतसम् ॥१९६॥
घृतमार्द्र कसंयुक्तमपतन्त्रकनाशनम्
अम्लवेतसकाभावे चुक्रं दातव्यमीरितम् ॥१९७॥
दृष्टिं संस्तभ्य संज्ञाश्च हत्वा कण्ठेन कूजति
हृदि मुक्ते नरः स्वास्थ्यं याति मोहं वृते पुनः
वायुना दारुणं प्राहुरेके तमपतानकम् ॥१९८॥
गर्भजातनिमित्तश्च शोणितातिस्रवाच्च यः
अभिघातनिमितश्च न सिध्यत्यपतानकः ॥१९९॥
अथापतानकेनार्त्तमस्रुता क्षमवेपनम्
अखट्वापातिनं चैव त्वरया समुपाचरेत् ॥२००॥
अपतानकिने शस्तं दशमूलीशृतं जलम्
पिप्पलीचूर्णसंयुक्तं जीर्णं मांसरसौदनम् ॥२०१॥
तैलेन मर्दनं चैव तथा तीक्ष्णं विरेचनम्
स्रोतोविशोधनं पश्चात् सर्पिष्पानं हितं स्मृतम् ॥२०२॥
हन्त्यभुक्तवता पीतमम्लं दध्यपतानकम्
मरिचेन समायुक्तं स्नेहवस्तिरथापि वा ॥२०३॥
गृहीत्वाऽद्ध तनोर्वायुः शिरा स्नायूर्विशोष्य च
पक्षमन्यतरं हन्ति सन्धिबन्धान्विमोक्षयन् ॥२०४॥
कृत्स्नोऽद्धकायस्तस्य स्यादकर्मण्यो विचेतनः
एकाङ्गवातं तं केचिदन्ये पक्षवधं विदुः ॥२०५॥
दाहसन्तापमूर्च्छाः स्युर्वायौ पित्तसमन्विते
शैत्यशोथगुरुत्वानि तस्मिन्नेव कफावृते ॥२०६॥
शुद्धवातहतं पक्षं कृच्छ्रसाध्यतमं विदुः
साध्यमन्येन संयुक्तमसाध्यं क्षयहेतुकम् ॥२०७॥
गर्भिणीसूतिकाबालवृद्धक्षीणेष्वसृक्क्षये
पक्षाघातं परिहरेद्वेदनारहितो यदि ॥२०८॥
अथ पक्षाघातचिकित्सा
माषात्मगुप्तावातारिवाट्यालकजटाशृतम् ॥२०९॥
हिङ्गुसैन्धवसंयुक्तं पक्षाघातं विनाशयेत्
माषिके हिङ्गुसिन्धूत्थे जरणाद्यास्तु शाणिकाः ॥२१०॥
ग्रन्थिकाग्निकणाशुण्ठीरास्नासैन्धवकल्कितम्
माषाक्वाथशृतं तैलं पक्षाघातं व्यपोहति ॥२११॥
माषात्मगुप्ताऽतिविषोरुबूकरास्नाशताह्वालवणैः सुपिष्टैः
चतुर्गुणे माषबलाकषाये तैलं शृतं हन्ति हि पक्षघातम् ॥२१२॥
सर्वाङ्गपवने क्रुद्धे गात्रस्फुरणभञ्जने
वेदनाभिः परीताश्च स्फुटन्तीवास्य सन्धयः ॥२१३॥
सर्वाङ्गगतमेकाङ्गगतञ्चापि समीरणम्
तैलावगाहनं हन्ति तोयवेगमिवाचलः ॥२१४॥
स्थाननामानुरूपैश्च लिङ्गैः शेषान्विनिर्दिशेत्
सर्वेष्वेतेषु संसर्गं पित्ताद्यैरुपलक्षयेत् ॥२१५॥
प्रथमं ह्रस्वकेशत्वं ततो वाचालताऽपि च
आटोपः पार्श्वशूलञ्च पुरीषस्यातिगाढता ॥२१६॥
तथा मलाप्रवृत्तिश्च कम्पः स्तम्भश्च रूक्षता
कार्श्यं कार्ष्ण्यञ्च शैत्यञ्च लोमहर्षो व्यथा तथा ॥२१७॥
तोदो भेदः शिरास्फूर्त्तिरङ्गमर्दोऽङ्गशुष्कता
संकोचश्चाङ्गविभ्रंशो मोहश्चञ्चलचित्तता ॥२१८॥
निद्रा नाशः स्वेदनाशो बलहानिश्च भीरुता
शुक्रक्षयो रजोनाशो गर्भनाशः परिश्रमः ॥२१९॥
सामान्यवातरोगाणां या चिकित्सा प्रवक्ष्यते
एषां सातु विधातव्या तयैते यान्ति संक्षयम् ॥२२०॥
एवंविधानि रूपाणि करोति कुपितोऽनिलः
हेतुस्थानविशेषेण भवेद्रो गविशेषकृत् ॥२२१॥
उदाने पित्तसंयुक्ते दाहो मूर्च्छा भ्रमः क्लमः
अस्वेदहर्षौ मन्दाग्निः शीतता च कफावृते ॥२२२॥
प्राणे पित्तावृते छर्दिर्दाहश्चैवोपजायते
दौर्बल्यं सदनं तन्द्रा वैरस्यञ्च कफावृते ॥२२३॥
स्वेदो दाहस्तृषा मूर्च्छा समाने पित्तसंयुते
कफेन सक्ते विण्मूत्रे गात्रहर्षश्च जायते ॥२२४॥
अपाने पित्तसंयुक्ते दाहौष्ण्यं रक्तमूत्रता
अधःकाये गुरुत्वञ्च शीतता च कफावृते ॥२२५॥
व्याने पित्तावृते दाहो गात्रविक्षेपणं क्लमः
स्तम्भोऽथ दण्डकश्चापि शूलशोथौ कफावृते ॥२२६॥
वाते सपित्ते कुर्वीत वातपित्तहरीः क्रियाः
सकफे तत्र कुर्वीत वातश्लेष्महरीं क्रियाम् ॥२२७॥
त्वग्रूक्षा स्फुटिता सुप्ता कृशा कृष्णा च तुद्यते
आतन्यते सरागा च सर्वरुक्त्वग्गतेऽनिले ॥२२८॥
रुजस्तीव्राः ससन्तापा वैवर्ण्यं कृशताऽरुचिः
गात्रे चारूंषि भुक्तस्यस्तम्भश्चासृग्गतेऽनिले ॥२२९
गुर्वङ्गं तुद्यते स्तब्धं दण्डमुष्टिहतं यथा
सरुक्स्तिमितमत्यर्थं वाते मांससमाश्रिते ॥२२९॥
तथा मेदःश्रितः कुर्याद् ग्रन्थीन्मन्दरुजो व्रणान् ॥२३१॥
भेदोऽस्थिपर्वणां सन्धिशूलं मांसबलक्षयः
अस्वप्नः सतता रुक् च वाते दुष्टेऽस्थिसंस्थिते
वाते मज्जगते पीडा न कदाचित्प्रशाम्यति ॥२३२॥
क्षिप्रं मुञ्चति बध्नाति शुक्रं गर्भमथापि वा
विकृतिं जनयेच्चापि शुक्रस्थः कुपितोऽनिलः ॥२३३॥
वायौ त्वगाश्रिते स्नेहाभ्यङ्गं स्वेदञ्च कारयेत्
रक्तस्थे शीतलांल्लेपान्विरेकं रक्तमोक्षणम् ॥२३४॥
मांसमेदोगते वाते सविरेकं निरूहणम्
अस्थिमज्जगते स्नेहं बहिरन्तश्च योजयेत् ॥२३५॥
केतकनागबलाऽतिबलानां यद्बहुलेन रसेन विपक्वम्
तैलमनल्पतुषोदकसिद्धं मारुतमस्थिगतं विनिहन्ति ॥२३६॥
हर्षोऽन्नपानं शुक्रस्थे बलशुक्रकरं हितम् ॥२३७॥
अथ स्थानविशेषेण वातव्याधिविशेषाः
वाते कोष्ठाश्रिते दुष्टे निग्रहो मूत्रवर्चसोः
ब्रध्नहृद्रो गगुल्मार्शः पार्श्वशूलञ्च जायते ॥२३८॥
पाचनीयै रसेर्युक्तैरन्यैर्वा पाचयेन्मलान्
विशेषतः पिबेत्क्षीरं नरः कोष्ठगतेऽनिले ॥२३९॥
हृत्पार्श्वोदरनाभीरुक्तृष्णोद्गारविसूचिकाः
कासः कण्ठास्यशोषश्च श्वासश्चामाशयेऽनिले ॥२४०॥
आमाशयस्थे त्वनिले प्रशस्तं प्राग् लङ्घनं दीपनपाचनञ्च
प्रच्छर्दनं तीक्ष्णविरेचनं वा मुद्गा यवाः शालियुताः पुराणाः ॥२४१॥
भूतीकपथ्याशटिपुष्कराणि बिल्वामृतादारुकनागराणि
उग्राविषामागधिकाविडानिक्वाथास्त्रयः सामसमीरणघ्नाः ॥२४२॥
चित्रकेन्द्र यवौ पाठा कटुकातिविषाऽभया
आमाशयोत्थवातघ्नं चूर्णं पेयं सुखाम्बुना ॥२४३॥
योगेऽस्मिन्भिषजा ग्राह्याः षण्णां षड्धरणाः पृथक्
दिनेषु षट्सु दातव्यास्तेन षड् धरणः स्मृतः ॥२४४॥
आमाशयगते वाते छर्दिताय यथाक्रमम्
देयः षड्धरणो योगः सप्तरात्रं सुखाम्बुना ॥२४५॥
पक्वाशयस्थोऽन्त्रकूजं शूलाटोपौ करोति च
कृच्छ्रमूत्रपुरीषत्वमानाहं त्रिकवेदनाम् ॥२४६॥
वह्नेः सम्वर्द्धनं कार्यं कर्मौदावर्त्तकं तथा
देयः स्नेहविरेकश्च पक्वाशयगतेऽनिले ॥२४७॥
वाते जठरगे दद्यात्क्षारचूर्णादि दीपनम् ॥२४८॥
शुण्ठीकुटजबीजाग्निचूर्ण कोष्णाम्बु कुक्षिगे ॥२४९॥
ग्रहो विण्मूत्रवातानां शूलाध्मानाश्मशर्कराः
जङ्घोरुत्रिकपार्श्वांसपृष्ठरोगी गुदेऽनिले ॥२५०॥
वाते गुदगते दुष्टे कर्मोदावर्त्तकं हितम् ॥२५१॥
हृदयानिलनाशाय गुडूचीं मरिचान्विताम्
पिबेत्प्रातः प्रयत्नेन सुखं तप्ताम्भसा सह
पिबेदुष्णाम्भसा पिष्टमाश्वगन्धं बिभीतकम्
गुडयुक्तं प्रयत्नेन हृदयानिलनाशनम्
देवदारुसमायुक्तं नागरं परिपेषितम्
हृद्वातवेदनायुक्तः पीत्वा सुखमवाप्नुयात् ॥२५२॥
श्रोत्रादिष्विन्द्रि यवधं कुर्यात्क्रुद्धः समीरणः ॥२५३॥
श्रोत्रादिष्वनिले दुष्टे कार्यो वातहरः क्रमः
स्नेहाभ्यङ्गावगाहाश्च मर्दनालेपनानि च ॥२५४॥
कुर्याच्छिरागतः शूलं शिराकुञ्चनपूरणम्
स बाह्याभ्यन्तरायामं खल्लीं कुब्जत्वमेव च ॥२५५॥
स्नेहाभ्यङ्गोपनाहाश्च मर्दनालेपनानि च
वाते शिरोगते कुर्यात्तथा चासृग्विमोक्षणम् ॥२५६॥
शूलमाक्षेपकः कम्पः स्तम्भः स्नाय्वनिलाद्भवेत्
स्वेदोपनाहाग्निकर्मबन्धनोन्मर्दनानि च
क्रुद्धे स्नायुगते वाते कारयेत्कुशलो भिषक् ॥२५७॥
हन्ति सन्धिगतः सन्धीञ्छूलशोथौ करोति च ॥२५८॥
कुर्यात्सन्धिगते वाते दाहस्नेहोपनाहनम्
इन्द्र वारुणिकामूलं मागधीगुडसंयुतम्
भक्षयेत्कर्षमात्रं तत्सन्धिवातं व्यपोहति ॥२५९॥
