संस्कृत सूची|संस्कृत साहित्य|संहिता|भावप्रकाशसंहिता|मध्यखण्डः|द्वितीयः भागः| कृमिरोगाधिकारः द्वितीयः भागः अशोऽधिकारः जठरान्निगविकाराधिकारः कृमिरोगाधिकारः पाण्डुरोगकामलाहलीमकाधिकारः रक्तपित्ताधिकारः अम्लपित्तश्लेष्मपित्ताधिकारः राजयक्ष्माधिकारः कासरोगाधिकारः हिक्काऽधिकारः श्वासरोगाधिकारः स्वरभेदाधिकारः अरोचकाधिकारः छर्द्यधिकारः तृष्णाऽधिकारः मूर्च्छाभ्रमनिद्रातन्द्रासंन्यासाधिकारः मदात्ययाधिकारः दाहाधिकारः उन्मादाधिकारः अपस्माराधिकारः वातव्याध्यधिकारः ऊरुस्तम्भाधिकारः आमवाताधिकारः पित्तव्याध्यधिकारः श्लेष्मव्याध्यधिकारः वातरक्ताधिकारः द्वितीयः भागः - कृमिरोगाधिकारः भावप्रकाशसंहिता Tags : aayurvedbhavprakash samhitasamhitaआयुर्वेदभावप्रकाश संहितासंहिता कृमिरोगाधिकारः Translation - भाषांतर अथ सप्तमः कृमिरोगाधिकारः ॥७कृमयस्तु द्विधा प्रोक्ता बाह्याभ्यन्तरभेदतः ॥१॥बहिर्मलकफासृग्विड्जन्मभेदाच्चतुर्विधाःनामतो विंशतिविधा बाह्यास्तत्र मलोद्भवाः ॥२॥तिलप्रमाणसंस्थानवर्णाः केशाम्बराश्रयाःबहुपादाश्च सूक्ष्माश्च यूका लिख्याश्च नामतः ॥३॥द्विधा ते कोठपिडिकाः कण्डूगण्डान्प्रकुर्वते ॥४॥अजीर्णभोजी मधुराम्लसेवी द्र वप्रियः पिष्टगुडोपभोक्ताव्यायामवर्जी च दिवाशयी च विरुद्धभोजी लभते कृमींश्च ॥५॥ज्वरो विवर्णता शूलं हृद्रो गः सदनं भ्रमःभक्तद्वेषोऽतिसारश्च सञ्जातकृमिलक्षणम् ॥६॥मांसमाषगुडक्षीरदधिशुक्तैः कफोद्भवाः ॥७॥कफादामाशये जाता वृद्धाः सर्पन्ति सर्वतःपृथुब्रध्ननिभाः केचित्केचिद्गण्डूपदोपमाः ॥८॥रुढधान्याङ्कुराकारास्तनुदीर्घास्तथाऽणवःश्वेतास्ताम्रावभासाश्च नामतः सप्तधा तु ते ॥९॥अन्त्रादा उदरावेष्टा हृदयादा महागुदाःच्युरवो दर्भकुसुमाः सुगन्धास्ते च कुर्वते ॥१०॥हृल्लासमास्यस्रवणमविपाकमरोचकम्मूर्च्छाच्छर्दिज्वरानाहकासक्षवथुपीनसान् ॥११॥विरुद्धाजीर्णशाकाद्यैः शोणितोत्था भवन्ति हि ॥१२॥रक्तवाहिशिरास्थाना रक्तजा जन्तवोऽणवःप्रपादा वृत्तताम्राश्च सौक्ष्म्यात्केचिददर्शनाः ॥१३॥केशादा लोमविध्वंसा रोमद्वीपा उदुम्बराःषट् ते कुष्ठैककर्माणः सहसौरसमातरः ॥१४॥माषपिष्टाम्ललवणगुडशाकैः पुरीषजाः ॥१५॥पक्वाशये पुरीषोत्था जायन्तेऽधोविसर्पिणःवृद्धास्ते स्युर्भवेयुश्च ते यदाऽमाशयोन्मुखातदाऽस्योद्गारनिःश्वासा विड्गन्धानुविधायिनःपृथुवृत्ततनुस्थूलाः श्यावपीतसितासिताः ॥१६॥ते पञ्च नाम्ना कृमयः ककेरुकमकेरुकाःसौसुरादाः सलूनाख्या लेलिहा जनयन्ति चविड्भेदशूलविष्टम्भकार्श्यपारुष्यपाण्डुताः रोमहर्षाग्निसदनगुदकण्डूर्विमार्गगाः ॥१७॥विडङ्गव्योषसंयुक्तमन्नमण्डं पिबेन्नरःदीपनं कृमिनाशाय जठराग्निविवृद्धये ॥१८॥प्रत्यहं कटुकं तिक्तं भोजनं कफनाशनम्कृमीणां नाशनं रुच्यमग्निसन्दीपनं परम् ॥१९॥विडङ्गशृतपानीयं विडङ्गेनावधूलितम्पीतं कृमिहरं दृष्टं कृमिजांश्च गदाञ्जयेत् ॥२०॥लिह्याद्विडङ्गचूर्णं वा मधुना कृमिनाशनम्पलाशबीजस्य रसं पिबेन्माक्षिकसंयुतम्पिबेत्तद्बीजकल्कं वा मधुना कृमिनाशनम् ॥२१॥कम्पिल्लचूर्णकर्षार्द्धं गुडेन सह भक्षितम्पातयेत्तु कृमीन्सर्वानुदरस्थान्न संशयः ॥२२॥विडङ्गं कौटजं बीजं तथा बीजं पलाशजम्सञ्चूर्ण्य खादेत्खण्डेन कृमीन्नाशयितुं नरः ॥२३॥निम्बपत्रसमुद्भूतं रसं क्षौद्र्रयुतं पिबेत्धत्तूरपत्रजं वाऽपि कृमिनाशनमुत्तमम् ॥२४॥रसेन्द्रे ण समायुक्तो रसो धत्तूरपत्रजःताम्बूलपत्रजो वाऽपि लेपो यूकाविनाशनः ॥२५॥धत्तूरपत्रकल्केन तद्र्रसेनैव पाचितम्तैलमभ्यङ्गमात्रेण यूका नाशयति क्षणात् ॥२६॥कृमीणां विट्कफोत्थानामेतदुक्तं चिकित्सितम्रक्तजानान्तु संहारं कुर्यात्कुष्ठचिकित्सया ॥२७॥क्षीराणि मांसानिघृतानि चापि दधीनि शाकानि च वर्णयन्तिअम्लञ्च मिष्टञ्च रसं विशेषात्कृमीञ्जिघांसुः परिवर्जयेद्धि ॥२८॥इति सप्तमः कृमिरोगाधिकारः सम्पूर्णः ॥७॥ N/A References : N/A Last Updated : May 17, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP