द्वितीयः भागः - हिक्काऽधिकारः
भावप्रकाशसंहिता
अथ त्रयोदशो हिक्काऽधिकारः ॥१३॥
विदाहिगुरुविष्टम्भि रुक्षाभिष्यन्दिभोजनैः
शीतपानाशनस्नानरजो धूमात्तथाऽनिलैः ॥१॥
व्ययामकर्मभाराध्व वेगाघातापतर्पणैः
हिक्का श्वासश्च कासश्च नृणां समुपजायते ॥२॥
वायुःकफेनानुगतः पञ्च हिक्काःकरोति हि
अन्नजां यमलां क्षुद्रं गम्भीरां महतीं तथा ॥३॥
मुहुर्मुहुर्वायुरुदेति सस्वनो यकृत्प्लिहान्त्राणि मुखादिवाक्षिपन्
स दोषवानाशु हिनस्त्यसून्यतस्ततस्तु हिक्केत्यभिधीयते बुधैः ॥४॥
कण्ठोरसोर्गुरुत्वञ्च वदनस्य कषायता
हिक्कानां पूर्वरूपाणि कुक्षेराटोप एव च ॥५॥
पानान्नैरतिसंयुक्तैः सहसा पीडितोऽनिलः
हिक्कयेदूर्ध्वगो भूत्वा तां विद्यादन्नजां भिषक् ॥६॥
चिरेण यमलैर्वेगैर्या हिक्कासम्प्रवर्त्तते
कम्पयन्ती शिरो ग्रीवां यमलां तां विनिर्दिशेत् ॥७॥
विकृष्टकालैर्या बेगैर्मन्दैः समभिवर्त्तते
क्षुद्रि का नाम सा हिक्का जत्रुमूलं प्रधाविता ॥८॥
नाभिप्रवृत्ता या हिक्का घोरा गम्भीरनादिनी
अनेकोपद्र ववती गम्भीरा नाम सा स्मृता ॥९॥
मर्माणि पीडयन्तीव सततं या प्रवर्त्तते
महाहिक्केति सा ज्ञेया सर्वगात्रप्रकम्पिनी ॥१०॥
आकम्पते हिक्कतो यस्य देहो दृष्टिश्चोर्ध्वं ताम्यते नित्यमेव
क्षीणोऽन्नद्विट् क्षौति यश्चातिमात्रं तौ चान्त्यौ वर्जयेद्धिक्कमानौ ॥११॥
अतिसञ्चितदोषस्य भक्तद्वेषकृशस्य च
व्याधिभिः क्षीणदेहस्य वृद्धस्यातिव्यवायिनः ॥१२॥
आयासाच्च समुत्पन्ना हिक्का हन्त्याशु जीवितम्
यमिका च प्रलापार्त्तिमोहतृष्णासमन्विता ॥१३॥
अक्षीणस्याप्यदीनस्य स्थिरधात्विन्द्रि यस्य च
तस्यसाधयितुं शक्या यमिका हन्त्यतोन्यथा ॥१४॥
यत्किञ्चित्कफवातघ्नमुष्णं वातानुलोमनम्
भेषजं पानमन्नं वा हिक्काश्वासेषु तद्धितम् ॥१५॥
हिक्काश्वासातुरे पूर्वं तैलाक्ते स्वेद इष्यते
ऊर्ध्वाधः शोधनं शस्तं दुर्बले शमनं मतम् ॥१६॥
प्राणावरोधतर्जनविस्मापनशीतवारिपरिषेकैः
चित्रैः कथाप्रयोगैः शमयेद्धिक्कां मनोभिघातैश्च ॥१७॥
हिक्कार्त्तस्य पयश्छागं हितं नागरसाधितम्
मधुसौवर्चलोपेतं मातुलुङ्गरसं पिबेत् ॥१८॥
मधुकं मधुसंयुक्तं पिप्पली शर्करान्विता
नागरं गुडसंयुक्तं हिक्काघ्नं नावनत्रयम् ॥१९॥
प्रवालशङ्खत्रिफलाचूर्णं मधुघृतप्लुतम्
पिप्पली गैरिकञ्चेति लेहो हिक्कानिवारणः ॥२०॥
नैपाल्या गोविषाणाद्वा कुष्ठात्सर्जरसस्य वा
धूपं कुशस्य वा कार्यं पिबेद्धिक्कोपशान्तये ॥२१॥
निर्धूमाङ्गारनिक्षिप्त हिङ्गुमाषरजोभवः
हिक्काः पञ्चापि हन्त्याशु धूमः पीतो न संशयः ॥२२॥
हरेणुककणानाञ्च क्वाथो हिङ्गुसमन्वितः
हिक्काप्रशमनश्रेष्ठो धन्वन्तरिवचो यथा ॥२३॥
चन्द्र शूरस्य बीजानि क्षिपेदष्टगुणे जले
यदा मृदूनि मृद्नीयात्ततो वाससि गालयेत् ॥२४॥
हिक्कातिवेगविकलस्तज्जलं पलमात्रया
पिबेत्पिबेत्पुनश्चापि हिक्कावश्यं प्रशाम्यति ॥२५॥
इति त्रयोदशो हिक्काऽधिकारः समाप्तः ॥१३॥
N/A
References : N/A
Last Updated : May 17, 2021
TOP