हनुस्तम्भार्दिताक्षेपपक्षाघातापतानकाः
कालेन महता यत्नात्सिध्यन्ति न च वा न वा ॥२६०॥
नवान् बलवतां त्वेतान् साधयेन्निरुपद्र वान् ॥२६१॥
विसर्पदाहरुग्भङ्गमूर्च्छाऽरुच्यग्निमार्दवैः
क्षीणमांसबलं वाता घ्नन्ति पक्षवधादतः ॥२६२॥
शूनं सुप्तत्वचं म्लानं कम्पाध्माननिपीडितम्
रुजाऽत्तिमन्तञ्च नरं वातव्याधिर्विनाशयेत् ॥२६३॥
अव्याहतगतिर्यस्य स्थानस्थः प्रकृतौ स्थितः
वायुः स्यात्सोऽधिकं जीवेद्वीतरोगः समाः शतम् ॥२६४॥
अथ वातव्याधीनां सामान्यानि भेषजानि
माषस्यार्द्धाढकं देयं तुलार्द्धं दशमूलतः
पलानि च्छागमांसस्य त्रिंशद्द्रो णेऽम्भसः पचेत् ॥२६५॥
चतुर्भागावशेषं तं कषायमवतारयेत्
प्रस्थञ्च तिलतैलस्य पयो दद्याच्चतुगुर्णम् ॥२६६॥
जीवनीयानि मञ्जिष्ठा चव्यं चित्रककट्फलम्
सव्योषं पिप्पलीमूलं रास्नामलकगोक्षुरम् ॥२६७॥
आत्मगुप्ता तथैरण्डः शताह्वा लवणत्रयम्
देवदार्वमृताकुष्ठमश्वगन्धा वचा शटी ॥२६८॥
एतैरक्षमितैः कल्कैः पाचयेन्मृदुनाग्निना
पक्षाघातार्दिते पुंसि हनुस्तम्भार्दिते तथा ॥२६९॥
कर्णशूले शिरः शूले तिमिरे च त्रिदोषजे
पाणिपादशिरोग्रीवाभ्रमणे मन्दचङ्क्रमे ॥२७०॥
कलायखञ्जे पङ्गौ च गृध्रस्यामपबाहुके
पाने वस्तौ तथाऽभ्यङ्गे नस्ये कर्णादिपूरणे ॥२७१॥
तैलमेतत्प्रशंसन्ति सर्ववातविकारनुत्
महामाषादिनामेदं भाषितं मुनिभिः पुरा ॥२७२॥
माषा यवातसीक्षुद्रा मर्कटी च कुरण्टकः ॥२७३॥
गोकण्टष्टुण्टुकश्चैषां प्रत्येकं पलसप्तकम्
चतुर्गुणाम्बुना पक्त्वा पादशेषं शृतं नयेत् ॥२७४॥
कार्पासकास्थि बदरं शणबीजं कुलत्थकम्
पृथक्चतुर्दशपलं चतुर्गुणजले पचेत् ॥२७५॥
कषायं तत्र गृह्णीयाच्चतुर्थांशावशेषितम्
प्रस्थञ्च च्छागमांसस्य चतुःषष्टिपले जले ॥२७६॥
प्रक्षिप्य पाचयेद्धीमान्पादशेषं रसं नयेत्
तैलप्रस्थे ततः क्वाथान्सर्वास्तान्क्रमतः पचेत् ॥२७७॥
कल्कद्र व्यैः पचेदेभिरमृताकुष्ठसैन्धवैः
रास्नापुनर्नवैरण्डैः पिप्पल्या शतपुष्पया ॥२७८॥
बलाप्रसारणीभ्याञ्च मांस्या कटुकया तथा
पृथक्कर्षमितैरेतैः साधयेन्मृदुनाग्निना ॥२७९॥
हन्यात्तैलमिदं शीघ्रं वातव्याधीनशेषतः
आक्षेपकं पक्षघातमूरुस्तम्भापबाहुकौ
हस्तकम्पं शिरः कम्पं विश्वाचीमर्दितं तथा ॥२८०॥
अश्वगन्धाबलाबिल्वं पाटलाबृहतीद्वयम्
श्वदंष्ट्रातिवलानिम्बश्योनाकञ्च पुनर्नवाम् ॥२८१॥
प्रसारणीमग्निमन्थं कुर्याद्दशपलं पृथक्
चतुर्द्रोणे जले पक्त्वा पादशेषं शृतं नयेत् ॥२८२॥
तैलाढकेन संयोज्य शतावर्या रसाढकम्
प्रक्षिपेत्तत्र गोक्षीरं ततस्तैलाच्चतुर्गुणम् ॥२८३॥
पृथक्पलमितैः कल्कैर्द्र व्यैरेभिः पचेद्भिषक्
वचाचन्दनकुष्ठैलामांसीशैलेयसैन्धवैः ॥२८४॥
अश्वगन्धाबलारास्नाशतपुष्पेन्द्र दारुभिः
पर्णीचतुष्टयेनैव तगरेण प्रसाधयेत् ॥२८५॥
तत्तैलं भोजनेऽभ्यङ्गे पाने वस्तौ च योजयेत्
पक्षाघातं हनुस्तम्भं मन्यास्तम्भं गलग्रहम् ॥२८६॥
कुब्जत्वं बधिरत्वञ्च गतिभङ्गं कटीग्रहम्
गात्रशोषेन्द्रि यध्वंसं शुक्रनाशं ज्वरक्षयान् ॥२८७॥
अन्त्रवृद्धिं कुरण्डञ्च दन्तरोगं शिरोग्रहम्
पार्श्वशूलञ्च पङ्गुत्वं बुद्धिनाशञ्च गृध्रसीम् ॥२८८॥
अन्यांश्च विविधान्वातान्हरेत्सर्वाङ्गसंश्रयान्
अस्याः प्रभावाद्वन्ध्याऽपि नारी पुत्रं प्रसूयते ॥२८९॥
यथा नारायणो देवो दुष्टदैत्यविनाशनः
तथेदं वातरोगाणां नाशनं तैलमुत्तमम् ॥२९०॥
तिलतैलं समादाय चतुराढकसम्मितम्
पञ्चपल्लवकल्केन शोधयेद्दोषशान्तये ॥२९१॥
तत्राजं दुग्धमथवा गव्यं तैलसमं पचेत्
शतावरीरसञ्चापि तैलतुल्यं पचेद्भिषक् ॥२९२॥
दशमूली बला रास्ना शिग्रूत्पलपुनर्नवाः
शेफालिका नागबला बला चैव प्रसारणी ॥२९३॥
अश्वगन्धा सहचरो दशमूलं करञ्जकः
खदिरं चन्दनं लोध्रं वचाऽसनपलाशकम् ॥२९४॥
वकुलैरण्डवरुणशालयुग्मकटम्भराः
शिरीष शिखरी वासाहिंस्राजम्बूबिभीतकम् ॥२९५॥
काञ्चनारः कपित्थश्च पारिभद्रः प्रियालकम्
पाषाणभेदः शम्पाको दुग्धिका दाडिमीफलम् ॥२९६॥
उदुम्बरः सप्तला च कन्यका मालतीत्वचम्
मागधी नलमूलञ्च यवकोलकुलत्थकम् ॥२९७॥
आत्मगुप्ताऽककार्पासबीजं वत्सादनी स्नुही
केतकीमूलधत्तूरलाङ्गलीगर्दभाण्डकम् ॥२९८॥
चित्रकञ्च महानिम्बं पञ्चवल्कलमेव च
मुण्डी टङ्कारी मुशली हंसपादी विशल्यकम् ॥२९९॥
एषां दशपलान्भागान्वारिण्यष्टगुणे पचेत्
पादशेषं परिस्राव्य तत्र तैलं पुनः पचेत् ॥२९०॥
छागो मेषश्च हरिण एणश्च बहुशृङ्गकः
शशः शल्यः शिवा गोधा सिंहो व्याघ्रश्च भल्लुकः ॥२९१॥
वन्यो वराहः खड्गी च महिषो घोटकस्तथा
कपिर्बभ्रुर्विडालश्च मूषकश्चोरुदर्दुरः ॥२९२॥
वर्त्तिकस्तित्तिरिर्लावः खञ्जरीटश्चकोरकः
उलूको नीलकण्ठश्च वन्यकुक्कुट एव च ॥२९३॥
गृध्रश्च गरुडो हंसश्चक्रः कारण्डवोऽपि च
कपोतः सारसः क्रौञ्चो वन्यः पारावतस्तथा ॥२९४॥
रोहितो मद्गुरश्चापि शिलीन्ध्रः शृङ्गकस्तथा
इल्लिसो गर्गरो वर्मिरथ काकः पिकोऽपि च ॥२९५॥
महामत्स्यः कच्छपश्च शिशुमारश्च साङ्कुचिः
मकरो घण्टिकाऽकारस्तदलाभे तु गोधिका ॥२९६॥
यथालाभममीषाञ्च क्वाथं तैलसमं पचेत् ॥२९७॥
रास्नाऽश्वगन्धामिसिदारुकुष्ठपर्णीचतुष्कागुरुकेशराणि
सिन्धूत्थमांसीरजनीद्वयञ्च शैलेयकं चन्दन पुष्करञ्च ॥२९८॥
एला सयष्टी तगराब्दपत्रं भृङ्गोऽष्टवर्गस्तुवचा पलाशी
स्थौणेयवृश्चीरकचोरकाख्यं मूर्वात्वचं कट्फलपद्मकं च ॥२९९॥
मृणालजातीफलकेतकाख्यं सनागपुष्पं सरलं मुरा च
जीवन्तिकोशीरवरास्तथैव दुरालभा वानरिका नखश्च ॥३१०॥
कैवर्त्तमुस्तार्जुनतिक्तकञ्च वातामखर्जूरकतुम्बुराश्च
सधातकीग्रन्थिकपर्पटाश्च पटोलहेमाह्वजयन्तिकाश्च ॥३११॥
त्रायन्तिकाऽलम्बुषशक्रबीजं रसाञ्जनाभात्रिवृतारुणाश्च
द्रा क्षाकणाद्रो णपुनर्नवाश्च कौन्ती कृमिघ्नो हयमारकश्च ॥३१२॥
नीलोत्पलं पद्मककारवीभ्यां रम्भाऽनलो गोक्षुरकः क्षुरश्च
कङ्कोलकालेयकुसुम्भपुष्पं तुरुष्ककाश्मीरकसिक्थकञ्च
लवङ्गकर्पूररसालकाण्डकस्तूरिकाबालकमम्बरञ्च ॥३१३॥
कल्कानमीषां विपचेत्सुवैद्यः पृथक् पृथक् कर्षयुगोन्मितानाम्
शुभे च नक्षत्रमुहूर्त्तलग्ने सन्तोष्य विप्रांश्च भिषग्वरांश्च ॥३१४॥
सम्पूज्य नारायणनामधेयं देवं त्रिनेत्रं जगतामधीशम्
पात्रे तु हेम्नः खलु राजते वा ताम्रेऽथ वा लोहमयेऽपि रक्षेत् ॥३१५॥
अभ्यञ्जनेऽञ्जने नस्ये निरूहेचावगाहने
पाने चैतद्यथाव्याधि प्रयुञ्जीत चिकित्सकः ॥३१६॥
बहुनाऽत्र किमुक्तेन तैलमेतत्प्रयोजितम्
अवश्यं वातजान्व्याधीनशीतिमति नाशयेत् ॥३१७॥
एतस्याभ्यासतो जन्तोर्जरा जातु न जायते
पतन्ति वलयो नाङ्गे पलितञ्च न जायते ॥३१८॥
नेत्रं तेजस्वि नितरां गरुडस्येव जायते
नोच्चैःश्रुतिर्न बाधिर्यं कर्णनादो न जायते ॥३१९॥
पाणिकम्पः शिरः कम्पः प्रलापश्च न जायते
बुद्धिभ्रंशो न जायेत तस्मात्कर्मसु पाटवम् ॥३२०॥
यथा जलेन सिक्तस्य शाखिनः पल्लवादयः
वर्द्धन्ते धातवस्तद्वद् देहिनोऽनेन नित्यशः ॥३२१॥
आमं गर्भं त्यजेज्जातु सूतिका रुग्युता च या
याश्च दुष्प्रसवक्षीणास्ताभ्य एतद्धितं परम् ॥३२२॥
वन्ध्या च लभते पुत्रं गर्भपातो न जायते
योनिरोगाः प्रणश्यन्ति प्रदरश्च प्रशाम्यति ॥३२३॥
अस्मात्तैलवरादन्यत्कुत्रचिन्नास्ति भेषजम्
बल्यं वृष्यं बृहंणञ्च रसायनमिदं महत् ॥३२४॥
पुरा देवासुरे युद्धे दैत्यैरभिहतान्सुरान्
भिन्नान्भग्नास्थिकान्विद्धान्पिच्चितान्व्यथयाऽदितान् ॥३२५॥
दृष्ट्वा हिताय देवानां नराणां चाब्रवीदिदम्
तैलं नारायणो देवो महानारायणाभिधम् ॥३२६॥
नागरं पिप्पलीमूलंचव्यमूषणचित्रकम्
भृष्टं हिङ्ग्वजमोदा च सर्षपो जीरकद्वयम् ॥३२७॥
रेणुकेन्द्र यवौ पाठा बिडङ्गं गजपिप्पली
कटुकाऽतिविषा भार्गी वचा मूर्वा च पत्रकम् ॥३२८॥
देवदारु कणा कुष्ठं रास्ना मुस्ता च सैन्धवम्
एला त्रिकण्टकं पथ्या धान्यकञ्च बिभीतकम् ॥३२९॥
धात्री च त्वगुशीरञ्च यवक्षारोऽखिलान्यपि
एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ॥३३०॥
यावन्त्येतानि चूर्णानि तावानेवात्र गुग्गुलुः
संमर्द्य सर्पिषा पश्चात्सर्वं संमिश्रयेच्च तत् ॥३३१॥
एवं पिण्डच्च तत्कृत्वा धारयेद् घृतभाजने
गुटिकाष्टङ्कमात्रास्तु खादेत्तास्तु यथोचिताः ॥३३२॥
आदौ शाणोन्मितं खादेत्सार्द्धशाणं ततः परम्
तदग्रे कर्षमर्द्धन्तु पूर्णं कर्षं ततः परम् ॥३३३॥
गुग्गुलुर्योगराजोऽय महामुख्यो रसायनः
मैथुनाहारपानानां नियमो नात्र विद्यते ॥३३४॥
अर्शांसि ग्रहणीरोगं प्लीहगुल्मोदरानपि
आनाहं मन्दमग्निञ्च श्वासं कासमरोचकम् ॥३३५॥
प्रमेहं नाभिशूलञ्च कृमिक्षयमुरोग्रहम्
सर्वान्वातामयान्हन्यादामवातमपस्मृतिम् ॥३३६॥
वातरक्तं तथा कुष्ठं तथा दुष्टव्रणानपि
शुक्रदोषं रजोदोषमुदावर्त्तं भगन्दरम् ॥३३७॥
रास्नाऽदिक्वाथसंयुक्तः सर्ववातामयान्हरेत्
काकोल्यादिशृतात्पित्तं कफमारग्वधादिना ॥३३८॥
दार्वीशृतेन मेहांश्च गोमूत्रेण च पाण्डुताम्
मधुना मेदसो वृद्धिं कुष्ठं निम्बशृतेन च ॥३३९॥
छिन्नाक्वाथेन वातास्रं शोथं मूलकजाच्छृतात्
पाटलाक्वाथसहितो विषं मूषकसम्भवम् ॥३४०॥
त्रिफलाक्वाथसंयुक्तो दारुणां नेत्रवेदनाम्
पुनर्नवाऽदिक्वाथेन हन्ति सर्वोदराण्यपि ॥३४१॥
रास्ना पुनर्नवा शुण्ठी गुडूच्येरण्डजं शृतम्
सप्तधातुगते वाते सामे सर्वाङ्गगेऽपि चेत् ॥३४२॥
युक्तः कल्को रसोनस्य तिलतैलेन सिन्धुना
वातरोगान्हरेत्सर्वाञ्ज्वरांश्च विषमानपि ॥३४३॥
क्षीरेण तैलेन घृतेन वाऽपि मांसेन सार्द्धं लशुनानि खादेत्
शाल्योदनेनापि च षष्टिकेन पलार्द्धवृद्ध्या दिवसानि सप्त ॥३४४॥
वातोत्थरोगान्विषमज्वरांश्च शूलान्सगुल्मान्दहनस्य मान्द्यम्
प्लीहानमुग्रं भुजपार्श्वशूलं शिरोव्यथां कृन्तति शुक्रदोषान् ॥३४५॥
अन्नप्रकारैः पललप्रकारैर्गोधूमकैर्वा यवशक्तुभिर्वा
दुग्धेन तैलेन घृतेन वाऽपि युक्तानि शीते लशुनानि खादेत् ॥३४६॥
संवर्त्तकैर्लावकपिञ्जलैर्वा मृग्याः पलैर्वाऽप्यथ कौक्कुटैर्वा
वाराहवर्त्तीरकहारिणैर्वा सुसंस्कृतैरग्निबलं समीक्ष्य ॥३४७॥
रसोनपक्वकन्दस्य गुलिका निस्तुषीकृताः
पाटयित्वा च मध्यस्थं दूरीकुर्यात्तदङ्कुरम् ॥३४८॥
निश्युग्रगन्धनाशाय दध्ना सन्नीय रक्षयेत्
ततः प्रक्षाल्य संशोष्य शिलायां परिपेषयेत् ॥३४९॥
कल्कस्य पञ्चमं भागं चूर्णमेषां विनिक्षिपेत्
सौवर्चलं यवानीञ्च भर्जितं हिङ्गु सैन्धवम् ॥३५०॥
कटुत्रिकं जीरकञ्च समभागानि चूर्णयेत्
तिलतैलञ्च कल्कस्य तुर्याशं तत्र मिश्रयेत् ॥३५१॥
खादेत्कर्षमितं प्रातः किं वा दोषाद्यपेक्षया
अनुपानं प्रकुर्वीत वातारिशृतमन्वहम् ॥३५२॥
सर्वाङ्गैकाङ्गजं वातमर्दितञ्चापतन्त्रकम्
अपस्मारं तथोन्मादमूरुस्तम्भञ्च गृध्रसीम् ॥३५३॥
उरः पृष्ठकटीपार्श्वकुक्षिपीडां कृमीन्हरेत्
मद्यं मांसं तथाऽम्लञ्च रसं सेवेत नित्यशः ॥३५४॥
आयासमातपं रोषमतिनीरं गुडं स्त्रियम्
रसोनमश्नन्पुरुषस्त्यजेदेतन्निरन्तरम् ॥३५५॥
वर्जयेत्तदतीसारी प्रमेही पाण्डुरोगवान्
अरोचकी गर्भिणी च मूर्च्छाऽशोरोगसंयुतः ॥३५६॥
रक्तपित्ती च शोषी च यक्ष्मी छर्द्यर्दितो नरः
पित्ते तु पथ्यभुक्कुर्यात्प्रयोगान्ते विरेचनम् ॥३५७॥
अन्यथा तस्य जायन्ते कुष्ठपाण्ड्वामयादयः
स्त्रीस्तन्यं त्वरितं दद्याद्वालानामप्यनिच्छताम् ॥३५८॥
तथा च लभते सिद्धिं महावीर्याद्र सोनतः ॥३५९॥
रसो गन्धो वरा वह्निर्गुग्गुलुः क्रमवर्द्धितः
तत्रैकभागः सूतः स्याद्गन्धको द्विगुणः स्मृतः ॥३६०॥
त्रिभागा त्रिफला योज्या चतुर्भागस्तु चित्रकः
गुग्गुलुः पञ्चभागः स्याद्रुबुतैलेन मर्दयेत् ॥३६१॥
क्षित्वा तत्रोदितं चूर्णं तेन तैलेन मर्दयेत्
गुटिकां कर्षमात्रान्तु भक्षयेत्प्रातरेव हि ॥३६२॥
नागरैरण्डमूलानां कषायं प्रपिबेदनु
अभ्यज्यैरण्डतैलेन स्वेदयेत्पृष्ठदेशकम् ॥३६३॥
विरेकपरिणामे तु स्निग्धमुष्णञ्च भोजयेत्
वातारिसंज्ञको ह्येष रसो नियतसेवितः
मासेन मरुतो रोगान्हरेत्सुरतवर्जिनः ॥३६४॥
इति चतुर्विंशो वातव्याध्यधिकारः समाप्तः ॥२४॥
N/A
References : N/A
Last Updated : May 17, 2021
TOP